Verses

पक्षिभूतपुरमाहात्म्यम् Pakṣibhūta Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

अरिष्टनेमिरित्यासीन्नाम्ना लोके प्रजापतिः ।

कद्रूश्च विनता चैव तस्य भार्ये बभूवतुः ॥

2

कद्रूः ससर्ज नागांश्च विनता पक्षिणस्तथा ।

अरुणं सूर्यसूतं च गरुडं विष्णुवाहनम् ॥

3

संपातिश्च जटायुश्च कुमारावरुणस्य हि ।

पक्षीन्द्रौ तौ भ्रातरौ हि महाबलपराक्रमौ ॥

4

कदाचित्तावुभौ द्रष्टुं पितरं सूर्यसारथिम् ।

उड्डीनौ जग्मतुस्तूर्णमाकाशे सूर्यमण्डलम् ॥

5

आतपेन तदा क्लान्तो जटायुरनुजः खगः ।

पक्षाभ्यां तं ररक्षासौ संपातिर्भ्रातृवत्सलः ॥

6

दग्धोऽभवत्तदा पक्षः संपातेस्तु महात्मनः ।

पेततुर्मूर्च्छितौ पृथ्व्यां पक्षिणौ द्वौ पृथक् पृथक् ॥

7

विन्ध्याचलस्य शिखरे संपातिर्निपपात सः ।

जटायुर्दण्डकारण्ये पपात भुवि मूर्च्छितः ॥

8

विचिन्वन् भ्रातरं ज्येष्ठं न लेभे पक्षिसत्तमम् ।

तस्मात् सुदुःखितस्तत्र न्यवसत्काननान्तरे ॥

9

संपातिः शरणं भेजे मुनीन्द्रं तु निशाकरम् ।

पक्षलाभं याचमानो नितरां दुःखिताशयः ॥

10

यदा त्वं राघवेन्द्रस्य सेवां वाचा करिष्यसि ।

तदा ते पक्षलाभः स्यादिति प्राह मुनीश्वरः ॥

11

जटायुर्दण्डकारण्ये पञ्चवट्यां वसन् खगः ।

लेभे यदृच्छया सङ्गं रामस्य वनवासिनः ॥

12

रामे वसति तत्रैव रावणो नाम राक्षसः ।

जहार जानकीं सीतां रामपत्नीं यशस्विनीम् ॥

13

तदा चुकूज सीता सा राम रामेति दुःखिता ।

तच्छ्रुत्वा पक्षिराजस्तु न्यरुणत् पथि रावणम् ॥

14

पक्षिराक्षसयोर्युद्धमभूत्तत्र सुदुःसहम् ।

जितोऽभवद्रावणस्तु पक्षिणापि जटायुना ॥

15

रावणश्चन्द्रहासाख्यं खड्गमादाय पक्षिणम् ।

चिच्छेद सहसा क्रुद्धो जटायुर्निपपात ह ॥

16

सीतामादाय सहसा जगाम स विहायसा ।

अशोकविपिने सीतां स्थापयामास रावणः ॥

17

रामः सीतावियोगेन पीडितो विपिनान्तरे ।

मृगयामास तां दीनः कृपया भगवान् हरिः ॥

18

तत्र तत्र विचिन्वंस्तां पक्षिराजं ददर्श सः ।

दीनं कण्ठस्थितप्राणं छिन्नपक्षं निपातितम् ॥

19

तं दृष्ट्वा भगवान् रामश्चुक्रोश विलपन् बहु ।

सीताया विरहेणापि जटायोर्मरणेन च ॥

20

वत्स राम चिरञ्जीव सीतां राज्यमवाप्स्यसि ।

जहार रावणः सीतामित्युवाच खगेश्वरः ॥

21

ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः ।

अङ्के निधाय वदनं मरणं प्राप पक्षिराट् ॥

22

प्रलपन् बहुधा रामः पक्षीन्द्रस्य गुणान् स्मरन् ।

चकार ब्रह्ममेधाख्यं संस्कारं तस्य पक्षिणः ॥

23

अथ दाशरथिः सीतां विचिन्वन् काननान्तरे ।

हनूमन्तं पुरस्कृत्य सुग्रीवं प्राप सौहृदात् ॥

24

निहत्य वालिनं राज्यं सुग्रीवाय ददौ प्रभुः ।

कृतज्ञः प्रेषयामास सीतां द्रष्टुं कपीन् हरिः ॥

25

हनूमद्वचनाज्ज्ञात्वा सीतां लङ्कापुरीस्थिताम् ।

प्रययौ राघवो वीरस्तूर्णं वानरसेनया ॥

26

मध्येमार्गं सह्यजायास्तटं प्राप्य रघूत्तमः ।

जटायोः पक्षिराजस्य श्राद्धं कर्तुमियेष सः ॥

27

तदा सहचरी सीतां सस्मार जगदीश्वरः ।

अन्नश्राद्धं कर्तुकामः श्राद्धकार्यचिकीर्षया ॥

28

वक्षःस्थलस्थिता लक्ष्मीः साक्षादागत्य सत्वरम् ।

शाकपाकादिसहितं चकारान्नं तदैव हि ॥

29

श्राद्धं कृत्वा तु रामस्तु कावेरीतटकानने ।

विश्रान्तः शयनं चक्रे तत्क्षेत्रमभवत्पुरम् ॥

30

पक्षिभूतपुरं नाम्ना विख्यातं क्षेत्रमुत्तमम् ।

कुम्भकोणसमीपे तु स्थितं सह्यसुतातटे ॥

31

गयाक्षेत्रसमं पुण्यं पितॄणां प्रीतिवर्धनम् ।

अत्र श्राद्धं विधायैव ऋणमुक्तो भवेन्नरः ॥

32

प्रसादेन पितॄणां च रामस्य परमात्मनः ।

लभते वंशवृद्धिं च सर्वमङ्गलमेव च ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे पक्षिभूतपुरमाहात्म्यम् नाम नवमोऽध्यायः ॥
Ch.08 Tṛtīya Bhāge Ch.10