Verses

तुलसीवनमाहात्म्यम् Tulasī Vana Māhātmyam

1

श्रीसद्गुरुरुवाच

त्यक्तवैकुण्ठवासोऽयं भगवान् वेङ्कटेश्वरः ।

स्वामिपुष्करिणीतीरे रमया रमते प्रभुः ॥

2

आकाशराजकन्यात्वं प्राप्य पद्मावती रमा ।

वेङ्कटेशं पतिं प्राप्य रमते गिरिसानुषु ॥

3

वसुन्धरा तु कृष्णस्य विरहेणैव पीडिता ।

पितरं रोचयामास मार्कण्डेयं महामुनिम् ॥

4

कावेर्या दक्षिणे तीरे पवित्रे तुलसीवने ।

अहोरात्रपुष्करिण्यां तपश्चक्रे महामुनिः ॥

5

अस्य कन्याऽभवद्भूमिः स्वयमेव महामुनेः ।

श्रीनिवासं प्राप्तुकामा देवी वसुमती तथा ॥

6

शुक्लपक्षे वसुमती ववृधे चन्द्रिकेव सा ।

दिव्यसौन्दर्यसंयुक्ता मुग्धा बाला विनोदिनी ॥

7

मुनिश्चक्रे विशेषेण वात्सल्यं प्रेम निर्मलम् ।

तस्यां वसुन्धरायां तु जनन्यां जगतामियम् ॥

8

सा तु नित्यं मुकुन्दस्य कल्याणगुणवैभवम् ।

कीर्तितं मुनिना श्रुत्वा तमेव चकमे क्षमा ॥

9

दिने दिने मुकुन्दस्य विरहेण वसुन्धरा ।

कृष्णपक्षे चन्द्रिकेव कार्श्यं प्राप सुदुःखिता ॥

10

तस्या भावं समालोच्य प्रार्थयन् भगवत्कृपाम् ।

उवास स्वाश्रमे नित्यं कृष्णागमनकाङ्क्षया ॥

11

तदाऽऽजगाम वृद्धस्तु ब्राह्मणो वेदपारगः ।

अतिथिं पूजयामास मार्कण्डेयो महामुनिः ॥

12

मार्कण्डेय उवाच

स्वागतं ब्राह्मणश्रेष्ठ वेदवेदान्तपारग ।

इदमर्घ्यमिदं पाद्यमासनं स्वीकुरु प्रभो ॥

13

अद्य नः पितरस्तृप्ता देवाश्च गृहवासिनः ।

तवागमनमात्रेण प्रसन्नाः सर्वदेवताः ॥

14

अहं सर्वं करिष्यामि यदाज्ञापयसि प्रभो ।

अहं सर्वं प्रदास्यामि वद शीघ्रं तवेप्सितम् ॥

15

श्रीसद्गुरुरुवाच

तव कन्यां मुनिश्रेष्ठ मह्यं देहीति स द्विजः ।

निर्लज्जं निर्भयं दीनं ययाचे च पुनः पुनः ॥

16

मार्कण्डेयस्तदोवाच भृशमुद्विग्नमानसः ।

ब्राह्मणातिक्रमे दोषं पश्यन् कन्यां च बालिकाम् ॥

17

मार्कण्डेय उवाच

स्वागतं भवतो ब्रह्मन् दृश्यसे जरठो भृशम् ।

तथापि मम कन्यायां जातः कामस्तवेदृशः ॥

18

नानुरूपो विवाहोऽयं त्वमेवालोचय द्विज ।

तस्मादहं न दास्यामि मम पुत्री तु बालिका ॥

19

ब्राह्मण उवाच

अग्निहोत्रस्य रक्षार्थमिच्छामि तव कन्यकाम् ।

न कामुकोऽहं धर्मज्ञो मार्कण्डेय महामते ॥

20

धर्मं जानाम्यहमपि वृद्धोऽहं बन्धुवर्जितः ।

तस्मात् साहाय्यमिच्छामि याचामि तव कन्यकाम् ॥

21

ततो मयि कृपां कृत्वा देहि मे कन्यकां मुने ।

सुखयिष्यामि ते कन्यां लक्ष्मीं नारायणो यथा ॥

22

मार्कण्डेय उवाच

हन्त मुग्धा बालिकेयं धरणिः पाञ्चवार्षिकी ।

न वेत्ति लवणं दातुं शाकपाके यथातथा ॥

23

ब्राह्मण उवाच

अद्यप्रभृति मे भूयादन्नं लवणवर्जितम् ।

तव कन्यां न त्यजामि देहि मे दयया मुने ॥

24

न चेदत्रैव योगीन्द्र कुर्वन्ननशनव्रतम् ।

प्राणांस्त्यक्ष्यामि ते नूनमग्रे सत्यं वदाम्यहम् ॥

25

श्रीसद्गुरुरुवाच

इत्युक्तो मुनिवर्यस्तु वृद्धेन ब्राह्मणेन सः ।

वात्सल्येन भुवस्तस्य प्राणत्यागभयेन च ॥

26

पीडितो नितरां दूनः प्रतिवक्तुं तथाऽक्षमः ।

सर्वंसहां समालिङ्ग्य रुरोद नितरां मुनिः ॥

27

तथापि ब्राह्मणः श्रीमान् मार्कण्डेयं महामुनिम् ।

प्रोवाच श्लक्ष्णया वाचा प्रगल्भं हठपूर्वकम् ॥

28

ब्राह्मण उवाच

मामाहूय महायोगिन्नातिथ्येन निमन्त्र्य च ।

