Verses

कण्वपुरमाहात्म्यम् Kaṇva Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

तत्रोपरिचरो राजा वसुस्तीर्थाटनं चरन् ।

कण्वाश्रमपदं भेजे पत्न्या सह महामतिः ॥

2

पूजयामास तं भूपमातिथ्येन महामुनिः ।

विष्णुभक्तमिमं ज्ञात्वा दानधर्मपरायणम् ॥

3

याचे पुत्रभाग्यं स राजा पत्न्या प्रचोदितः ।

छेत्तुमाद्यां प्रजातन्तुं क इच्छेद्वेदतत्त्ववित् ॥

4

कृष्णारण्ये पुरं श्रेष्ठं निर्मातुं धार्मिकं नृपम् ।

आज्ञापयामास मुनिः कृष्णाराधनतत्परः ॥

5

निर्ममे वसुराजोऽपि नगरी शिल्पशास्त्रतः ।

तन्मध्ये मन्दिरं दिव्यं शौरिराजस्य सादरम् ॥

6

वासयामास विप्रांश्च धर्मिष्ठान् वेदपारगान् ।

अन्यांश्च तत्सेवनार्थं वैष्णवांश्च सहस्रशः ॥

7

तेन प्रीतो मुनिः कण्वो वसुराजाय धीमते ।

नित्यपुष्करिणीजातं पद्ममेकं ददौ मुदा ॥

8

आघ्राय पद्मगन्धं ते पत्न्या गर्भो भविष्यति ।

इत्याह कण्वः सानन्दं पद्मं पत्न्यै ददौ नृपः ॥

9

आघ्राय सा विशालाक्षी दधौ गर्भं च सुन्दरी ।

तया सार्धं पुरं प्राप वसुः प्राप्तमनोरथः ॥

10

अथाचिरेण कालेन सुषुवे कन्यकां रमाम् ।

नाम चक्रे पद्मिनीति राजा हृष्टमनास्तथा ॥

11

पद्मिनी पद्मपत्राक्षी समुपस्थितयौवना ।

नानाकेलिकलासक्ता सखीजनसमन्विता ॥

12

वीणावादनतत्त्वज्ञा नाट्यशास्त्रविचक्षणा ।

सुगुणा च सुशीला च पितृभ्यां लालिता बभौ ॥

13

कदाचिच्छौरिराजस्य माहात्म्यं पितृवर्णितम् ।

आकर्ण्य तं द्रष्टुमेषा चकमे राजनन्दिनी ॥

14

तया सार्धं कन्यकया पत्न्या च पृथिवीपतिः ।

आगात् कृष्णपुरं द्रष्टुं शौरिराजं जगत्पतिम् ॥

15

कण्वाश्रममुपागत्य प्रणम्य च यथाविधि ।

ब्राह्मणैर्मानितो राजा कृत्वा वीथिप्रदक्षिणम् ॥

16

स्नात्वाऽथ विधिवद्राजा नित्यपुष्करिणीजले ।

समाप्य नित्यकर्माणि शौरिराजमुपाययौ ॥

17

अर्चका दर्शयामासुः शौरिं सर्वाङ्गसुन्दरम् ।

शरण्यं सर्वलोकानां शङ्खचक्रगदाधरम् ॥

18

तं विलोक्य जगन्नाथं साक्षान्मन्मथमन्मथम् ।

मुमोह पद्मिनी कन्या सद्यः प्रेमवशं गता ॥

19

तदाप्रभृति सा कन्या बभौ बाष्पाकुलेक्षणा ।

पुलकाङ्कितगात्री च शौरिचिन्तनतत्परा ॥

20

कीर्तयन्ती च नामानि कृष्णस्य परमात्मनः ।

नित्यं कण्वं पूजयन्ती ययाचे भक्तिमेव सा ॥

21

कालक्षेपं चकारैषा शृण्वन्ती भगवत्कथाम् ।

विमुखी लोकवार्तासु सुमुखी वैष्णवेषु च ॥

22

असह्यशौरिविरहपीडितां स्वसुतां नृपः ।

विलोक्य तत्रैवोवास दुहितृस्नेहतत्परः ॥

23

अष्टाक्षरमहामन्त्रं लब्ध्वा कण्वेन बोधितम् ।

तत्र प्रियङ्गुकेदारे जजाप च दिने दिने ॥

24

तां दृष्ट्वा वासवीं कन्यां वात्सल्यान्मत्स्यजीविनः ।

ररक्षुर्वनवासिभ्यो मृगेभ्यः प्रेमपूर्वकम् ॥

25

श्रावयामास तान् कन्या शौरिराजकथां मुहुः ।

तेऽपि चक्रुस्तथा तस्यां वात्सल्यं प्रेम निर्मलम् ॥

26

एतस्मिन्नन्तरे कश्चिद्युवा मङ्गलविग्रहः ।

आययौ हयमारूढो विपिने मृगयामटन् ॥

27

तत्र तां कन्यां दृष्ट्वा पप्रच्छ कुशलं च सः ।

मोहयन् मन्दहासेन जगन्मोहनविग्रहः ॥

28

युवोवाच

का त्वं कञ्जपलाशाक्षि त्वं करोषि च किं तपः ।

तवैव करुणां प्राप्तुं कर्तव्यं सुमहत्तपः ॥

29

पद्मिन्युवाच

अहं तु वासवी कन्या पद्मिनीति च नाम मे ।

मयि वात्सल्यसंयुक्तो पिता मे वर्तते पुरे ॥

30

युवोवाच

त्वां कन्यकां तपः कर्तुं मालतीपुष्पकोमलाम् ।

योऽनुमेने पिता तस्य वात्सल्यं वद मे कथम् ॥

