Verses

वरदविष्णुक्षेत्रमाहात्म्यम् Varadaviṣṇu Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

आश्रमे निवसंस्तस्य धौम्यस्यैव महामुनेः ।

गुरुसेवां चकारायमुपमन्युर्जितेन्द्रियः ॥

2

नित्यं गाश्चारयामास धौम्यस्यैवानुशासनात् ।

क्षुत्पिपासाकुलो दीनो गुरुभक्तिरतो महान् ॥

3

स तु भिक्षाटनं कृत्वा ब्राह्मणानां गृहे गृहे ।

निवेदयामास सर्वं गुरवे भक्तिपूर्वकम् ॥

4

न ददाति गुरुर्धौम्यो भिक्षान्नमुपमन्यवे ।

स्वयमेव बुभोजास्य परीक्षां कर्तुमिच्छया ॥

5

अर्कक्षीरं पिबन्नित्यं चारयामास गा वने ।

त्यक्त्वा गुरोर्गवां क्षीरमग्निहोत्रार्हमित्यहो ॥

6

दिने दिने निपीतेन त्वर्कक्षीरेण बालकः ।

अन्धो बभूव मार्गस्थे तदा कूपे पपात ह ॥

7

विचिन्वन्नुपमन्युं तमागत्य स महामुनिः ।

कूपादुद्धृत्य कृपया स्वशिष्यं परिषस्वजे ॥

8

अर्कक्षीरस्य पानेन जातमन्धत्वमस्य तत् ।

ज्ञात्वा करुणया धौम्यः क्लिन्ननेत्रोऽभवन्मुनिः ॥

9

सादरं पालयामास तमानीय निजाश्रमे ।

अन्धनेत्रोऽयमित्येनं हसन्ति स्मान्यबालकाः ॥

10

बालानां परिहासोक्तिं गुरवे स न्यवेदयत् ।

पश्चात्तापेन धौम्योऽपि क्षणं चिन्ताकुलोऽभवत् ॥

11

अथ नारायणं ध्यात्वा चिन्तां शोकं विहाय च ।

उपमन्युमुवाचैनं धौम्यः करुणया मुनिः ॥

12

धौम्य उवाच

वरेण्यो वरदो विष्णुः प्रपन्नार्तिहरो हरिः ।

तमेवाश्रय बाल त्वं करुणावरुणालयम् ॥

13

अन्धनेत्रोऽसि बाल त्वां दृढनेत्रं करिष्यति ।

सर्वशक्तः जगन्नाथो हरिर्नारायणः प्रभुः ॥

14

श्रीसद्गुरुरुवाच

इत्युक्तो गुरुणा बालश्चकार हरिचिन्तनम् ।

आविर्बभूव भगवान् वरदो धर्मवत्सलः ॥

15

शङ्खचक्रधरः श्रीमान् मेघश्यामलविग्रहः ।

पीताम्बरधरः स्रग्वी पुण्डरीकविलोचनः ॥

16

उपवासकृशस्यैवमुपमन्योस्तपस्विनः ।

विष्णुः समीपमागत्य ह्यपूपं प्रददौ हरिः ॥

17

आज्ञापयामास बालमपूपं भक्षयेति च ।

अनश्नन्नेव बालस्तं धीरो विष्णुमुवाच ह ॥

18

भिक्षया मम यत्प्राप्तं गुरवे तन्निवेदयेत् ।

एतद्व्रतं मम स्वामिन् दास्यामि गुरवे ननु ॥

19

भुङ्क्ष्वेति मां गुरुर्धौम्यः कृपया यत्प्रदास्यति ।

तदहं भक्षयिष्यामि धर्म एष ममाच्युत ॥

20

श्रीभगवानुवाच

उपमन्यो प्रसन्नोऽस्मि गुरुभक्त्या तवानया ।

गुरुभक्त्या तवैवाद्य दृढनेत्रो भविष्यसि ॥

21

मत्प्रसादमपूपं च गुरवे त्वं निवेदय ।

उपमन्यो भक्षय त्वं तद्गुरोरनुशासनात् ॥

22

श्रीसद्गुरुरुवाच

इत्युक्त्वा वरदो विष्णुरूपमन्योः कृपानिधिः ।

दृष्टिं प्रकाशयामास ददौ च निजदर्शनम् ॥

23

सहसा परमं हर्षमवाप्य मुनिबालकः ।

दधाव धौम्यसविधमपूपं च ददौ तथा ॥

24

विष्णोरनुग्रहं प्राप्तमुवाच स तु बालकः ।

तच्छ्रुत्वा परमानन्दमवाप मुनिपुङ्गवः ॥

25

धौम्य उवाच

विष्णोरनुग्रहेणैव दृढनेत्रोऽसि बालक ।

एतावता न सन्तोषं प्राप्नोमि तव चिन्तया ॥

26

एतावत्कालपर्यन्तं शुश्रूषामाचरन् मम ।

विद्यया न तु पूर्णोऽसि केवलं श्रम एव हि ॥

27

विद्या हि परमं चक्षुस्तद्विहीनोऽन्ध एव हि ।

प्राप्यापि दृढनेत्रत्वमन्ध एवासि बालक ॥

28

अशानेदमपूपं त्वं प्रसादं पावनं हरेः ।

विद्यां परामाप्स्यसि त्वं शोकमोहविनाशिनीम् ॥

29

श्रीसद्गुरुरुवाच

इत्युक्तो मुनिना बालो भुक्त्वाऽपूपं दृढव्रतः ।

आचम्य पुनरागत्य ननाम गुरुपुङ्गवम् ॥

30

प्रसन्नहृदयं दृष्ट्वा बालकं ब्रह्मतेजसम् ।

पप्रच्छ कृपया धौम्यः परमानन्दपूरितम् ॥

31

उपमन्यो पश्यसि किं प्रसन्ननयनाम्बुजः ।

अवाप्तकामं जानामि त्वामद्य ब्रह्मतेजसम् ॥

32

उपमन्युरुवाच

मय्यपि त्वयि सर्वत्र विष्णुमेव सनातनम् ।

पश्यामि भगवन् धौम्य नेह नानास्ति किञ्चन ॥

33

धौम्य उवाच

एतावती सर्वविद्या समाप्ता ते महामते ।

पुनरेव गृहं गत्वा गार्हस्थ्यं धर्ममाचर ॥

34

आश्रमाणां तु सर्वेषां गार्हस्थ्यं श्रेष्ठमाश्रमम् ।

वदन्ति मुनयः सर्वे तस्माद्गार्हस्थ्यमाचर ॥

35

श्रेष्ठो ज्ञानी गृहस्थोऽपि पतितोद्धारको हि सः ।

सन्न्यासिनामविदुषां सहस्रं च न तत्समम् ॥

36

श्रीसद्गुरुरुवाच

अथ धौम्यमनुज्ञाप्य गृहं गत्वा महातपाः ।

उवास विष्णुमभ्यर्चन् गार्हस्थ्यं धर्ममाचरन् ॥

37

तदिदं परमं क्षेत्रं यत्प्रसादेन लभ्यते ।

अन्धस्य दृढनेत्रत्वमद्यापि श्रद्धयैव हि ॥

38

स एव वरदो विष्णुः श्रितानां नेत्रदायकः ।

भजध्वं दृढविश्वासात् प्रणतार्तिहरं हरिम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे वरदविष्णुक्षेत्रमाहात्म्यम् नाम त्रिचत्वारिंशोऽध्यायः ॥
Ch.42 Tṛtīya Bhāge