Verses

कुंभेश्वरमाहात्म्यम् Kuṃbheśvara Māhātmyam

1

श्रीसद्गुरुरुवाच

तदा हेमर्षिर्नाम तपस्वी मुनिपुङ्गवः ।

सह्याचलादाजगाम भृगुवंशसमुद्भवः ॥

2

कावेरीतटसञ्जातः कृष्णध्यानपरायणः ।

महायोगी महात्मा च महाबुद्धिर्महामुनिः ॥

3

अत्र पुष्करिणीतीरे तपश्चक्रे महाव्रतः ।

साक्षात्कर्तुं महालक्ष्मीं कामयन् कामितार्थदाम् ॥

4

कदाचित्पुष्करिण्यां तु सहस्रदलपुष्करे ।

कन्यका ददृशे तत्र सर्वलक्षणसंयुता ॥

5

तामादाय मुनिश्रेष्ठो वात्सल्यप्रेमपूरितः ।

पोषयामास सानन्दं जानकीं जनको यथा ॥

6

नाम कोमलवल्लीति धारयामास तां मुनिः ।

पोषयंल्लालयन्नित्यं परमानन्दमाप सः ॥

7

अचिरेणैव कालेन संप्राप्तनवयौवना ।

सा कोमलवल्ली सा भगवत्प्रेमपूरिता ॥

8

विष्णुमेव पतिं प्राप्तुमिच्छन्तीं विनतां सुताम् ।

विलोक्य चिन्तां संप्राप वैष्णवो मुनिपुङ्गवः ॥

9

नित्यं विरहतापेन निद्राहारविवर्जिताम् ।

अश्रुपूर्णमुखीं कन्यां प्रलपन्तीमहर्निशम् ॥

10

कृशां लुठन्तीं भुवि तां दुःखितां रोगिणीमिव ।

क्वचित् क्वचिन्मूर्च्छितां च दृष्ट्वा चिन्तामवाप सः ॥

11

स्वयं पप्रच्छ तां कन्यां कृपया मुनिपुङ्गवः ।

वात्सल्यप्रेमसंयुक्तः सखीजनसमन्विताम् ॥

12

हेमर्षिरुवाच

वत्से किं रोदिषि त्वं मे वद कल्याणि सत्वरम् ।

तत्साधयामि सहसा मा रोदीर्बालिके सदा ॥

13

त्वमेव मे भाग्यरत्नं त्वमेव मम जीवनम् ।

तव दुःखमहं सोढुमशक्तोऽस्मि कुमारिके ॥

14

कोमलवल्ल्युवाच

मम तात नमस्तेऽस्तु सङ्कल्पं मे वदाम्यहम् ।

कामयेऽहं पतिं प्राप्तुं विष्णुमेव न संशयः ॥

15

देवदेवो जगन्नाथो वैकुण्ठपतिरच्युतः ।

अहं कन्यास्मि ते ब्रह्मन् कामितं मे कथं भवेत् ॥

16

हेमर्षिरुवाच

कन्यके मा विषीद त्वं फलसिद्धिर्भवेन्ननु ।

आश्रमस्य समीपेऽत्र राजते मङ्गलाम्बिका ॥

17

सा तु कात्यायनी गौरी देवी विष्णुसहोदरी ।

तत्प्रसादेन नूनं हि सुलभस्ते मनोरथः ॥

18

पतिं लभन्ते सदृशं कन्यका गौरिपूजया ।

तामेव पूजय त्वं च श्रद्धया रुक्मिणी यथा ॥

19

श्रीसद्गुरुरुवाच

इत्युक्ता मुनिना प्रेम्णा सखीजनसमन्विता ।

नित्यं कोमलवल्ली सा पूजयामास मङ्गलाम् ॥

20

मङ्गलाम्बाप्रसादेन शार्ङ्गपाणिरपि स्वयम् ।

देवान् संप्रेषयामास कन्याया वरणाय च ॥

21

दास्यामीति तदा प्राह सानन्दं मुनिपुङ्गवः ।

दिव्यं स्यन्दनमास्थाय भगवान्नाययौ तदा ॥

22

ब्रह्मरुद्रादिसकलगीर्वाणगणसंयुतः ।

गन्धर्वगणसङ्गीतकल्याणगुणवैभवः ॥

23

सुनन्दनन्दप्रमुखकृतराजोपचारकः ।

विष्वक्सेनादिनिखिलदासवर्गनिषेवितः ॥

24

अनन्तकरसंराजत्पाण्डुरच्छत्रवेष्टितः ।

वेदस्वरूपगरुडप्रचालितरथस्थितः ॥

25

मन्दारपारिजातादिदिव्यपुष्पसमर्चितः ।

ऐरावतकरावाप्तदिव्यमालाविराजितः ॥

26

