Verses

आदनक्षेत्रमाहात्म्यम् Ādana Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

असुरैः पीडिता देवा ब्रह्माणं शरणं ययुः ।

ब्रह्मा च तान् सहानीय क्षीराम्बुधिमुपागमत् ॥

2

देवदेवं जगन्नाथं शेषपर्यङ्कशायिनम् ।

देवाश्च मुनयः सिद्धाः शरण्यं शरणं ययुः ॥

3

देवा ऊचुः

देवदेव जगन्नाथ लक्ष्मीनाथ नमोऽस्तु ते ।

असुरैः पीडितानस्मान् पाहि पङ्कजलोचन ॥

4

भवन्तं सर्वलोकानां शरण्यं करुणार्णवम् ।

त्यक्त्वा कमन्यं शरणं यामो भक्तजनप्रिय ॥

5

दयां दर्शनं देहि दामोदर जनार्दन ।

तव दर्शनमात्रेण दीनानां मङ्गलं भवेत् ॥

6

श्रीसद्गुरुरुवाच

एवं संप्रार्थितो विष्णुः शरणागतवत्सलः ।

कृपया दर्शनं दत्वा बभाषे मधुरं वचः ॥

7

श्रीभगवानुवाच

अभयं विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः ।

क्षीराब्धेर्मथनं कृत्वा लब्ध्वा पीत्वा तथाऽमृतम् ॥

8

अमोघबलवीर्याश्च भविष्यथ न संशयः ।

प्रयत्नं कुरुत क्षिप्रं भवतां क्षेमकाङ्क्षया ॥

9

श्रीसद्गुरुरुवाच

इत्युक्ता निर्जराः सर्वे शैलमानीय मन्दरम् ।

वासुकिं नागमानीय ममन्थुः क्षीरसागरम् ॥

10

तदा तस्मात्कामधेनुः कल्पकश्चाप्सरोगणः ।

उच्चैःश्रवाः हयश्चापि दिव्यं रत्नं च कौस्तुभम् ॥

11

ऐरावतो गजेन्द्रश्च चन्द्रश्चापि कलानिधिः ।

आविर्बभूवुः देवैश्च मथिते क्षीरसागरे ॥

12

सहस्रदलपद्मस्था कमला कमलानना

क्षीराम्बुधेः समुद्भूता दिव्यां कमलमालिकाम् ।

धारयामास सानन्दं कमलाक्षस्य वक्षसि ॥

13

कलशं च सुधापूर्णमाविर्भूतं तदाऽम्बुधौ ।

अपहृत्य तदा जग्मुरसुराः स्वार्थपण्डिताः ॥

14

तदा तान् मोहयन् दैत्यान् जगन्मोहनविग्रहः ।

प्रददावमृतं देवो देवेभ्यः कृपया हरिः ॥

15

कौस्तुभं कमलां चैव लेभे स पुरुषोत्तमः ।

स्वजटाभूषणं चन्द्रं लेभे रुद्रस्तु धूर्जटिः ॥

16

ऐरावतं गजेन्द्रं च कल्पकञ्चाप्सरोगणम्

देवगणाधीशो देवाः सर्वे सुधां तथा ।

उच्चैःश्रवसमश्वं च लेभे दैत्येश्वरो बलिः ॥

17

कामधेनुस्तदा सा गोविन्दं स्वयमेव हि ।

भगवानपि तां धेनुमुवाचाश्रितवत्सलः ॥

18

श्रीभगवानुवाच

कामधेनो जगन्मातर्गोलोकं प्रददामि ते ।

नित्यं गोपालरूपेण तत्र त्वां पालयाम्यहम् ॥

19

त्वमाश्रितानां सर्वेषां कामितार्थफलप्रदा ।

कीर्तिमाप्स्यसि पूज्याऽसि देवैश्च मुनिभिस्तथा ॥

20

त्वामाश्रित्य वसिष्ठाद्या मुनयश्च मनस्विनः ।

अग्निहोत्रं करिष्यन्ति श्रद्धयाऽतिथिपूजनम् ॥

21