31

पद्मिन्युवाच

अहमेव पितुः प्राप्य निदेशं दृढमानसा ।

तपः करोमि गोविन्दं पतिं प्राप्तुं कृपानिधिम् ॥

32

युवोवाच

उपवासकृशां दीनां सन्ततं जपतत्पराम् ।

उपेक्षते त्वां मुकुन्दः कथं स तु कृपानिधिः ॥

33

त्यक्त्वा पूर्वं प्रियां लक्ष्मी पादसेवनतत्पराम् ।

दुद्राव हस्तिनं त्रातुं कञ्चिन्मकरपीडितम् ॥

34

पतिव्रतां महासाध्वीं सीतामग्नौ निपात्य च ।

परीक्ष्य पुनरेवासौ जग्राह खलु निर्घृणः ॥

35

रुक्मिण्याः सोदरं पूर्वं रुक्मिणं च जघान सः ।

गोपीः प्ररुदतीस्त्यक्त्वा रथेन मधुरां गतः ॥

36

ईदृशं पुरुषं लब्धुं करोषि सुमहत्तपः ।

स्वयमेवागतं ह्यत्र मां वृणीहि वरानने ॥

37

पद्मिन्युवाच

निन्दां करोति यो विष्णोः शृणोति च सुदुर्मतिः ।

तस्य पुण्यं विनष्टं स्यात् सद्य एव न संशयः ॥

38

भगवन्निन्दकस्यैवं जिह्वां छिन्द्याद्यदीश्वरः ।

न चेत्कर्णी पिधायैव दूरं गच्छेत् ससंभ्रमम् ॥

39

श्रीसद्गुरुरुवाच

इत्युक्त्वा स्वसखीभिः सा जगाम त्वरया बहिः ।

तदा जग्राह तत्पाणि युवा सुन्दरविग्रहः ॥

40

चुक्रोश पद्मिनी सद्यस्तात तातेति सादरम् ।

सद्य एवाययौ राजा कण्वेन मुनिना सह ॥

41

तत्रैव ददृशे सद्यो देवः शङ्खगदाधरः ।

चतुर्भुजः पीतवासाः कौस्तुभामुक्तकन्धरः ॥

42

वनमाली वासुदेवो विष्णुः श्रीवत्सलाञ्छनः ।

स्फुरत्सहस्रमार्ताण्डतुल्यभूषणभूषितः ॥

43

तं दृष्ट्वा पद्मिनी शौरिं लज्जयाऽवनतानना ।

विकासयन्ती पाणिस्थं पद्मं तस्थौ तदग्रतः ॥

44

तुष्टाव प्रणतो राजा बाष्पस्निग्धविलोचनः ।

बभाषे भगवाच्छौरिः कृपया भूपतिं वसुम् ॥

45

श्रीभगवानुवाच

भूपते तव कन्यायाः पद्मिन्या दृढनिष्ठया ।

प्रीतोऽहं सुप्रसन्नोऽस्मि तां कन्यां लब्धुमिच्छया ॥

46

देहि मे कन्यकां राजन् पद्मिनीं पद्मगन्धिनीम् ।

मत्पादसेवानिरतां मयि प्रेमपरायणाम् ॥

47

श्रीसद्गुरुरुवाच

एवमुक्तो भगवता दास्यामीति वचोऽब्रवीत् ।

राजा च परमप्रीतो महाभाग्यवतां वरः ॥

48

निर्माय परमं दिव्यं तत्र कल्याणमण्टपम् ।

वैशाखपूर्णिमायां तु पद्मिनीं विष्णवे ददौ ॥

49

कारयामास कण्वोऽपि वसिष्ठेन समन्वितः ।

वैवाहिकीं क्रियां सर्वां पद्मिनीकृष्णयोस्तदा ॥

50

देवाश्च सर्वे मुनयः सिद्धविद्याधरादयः ।

दृष्ट्वा विवाहं पद्मिन्याः प्रापुर्हर्षं च मानवाः ॥

51

श्वशुरः शौरिराजस्य राजोपरिचरो वसुः ।

प्रययौ नगरी पत्न्या कन्याविरहविह्वलः ॥

52

मूर्ध्न्युपाघ्राय तां कन्यां राजपत्नी पतिव्रता ।

कुलोचितं धर्ममूचे वात्सल्येन पुनः पुनः ॥

53

अबोधा बालिका ह्येषा मुग्धा शौरे कृपानिधे ।

अपचारानचिन्त्यैव लालय त्वं सुतां मम ॥

54

इति स्वां कन्यां राजा पद्मिनीं शौरिसन्निधौ ।

विसृज्य बाष्पसुस्निग्धः प्रययौ नगरी पुनः ॥

55

पितृभ्यां रहितां कन्यां तयोर्विरहकर्शिताम् ।

सान्त्वयामास कण्वोऽपि शौरिसेवां प्रचोदयन् ॥

56

दाशाश्च सान्त्वयामासुः सादरं मत्स्यजीविनः ।

स्वकन्यामेव मन्वानाः पद्मिन्यां प्रेमपूर्वकम् ॥

57

जामातृभावसंयुक्ताः पूजयामासुरादरात् ।

शौरिराजं च दाशास्ते भुवि भाग्यवतां वराः ॥

58

शौरिराजप्रसादेन राजा पुत्रमवाप च

तदिदं परमं पुण्यं शृण्वतां मङ्गलं परम् ।

कृष्णक्षेत्रस्य माहात्म्यं किं भूयः श्रोतुमिच्छथ ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे कण्वपुरमाहात्म्यं नाम द्वाविंशोऽध्यायः ॥
Ch.21 Tṛtīya Bhāge Ch.23