पूर्णकुम्भं प्रदायैव मङ्गलाम्बिकया सह ।

आदिकुम्भेश्वरेणैव कृतस्वागतसत्क्रियः ॥

27

देवदुन्दुभिनिर्घोषमुखरीकृतमण्टपः ।

अमरीजनसल्लापसंभावितचरित्रकः ॥

28

अप्सरोगणनाट्येन सन्तोषितजनाकरः ।

गौरीवाणीकृतारार्तिप्रकाशितमुखाम्बुजः ॥

29

शङ्खचक्रधरः श्रीमान् पीताम्बरधरः प्रभुः ।

शरण्यः सर्वलोकानां शार्ङ्गपाणिर्गदाधरः ॥

30

श्रीवत्सकौस्तुभधरः कराब्जेनाभयप्रदः ।

कल्याणवेषसंपूर्णदिव्यमङ्गलविग्रहः ॥

31

हरिचन्दनलिप्ताङ्गः कस्तूरीतिलकोज्ज्वलः ।

मुहुर्मुहुः कटाक्षेण पश्यन् कोमलवल्लिकाम् ॥

32

अवाङ्मुखीं लज्जयैवमग्रतः स्थापितां रमाम् ।

कल्याणमण्टपे तत्र तस्थौ कमललोचनः ॥

33

तदा हेमऋषिश्चापि पादौ प्रक्षाल्य सादरम् ।

तं वरं पूजयामास दत्वा क्षीरं फलं तथा ॥

34

गामुत्सृज्य यथाशास्त्रं ददौ कन्यामलङ्कृताम्

कन्यां कनकसंपन्नां कनकाभरणैर्युताम् ।

दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥

35

इति कोमलवल्लीं तां शार्ङ्गपाणेः कराम्बुजे ।

प्रददौ स महाभागः श्रद्धया भक्तिपूर्वकम् ॥

36

अथ ब्रह्मा गुरुर्भूत्वा कारयामास च क्रियाः ।

कण्ठे मङ्गलसूत्रं च धारयामास कन्यकाम् ॥

37

बबन्ध मङ्गलाम्बापि मुदा माधवसोदरी ।

अलकं पूरयामास सादरं पुष्पमालया ॥

38

क्रियां सप्तपदीं कृत्वा लाजहोमं चकार सः ।

मङ्गलाशासनं लेभे देवैश्च मुनिभिः कृतम् ॥

39

औपासनं ततः कृत्वा शार्ङ्गपाणिर्वरोत्तमः ।

प्रतस्थे स्वगृहं गन्तुं कोमलाम्बासमन्वितः ॥

40

तदा हेमऋषिर्योगी पुत्रीविरहदुःखितः ।

अञ्जलिं पुरतः कृत्वा प्राह जामातरं हरिम् ॥

41

हेमर्षिरुवाच

भगवन् देवदेव त्वं प्रसीद पुरुषोत्तम ।

जाने त्वां सर्वलोकेशं ब्रह्मरुद्रादिसेवितम् ॥

42

त्वमेव परमं तत्त्वं वदन्ति श्रुतयः खलु ।

तथापि लीलया देवान् पूज्यः पूजयसि प्रभो ॥

43

इयं कोमलवल्ली च लक्ष्मीरेव न संशयः ।

जगतां जननी नित्या त्वत्तो नित्यानपायिनी ॥

44

तथापि पुत्रीभावेन मोहं प्राप्तोऽस्मि माधव ।

तस्मात्तस्या वियोगेन दुःखितोऽस्मि भृशं प्रभो ॥

45

तस्माद्वैकुण्ठगमनं सांप्रतं तव नोचितम् ।

वासं कुरु विभो नित्यमस्मिन्नेव ममाश्रमे ॥

46

बालेयं मद्वियोगेन दुःखिता भवति ध्रुवम् ।

वचनं शृणु जामातः मम त्वं प्रेमपूरितम् ॥

47

श्रीसद्गुरुरुवाच

एवं हि प्रार्थितो विष्णुर्मुनिना भक्तिपूर्वकम् ।

तथैवास्त्विति गोविन्दो वासं चक्रे तदाश्रमे ॥

48

आज्ञयैव ततो विष्णोर्विश्वकर्मा कृपानिधेः ।

चकार नगरं रम्यं मायया मायिनां वरः ॥

49

तत्र वासं जनानां च कारयामास केशवः ।

महाक्षेत्रमभूल्लोके तत्पुरं सह्यजातटे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीये भागे कुम्भेश्वरमाहात्म्यं नाम द्वादशोऽध्यायः ॥
Ch.11 Tṛtīya Bhāge Ch.13