धेनूश्च वृषभांश्चैव सृज त्वं भुवि कोटिशः ।

तव सन्ततिरेषा तु करिष्यति नृणां शुभम् ॥

22

गवां क्षीरेण मर्त्याश्च भविष्यन्त्यमरोपमाः ।

पूजयिष्यन्ति लोकेऽपि मनुष्यास्तव सन्ततिम् ॥

23

श्रीसद्गुरुरुवाच

इत्युक्ता कामधेनुश्च लोकानां हितकाम्यया ।

ससर्ज वृषभान् धेनूः कृपयैव सहस्रशः ॥

24

गवां क्षीरेण मर्त्याश्च बभूवुरमरोपमाः ।

तान् दृष्ट्वा सुरभिश्चापि बभौ पूर्णमनोरथा ॥

25

एवं परोपकारार्थं कुर्वन्ति प्राणधारणम् ।

अस्मिन् लोके महासाध्व्यो गावः प्रत्यक्षदेवताः ॥

26

गवां क्षीरेण दध्ना च नवनीतेन सर्पिषा ।

घृतेन यज्ञं कुर्वन्ति लोकक्षेमाय भूसुराः ॥

27

गवां मूत्रेण शकृता कुर्वन्ति गृहमार्जनम् ।

तस्मिन् गृहे वसन्तस्ते प्राप्नुवन्ति च मङ्गलम् ॥

28

गवां क्षीरेण शिशवो वर्धन्ते मातृवर्जिताः ।

तस्माद्गावो मातरो हि सर्वेषां च नृणामिह ॥

29

गवां यवसदानेन पूजनेन च सेवया ।

सुप्रीतो भगवान् कृष्णो निजलोकं ददाति च ॥

30

कृत्वा गवां भक्तिपूर्वं सायं प्रातः प्रदक्षिणम् ।

सर्वपापविमुक्तात्मा याति गोलोकमुत्तमम् ॥

31

गवामङ्गेषु सर्वत्र सन्ति सर्वाश्च देवताः ।

सर्वदेवमयीर्गास्ताः श्रद्धया पूजयेत् सदा ॥

32

वृषभैः कर्षकाः सर्वे केदारेषु दिने दिने ।

कृषिं कुर्वन्ति भुवने सानन्दं शालिवर्धकाः ॥

33

शाल्यन्नेन जगत्सर्वं क्षुद्बाधावर्जितं खलु ।

गावो हि कारणं तस्य तस्माद्गाः पूजयेन्नरः ॥

34

तथा हि कर्षका भूमौ निबद्ध्य वृषभान् हले ।

चकर्षुरातपे घोरे माध्याह्नेऽपि च निर्घृणाः ॥

35

श्रान्तास्ते वृषभास्तत्र पतन्ति स्म च कर्दमे ।

उत्थापयन्ति तोत्रेण तुदन्तश्चापि कर्षकाः ॥

36

तदा हम्भारवं चक्रुर्वृषभा दुःखिता भृशम् ।

ददर्श कामधेनुस्तानम्बरे करुणाकुला ॥

37

चिन्तयामास सुरभिस्तां दृष्ट्वा निजसन्ततिम् ।

एवं परोपकारार्थं जीवन्तीं पीडितां परैः ॥

38

सहसैवावतीर्णा सा कावेरीतीरमागता ।

आदनाख्यपुरे विष्णुं ददर्श फणिशायिनम् ॥

39

उवाच दीनं वचनमस्राकुलविलोचना ।

गोपालं शरणं प्राप्ता गवां च हितकामिनी ॥

40

कामधेनुरुवाच

अवतारं करोषि त्वं गोब्राह्मणहिताय हि ।

तथापि ब्राह्मणान् गाश्च घ्नन्ति लोके तु पापिनः ॥

41

एवं परोपकारार्थं जीवन्ति वृषभाः प्रभो ।

तथापि निर्घृणा मर्त्याः पीडयन्ति पुनः पुनः ॥

42

अन्तेऽपि तान्मारयन्ति तन्मांसं भक्षयन्ति च ।

तस्मादहं दुःखितास्मि सन्ततिं वीक्ष्य मामिकाम् ॥

43

श्रीभगवानुवाच