तवेप्सितं प्रदास्यामि वृणीहीति प्रतिश्रुतम् ॥

29

परिपालय योगीन्द्र सत्यं हि परमव्रतम् ।

तव प्रतिज्ञां धैर्येण याचेऽहं तव कन्यकाम् ॥

30

श्रीसद्गुरुरुवाच

एवमुक्तो मुनिश्रेष्ठो दृष्ट्वा कन्यामुखं तदा ।

सत्यपाशेन निर्बद्धस्तस्थौ मौनेन दुःखितः ॥

31

तदा स्वपितरं दृष्ट्वा मार्कण्डेयं महामुनिम् ।

पितरं सुविषण्णं तमुवाच मधुरं क्षमा ॥

32

भूमिरुवाच

मा विषीद महाबुद्धे मम तात दृढव्रत ।

देहि मां ब्राह्मणायास्मै जरठायापि कन्यकाम् ॥

33

सत्यस्थं त्वां करिष्यामि पितृभक्तास्मि ते सुता ।

स्वातन्त्र्यं नैव मे ब्रह्मन् पूजयिष्यामि मे पतिम् ॥

34

पिता रक्षति बाल्ये तु भर्ता रक्षति यौवने ।

पुत्रो रक्षति वार्धक्ये न स्त्री स्वातन्त्र्यमर्हति ॥

35

वृद्धो वापि च रुग्णो वा दरिद्रो वा जडोऽपि वा ।

भर्ता तु पूजितव्यो हि स्त्रीणां भर्ता हि दैवतम् ॥

36

त्वयैव पित्राहं दत्ता विप्राय जरठाय च ।

अमुमेव हरिं स्मृत्वा पूजयिष्यामि सर्वथा ॥

37

श्रीसद्गुरुरुवाच

सर्वंसहया सान्त्वितोऽसौ मार्कण्डेयो महामुनिः ।

प्रसन्नात्मा श्रद्धयैव ददौ कन्यां यथाविधि ॥

38

पादप्रक्षालनं कृत्वा पुण्यमर्घ्यं प्रदाय च ।

गामुत्सृज्य यथाशास्त्रं कन्यां च प्रददौ महान् ॥

39

मार्कण्डेय उवाच

इयं कन्या महाभागा क्षमा नाम्ना गुणेन च ।

वसुन्धरा रत्नगर्भा धरा सर्वंसहा च भूः ॥

40

दास्यामि विष्णवे तुभ्यं देवाः सर्वेऽपि साक्षिणः ।

वेदविद्ब्राह्मणोऽसि त्वं पाणिं गृह्णीष्व पाणिना ॥

41

श्रीसद्गुरुरुवाच

एवमुक्तो ब्राह्मणस्तु परिगृह्य च कन्यकाम् ।

सद्यः प्रकटयामास निजरूपं सुमङ्गलम् ॥

42

नीलमेघश्यामलं च नलिनायतलोचनम् ।

दिव्यपीताम्बरधरं नवमन्मथसुन्दरम् ॥

43

श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् ।

विशालवक्षसं प्रांशुमुन्नतांसं चतुर्भुजम् ॥

44

विलोक्य वेङ्कटेशं तं मार्कण्डेयो महामुनिः ।

प्रहृष्टहृदयश्चक्रे स्तुतिं बद्धाञ्जलिस्तदा ॥

45

मार्कण्डेय उवाच

धन्योऽस्म्यनुगृहीतोऽस्मि धरया च त्वया तथा ।

पितृत्वं श्वशुरत्वं च दत्तं दुष्प्राप्यमीदृशम् ॥

46

नमो नमो वेङ्कटेश श्रीनिवास नमो नमः ।

नमो नमो जगन्नाथ जनार्दन नमो नमः ॥

47

नमो नमो हृषीकेश वासुदेव नमो नमः ।

नमो नमो पद्मनाभ दामोदर नमो नमः ॥

48

अस्मिन्नेव महाक्षेत्रे सन्ततं क्षमया सह ।

कल्याणवेषो निवसन् सर्वेषां कुर्वन्ननुग्रहम् ॥

49

एषा हि प्रार्थना विष्णो वेङ्कटेश जगत्पते ।

नान्यं वरं वृणे देव लोकक्षेमं सदा कुरु ॥

50

श्रीसद्गुरुरुवाच

एवं हि प्रार्थितो विष्णुर्वेङ्कटेशः श्रियःपतिः ।

सहैव भूमिदेव्याऽत्र नित्यं सन्निहितो हरिः ॥

51

अस्य दर्शनमात्रेण भक्तानां तु कलौ युगे ।

कल्याणं जायते नूनमिष्टसिद्धिविधायकम् ॥

52

अहोरात्रपुष्करिण्यां स्नात्वा देवं श्रियःपतिम् ।

संसेव्य सर्वरोगेभ्यो मुच्यते नात्र संशयः ॥

53

मार्कण्डेयमहाक्षेत्रे श्रीपतिं तुलसीवने ।

या कन्या सेवते भक्त्या शीघ्रं सा पतिमाप्नुयात् ॥

54

ईदृशं तु महाक्षेत्रं भुवने नास्ति किञ्चन ।

ददाति कामितं सर्वं देवः कल्पकवृक्षवत् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे तुलसीवनमाहात्म्यम् नाम षोडशोऽध्यायः ॥
Ch.15 Tṛtīya Bhāge Ch.17