Verses

चम्पकारण्यमाहात्म्यम् Campakāraṇya Māhātmyam

1

गोभिल उवाच

अनन्तकोटिब्रह्माण्डनायकाय नमो नमः ।

गोलोकनिजसाम्राज्यनिलयाय नमो नमः ॥

2

महावैकुण्ठवासाय ब्रह्मणे ते नमो नमः ।

भारपीडितभूदेवीप्रार्थिताय नमो नमः ॥

3

देवकीपरमानन्दबालकाय नमो नमः ।

वसुदेवपरिष्वक्तविग्रहाय नमो नमः ॥

4

यमुनावेगसंहारिचरणाय नमो नमः ।

वर्षत्रायितनागेन्द्रवलिताय नमो नमः ॥

5

यशोदापार्श्वविन्यस्तमाणिक्याय नमो नमः ।

कुटिलालकसंव्याप्तसुमुखाय नमो नमः ॥

6

कटाक्षवीक्षणाकृष्टस्त्रीजनाय नमो नमः ।

मन्दस्मितमुखाम्भोजसुन्दराय नमो नमः ॥

7

पूतनाप्राणसंहारक्रीडनाय नमो नमः ।

चरणाग्रेण निर्धूतशकटाय नमो नमः ॥

8

तृणीकृततृणावर्तदनुजाय नमो नमः ।

गोष्ठाङ्गणेषु सानन्दं रिङ्गणाय नमो नमः ॥

9

ललन्तिकारत्नशोभिललाटाय नमो नमः ।

दधिभाण्डमुखन्यस्तकराब्जाय नमो नमः ॥

10

नवनीतरसालिप्तविग्रहाय नमो नमः ।

उलूखले दामबद्धजठराय नमो नमः ॥

11

यमलार्जुनभूजातभञ्जनाय नमो नमः ।

नवनीतदधिक्षीरतस्कराय नमो नमः ॥

12

यशोदायै विश्वरूपदर्शकाय नमो नमः ।

नन्दगोपानन्दकरप्रेमिकाय नमो नमः ॥

13

जगदानन्ददानैकसुव्रताय नमो नमः ।

गोरक्षणमहायज्ञदीक्षिताय नमो नमः ॥

14

कौशेयकञ्चुकोष्णीषभूषिताय नमो नमः ।

मलयागरुगन्धेन रूषिताय नमो नमः ॥

15

सिन्दूरबिन्दुसंराजिललाटाय नमो नमः ।

कज्जलालिप्तसंलोललोचनाय नमो नमः ॥

16

कुटिलालकसंशोभिकुण्डलाय नमो नमः ।

गुञ्जामालारञ्जितश्रीविग्रहाय नमो नमः ॥

17

मयूरपिञ्छमकुटधारिणे ते नमो नमः ।

त्रिभङ्गिललिताकारसुन्दराय नमो नमः ॥

18

मन्दस्मितमुखाम्भोजमोहनाय नमो नमः ।

कटिशोभितकौशेयवसनाय नमो नमः ॥

19

गोपीजनपरिष्वक्तवक्षसे ते नमो नमः ।

लीलायष्टिं करेणापि बिभ्रते ते नमो नमः ॥

20

राधिकांसोपरिन्यस्तकराब्जाय नमो नमः ।

प्रत्यालीढस्थितिन्यस्तचरणाय नमो नमः ॥

21

चम्पकानोकहछायानिलयाय नमो नमः ।

शरच्चन्द्रमुखानन्दशीतलाय नमो नमः ॥

22

स्निग्धप्रावृड्ङ्घनश्यामशरीराय नमो नमः ।

गोगोपगोपीगोवत्समध्यगाय नमो नमः ॥

23

मुरलीगानसंमुग्धगोकुलाय नमो नमः ।

मुनीनामपि सिद्धानां मोहनाय नमो नमः ॥

24

शिञ्जानमणिमञ्जीरगमनाय नमो नमः ।

कालीयफणरङ्गान्तनटनाय नमो नमः ॥

25

कालिन्दीतटसञ्चाररसिकाय नमो नमः ।

कन्यकाजनवस्त्रापहारिणे ते नमो नमः ॥

26

यज्ञपत्नीगणैर्नित्यं पूजिताय नमो नमः ।

प्रलम्बधेनुकारिष्टमारिणे ते नमो नमः ॥

27

गोवर्धन महाशैलधारिणे ते नमो नमः ।

नारीजनमनोहारिविग्रहाय नमो नमः ॥

28

महिलामण्डलव्याप्तमन्मथाय नमो नमः ।

रासनाट्यचमत्काररञ्जकाय नमो नमः ॥

29

गोपिकागीतसानन्दश्रवणाय नमो नमः ।

राधाधररसामोदमूर्च्छिताय नमो नमः ॥

30

