Verses

श्रीरामनगरमाहात्म्यम् Śrī Rāma Nagara Māhātmyam

1

श्रीसद्गुरुरुवाच

रोमशो नाम विख्यातः पूर्वमासीन्महामुनिः ।

जितेन्द्रियो जितक्रोधो विष्णुध्यानपरायणः ॥

2

त्रिविक्रमे वर्धमाने ऋक्षराजस्तु जाम्बवान् ।

विजयं श्रीनिवासस्य भेरीनादेन घोषयन् ॥

3

परिक्रमं चकारैव भक्त्या बलवतां वरः ।

चिरञ्जीवी महावीरो ब्रह्मपुत्रो महामतिः ॥

4

श्रुत्वा जाम्बवतो भक्तिं दीर्घमायुर्बलं तथा ।

त्रिविक्रमस्य माहात्म्यमाश्चर्यस्तिमितोऽभवत् ॥

5

तादृशं दीर्घमायुश्च बलं वीर्यं तथा यशः ।

सुदृढां विष्णुभक्तिं च प्राप्तुमिच्छन्महामुनिः ॥

6

तपश्चक्रे महाघोरं मन्त्रमष्टाक्षरं जपन् ।

त्रिविक्रमं महाविष्णुं साक्षात्कर्तुमियेष सः ॥

7

तस्यापि तपसा तुष्टो दृढया भक्तिनिष्ठया ।

प्रददौ दर्शनं विष्णुर्धृत्वा त्रैविक्रमं वपुः ॥

8

तद्दर्शनपरानन्दबाष्पस्निग्धविलोचनः ।

तुष्टाव विष्णुं वरदं वासुदेवं त्रिविक्रमम् ॥

9

रोमश उवाच

सहस्रशीर्ष्णे पुरुषाय तुभ्यं ।

सहस्रनेत्राय नमो नमस्ते।

व्याप्तं त्वयैतद्भुवनं हि विश्वं ।

विष्णुं ततस्त्वां कवयो वदन्ति ॥

10

तव स्वभावं प्रकृतिं च लक्ष्मीं

शक्तिं परां तामनपायिनीं ते ।

दुर्गां च मायां त्रिगुणात्मिकां च

प्राणं महान्तं च हिरण्यगर्भम् ॥

11

वदन्त्यहङ्कारमनन्तं रुद्रं

कामं च सङ्कल्पमयं मनोजम् ।

अग्निं मुखं ते वरुणं च जिह्वां

दिशश्च कर्णौ नयनं च सूर्यम् ॥

12

प्राणेऽश्विनौ ते भुजयोर्महेन्द्र-

मुपेन्द्रमेवं पदयोर्महात्मन् ।

मनश्च चन्द्रं जठरे समुद्रं

नदीश्च नाडीषु वदन्ति देव ॥

13

सर्वांश्च देवांस्तव रोमकूपे

आकाशमेवं तव वक्षसीश ।

मेघांश्च केशानपि वृक्षजालान्

लतास्तृणानीश्वर रोमजाले ॥

14

वदन्ति पातालतलं च पादे

भूलोकं तु जघने च देव ।

स्वर्गं तथा वक्षसि ते महात्मन्

वदन्ति ते शीर्षणि च सत्यलोकम् ॥

15

एवं विराड्रूपमुपेत्य विष्णो

विश्वं जगद्व्याप्य विराजसे त्वम् ।

ततोऽसि विष्णुस्तव तद्विभुत्वं

वक्तुं च मातुं भुवि कः समर्थः ॥

16

पश्यामि सर्वत्र तवैव रूपं

त्वय्येव पश्यामि च मां तथाहम् ।

नमः पुरस्तादथ पृष्ठतस्ते

नमोऽस्तु ते सर्वत एव सर्व ॥

17

श्रीसद्गुरुरुवाच

एवं स्तुतो रोमशेन भगवान् भक्तवत्सलः ।

पुनश्च वामनो भूत्वा सान्त्वयामास तं मुनिम् ॥

18

श्रीभगवानुवाच

वरं वृणीष्व योगीन्द्र वरदोऽहमुपस्थितः ।

तवैव तपसा भक्त्या प्रसन्नोऽस्मि महामुने ॥

19

रोमश उवाच

दीर्घमायुर्बलं वीर्यं त्वयि भक्तिं च माधव ।

वृणोमि विमलां बुद्धिमेवं जाम्बवतो यथा ॥

20

श्रीभगवानुवाच

तव यावन्ति रोमाणि शरीरे सन्ति रोमश ।

ब्रह्माण्डानि च तावन्ति वर्तन्ते मुनिपुङ्गव ॥

21

एकब्रह्माण्डनाशेन तव रोमः पतेद्ध्रुवम् ।

सर्वब्रह्माण्डनाशेन सर्वरोम्णां तथा मुने ॥

22

तावान् कालस्तव वयो दत्तं हि कृपया मया ।

बलं वीर्यं च भक्तिं च ददामि विमलां मतिम् ॥

23

श्रीसद्गुरुरुवाच

एवं त्रिविक्रमेणैव दीर्घमायुरवाप्य सः ।

विष्णुभक्तिं तदा कुर्वन् तुतोष भुवने महान् ॥

24

अश्वत्थामा बलिर्बाणो हनूमांश्च विभीषणः ।

मार्कण्डेयस्तथा व्यासः प्रह्लादो जाम्बवांस्तथा ॥

25

अन्ये चिरञ्जीविनश्च रोमशस्य तपोबलम् ।

दीर्घमायुरवाप्तं च श्रुत्वा प्रापुश्च विस्मयम् ॥

26

परार्धद्वयपर्याप्तकालजीवी चतुर्मुखः ।

रोमशस्य वयः श्रुत्वा लज्जां प्राप जगत्पतिः ॥

27

किं दुर्लभं मुकुन्दस्य सेवया करुणानिधेः ।

स एव सर्वदेवेशः कोटिब्रह्माण्डनायकः ॥

28

श्रीरामनगरं नाम क्षेत्रं परमपावनम् ।

यत्र त्रिविक्रमो देवः सेव्यते रोमशार्चितः ॥

29

महाकालं च शास्तारं क्षेत्रपालं च भैरवम् ।

त्रिविक्रमं तथा दृष्ट्वा दीर्घमायुरवाप्नुयात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे श्रीरामनगरमाहात्म्यम् नाम सप्तत्रिंशोऽध्यायः ॥
Ch.36 Tṛtīya Bhāge Ch.38