ब्राह्मण्यश्च तपः कर्तुं राज्ञ्यो मर्तुं रणाङ्गणे ।

गावश्च कर्षणायैवं वडवाश्च रथाय च ॥

44

पुत्रान् तु जनयन्तीति रीतिरेषा हि लौकिकी ।

तस्माद्दुःखं विमुञ्च त्वं काङ्क्षन्तीं लोकमङ्गलम् ॥

45

सुखं चरन्ति स्वच्छन्दं वृषभा वनमण्डले ।

तान् दृष्ट्वा तव पुत्रांश्च सुखं प्राप्नुहि सुन्दरि ॥

46

कामधेनुरुवाच

शतपुत्रा तु या नारी विस्मृत्य सुखजीवनान् ।

शतपुत्रान् पुत्रमेकं दुःखितं वीक्ष्य माधव

दुःखमाप्नोति सा नूनं रीतिरेषा हि लौकिकी ॥

47

सर्वेऽपि जनयन्तीह दुःखाय च सुखाय च ।

पुत्रानहं तु दुःखाय केवलं जनयामि ॥

48

पीडयन्ति ममैवैते पुत्रान् पुनश्च माधव ।

मर्यादां कुरु गोविन्द दुःखस्यास्य कृपानिधे ॥

49

श्रीभगवानुवाच

एवञ्चेत्कामधेनो त्वं सावधानतया शृणु ।

मर्यादां च करिष्यामि तवैव हितकाम्यया ॥

50

अद्यप्रभृति यो मूढो मध्याह्नेऽपि महातपे ।

वृषभैः कर्षणं कुर्यात् प्राप्नुयान्नरकं ध्रुवम् ॥

51

बालवत्सां च यो दोग्धि धेनुं साध्वीं पयस्विनीम् ।

वञ्चयित्वा च तद्वत्सान् प्राप्नुयान्नरकं ध्रुवम् ॥

52

एवं तोत्रेण वेत्रेण वृषभान् पीडयेच्च यः ।

निर्घृणः सौरभेयीश्च प्राप्नुयान्नरकं ध्रुवम् ॥

53

गोमांसं यो भक्षयति कृतघ्नः पापिनां वरः ।

कृमिभोजनसंज्ञं स प्राप्नुयान्नरकं ध्रुवम् ॥

54

कामधेनुरुवाच

भगवन् करुणामूर्ते श्रुत्वा ते वचनं प्रभो ।

प्राप्नोमि दुःखमेवाहं नृणां पापभयेन च ॥

55

अजानन्तः करिष्यन्ति पापमेव जना भुवि ।

पतिष्यन्ति तथा तेऽपि नरके कृमिभोजने ॥

56

पश्यामि परदुःखं च निजदुःखेन केशव ।

तस्मात्पापविनाशाय मार्गं वद जगत्पते ॥

57

श्रीभगवानुवाच

ये जना गोवधं कृत्वा पुनः पापभयाकुलाः ।

मामेव शरणं यान्ति तान् भक्तान् पावयाम्यहम् ॥

58

अजानन्तो वधं कृत्वा गवां मूढा नरा भुवि ।

पश्चात्तापेन संयुक्ता ये विषीदन्ति पापिनः ॥

59

तेषां पापविनाशार्थमस्मिन् क्षेत्रे वसाम्यहम् ।

गोहत्यापापसञ्जातं दुःखं नूनं विनश्यति ॥

60

मृतानां निहतानां वा गवामनडुहां तथा ।

कामधेनो मा विषीद गोलोकं प्रददाम्यहम् ॥

61

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् कृष्णः सान्त्वयामास सादरम् ।

कामधेनुं कृपासिन्धुर्गोलोकं सा ययौ पुनः ॥

62

आदनक्षेत्रमेतद्धि गोहत्यापापनाशनम् ।

कुम्भकोणसमीपे तु वर्तते सह्यजातटे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे आदनक्षेत्रमाहात्म्यं नाम दशमोऽध्यायः ॥
Ch.09 Tṛtīya Bhāge Ch.11