राधाकटाक्षमात्रेण मोहिताय नमो नमः ।

राधानामरसासिक्तवचनाय नमो नमः ॥

31

राधासौन्दर्यरसिकनयनाय नमो नमः ।

राधाभावरसोन्मत्तहृदयाय नमो नमः ॥

32

राधाप्रेमामृतप्राप्तजीवनाय नमो नमः ।

राधालिङ्गनसञ्जातपुलकाय नमो नमः ॥

33

राधाचरित्रश्रवणतोषिताय नमो नमः ।

राधाप्रणयकोपेन तर्जिताय नमो नमः ॥

34

राधासान्त्वनसामर्थ्यपण्डिताय नमो नमः ।

राधिकाचरणालक्तरञ्जिताय नमो नमः ॥

35

राधाकज्जललेपेन श्यामलाय नमो नमः ।

राधासल्लापसानन्द भाषणाय नमो नमः ॥

36

राधाचुम्बितबिम्बोष्ठवदनाय नमो नमः ।

राधालिङ्गितविस्तीर्णवक्षसे ते नमो नमः ॥

37

रासनाट्यरसानन्दलोलुपाय नमो नमः ।

कालिन्दीजलकल्लोलकुञ्जराय नमो नमः ॥

38

अक्रूरभक्तिमर्यादाप्रसन्नाय नमो नमः ।

कुब्जाचन्दनलिप्ताङ्गसुन्दराय नमो नमः ॥

39

मालाकारमनोऽभीष्टवरदाय नमो नमः ।

मल्लमुष्टिकचाणूरसंहाराय नमो नमः ॥

40

कंसकुञ्जरसंहारिमृगेन्द्राय नमो नमः ।

सान्दीपनिसकृत्प्रोक्तशास्त्रज्ञाय नमो नमः ॥

41

गोपीनां निजसन्देशप्रेषकाय नमो नमः ।

उद्धवानीतसन्देशसन्तुष्टाय नमो नमः ॥

42

मधुरानगरीनारीमानिताय नमो नमः ।

मुचुकुन्दकृतस्तोत्रमुदिताय नमो नमः ॥

43

द्वारकापुरसाम्राज्यस्थापकाय नमो नमः ।

सर्वयादववीराणामाश्रयाय नमो नमः ॥

44

स्वयंवरानीतभैष्मीसंयुक्ताय नमो नमः ।

रुक्मिणीसत्यभामादिनायकाय नमो नमः ॥

45

प्रद्युम्नादियदुश्रेष्ठजनकाय नमो नमः ।

बाणासुरभुजच्छेदविक्रमाय नमो नमः ॥

46

शरणागतपाञ्चालीरक्षकाय नमो नमः ।

स्वच्छन्दं कृतकौन्तेयसारथ्याय नमो नमः ॥

47

कुरुक्षेत्रमहायुद्धसाक्षिणे ते नमो नमः ।

धर्मपुत्रमहाराजस्थापकाय नमो नमः ॥

48

कुचेलविप्रदारिद्र्यनाशकाय नमो नमः ।

दक्षिणद्वारकाक्षेत्रवासिने ते नमो नमः ॥

49

हेमाब्जनायिकादेवीनायकाय नमो नमः ।

चम्पकारण्यसञ्चाररसिकाय नमो नमः ॥

50

शरणागतवात्सल्यनिलयाय नमो नमः ।

श्रीमते राजगोपालस्वामिने ते नमो नमः ॥

51

श्रीसद्गुरुरुवाच

एवं प्रसन्नहृदयो गोभिलस्तु महामुनिः ।

संस्तूय राजगोपालं गद्गदस्तिमितोऽभवत् ॥

52

गोपालस्तं समानीय वचो मधुरमब्रवीत् ।

वरं वृणीष्व भद्रं ते इति भक्तजनप्रियः ॥

53

क्षेत्रेऽस्मिन् राजगोपाल यावच्चन्द्रदिवाकरम् ।

प्रसन्नो भव भक्तानामभीष्टवरदो भव ॥

54

इति तं प्रार्थयामास गोभिलश्च महामुनिः ।

तत्रैव मन्दिरे कृष्णं प्रतिष्ठाप्य यथाविधि ॥

55

पूजयामास गोपालं लोकानुग्रहकाङ्क्षया ।

अद्यापि दृश्यते कृष्णस्तत्र गोभिलपूजितः ॥

56

गोपालं चम्पकारण्ये गोभिलेनार्चितं हरिम् ।

दृष्ट्वा दर्शनमात्रेण परमानन्दमाप्नुयात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे चम्पकारण्यमाहात्म्यम् नाम अध्यायः ॥
Ch.27 Tṛtīya Bhāge Ch.29