Verses

सङ्गमक्षेत्रमाहात्म्यम् Saṅgama Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

नन्दको नाम राजर्षिरासीत्पूर्वं महातपाः ।

तस्य पत्नी सुशीलेति नित्यं पतिमनुव्रता ॥

2

नन्दिनी नाम कन्यासीन्नन्दकस्य महामुनेः ।

रूपयौवनसंपन्ना सुशीला सुगुणा तथा ॥

3

सा कदाचित् सह्यजायां स्नानं कर्तुं जगाम ह ।

गायन्ती मधुरं गीतं स्वसखीभिः समन्विता ॥

4

हंसकारण्डवाकीर्णां कल्लोलाकीर्णमौक्तिकाम् ।

सरोजवनसंपूर्णां तटसञ्जातभूरुहाम् ॥

5

विलोक्य नन्दिनी हृष्टा सखीजनसमन्विता ।

अवरुह्य जले शुद्धे जलक्रीडां चकार च ॥

6

सुमुखो नाम चोलेन्द्रस्तत्रैव मृगयामटन् ।

तूर्णं पिपासुरागत्य ददर्श मुनिकन्यकाम् ॥

7

दृष्ट्वा तां नन्दिनीं राजा सखीजनसमन्विताम् ।

चिक्रीड ताभिः सानन्दमवरुह्य जले स्वयम् ॥

8

राजा कामवशं प्राप्तो रमयामास कन्यकाः ।

ता भीता दुद्रुवुः सर्वास्तीर्णाः शीघ्रं जलाशयात् ॥

9

किन्तु जग्राह चोलेन्द्रो नन्दिनीं मुनिनन्दिनीम् ।

तयैव रेमे बहुधा सुचिरं कामपीडितः ॥

10

बलात्कारेण भुक्ता सा त्यक्ता नृपतिना ततः ।

रुदन्ती लज्जया भूयो जगाम निजमाश्रमम् ॥

11

कन्या सा पितरं गत्वा दुःखेनैव न्यवेदयत् ।

चिन्तयामास राजर्षिः शुद्धेन मनसा तदा ॥

12

न क्रोधस्य वशं प्राप न शशाप नृपं च तम् ।

तां कन्यां सान्त्वयामास दिष्टमेव वदन् पुनः ॥

13

यदृच्छया नृपालेन सङ्गमं प्राप्य नन्दिनी ।

तमेव निजभर्तारं स्मृत्वा स्मृत्वा रुरोद सा ॥

14

भर्तारं प्राप्तुमिच्छन्तीं विरहेण कृशां सुताम् ।

विलोक्य कृपया भूयश्चिन्तयामास नन्दकः ॥

15

आनीय तां कन्यां च सभां प्राप महीपतेः ।

अजानन्निव चोलेन्द्रो नोवाच स्वागतं तयोः ॥

16

तथापि नन्दको योगी कर्तव्यं कर्म संस्मरन् ।

उवाच सुमुखं साम्ना नन्दिनीवत्सलो मुनिः ॥

17

विस्मृतं खलु ते राजन् स्वच्छन्दं चेष्टितं रहः ।

इयं तु नन्दिनी नाम सुता मे दयिता तव ॥

18

गान्धर्वविधिना तस्या गृहीतं पाणिपल्लवम् ।

मा त्यज त्वं महाराज धर्मज्ञो धर्ममाचर ॥

19

सुमुख उवाच

कस्त्वं तपस्वी कृपणः क्वाहं चोलमहीपतिः ।

आवयोः खलु सम्बन्धो न कदाचिद्भवेन्मुने ॥

20

वृथा कन्यामुपादाय स्वच्छन्दं मामुपागतः ।

एवं वदसि निर्लज्जो दण्ड्योऽसि मम शासनात् ॥

21

श्रीसद्गुरुरुवाच

एवमुक्तो नन्दकोऽपि नन्दिनीं रुदतीं भृशम् ।

विलोक्य कुपितः प्राह कृपया पीडितस्तथा ॥

22

मुनिरुवाच

मामतिक्रम्य राज्ञा त्वं विहृत्य कुलनन्दिनि ।

दुःखं प्राप्तासि भूयोऽपि भर्तारं शरणं व्रज ॥

23

एवं स्वच्छन्दवृत्तीनां कन्यकानां हि दुर्गतिः ।

शकुन्तलाचरित्रं यत् पर्याप्तं तन्निदर्शनम् ॥

24

यस्मात्त्वं मामतिक्रम्य प्राप्तासि सुमुखं नृपम् ।

तस्मात्त्वं सन्त्यजाम्यद्य पतिरेव गतिस्तव ॥

25

श्रीसद्गुरुरुवाच

इत्युक्त्वा नन्दकः क्रुद्धो नृपेण च निराकृतः ।

कन्यां तत्रैव सन्त्यज्य प्रययौ निजमाश्रमम् ॥

26

वारं वारं प्रार्थयन्ती नन्दिनी दोषवर्जिता ।

त्यक्ता नृपेण मूर्खेण चकोरीव रुरोद सा ॥

27

प्राणत्यागं कर्तुकामा सह्यजातटमागता ।

ददर्श तत्र गोविन्दं जगद्रक्षकम् आलये ॥

28

कृष्णस्य सन्निधिं प्राप्य प्रसारितकराम्बुजा ।

ताडयन्ती शिरो दीनं प्रललाप सुदुःखिता ॥

29

नन्दिन्युवाच

जगद्रक्षक गोविन्द जलजायतलोचन ।

अनाथां कृपणां दीनां रक्ष मां रक्षकोत्तम ॥

30

त्वयि रक्षति मे देव किमन्यै रक्षकैः प्रभो ।

त्वमेव रक्ष मां कृष्ण जगद्रक्षक केशव ॥

31

त्यक्ताऽहं पतिना पित्रा मात्रा सर्वैश्च बन्धुभिः ।

त्वामेव शरणं यामि कृपालुं दीनरक्षकम् ॥

32

अजानन्त्या जगन्नाथ कृतं पापं मया महत् ।

बलात्कारेण भुक्ता च त्यक्ता चास्मि नृपेण हि ॥

33

सर्वं जानासि सर्वज्ञ त्वं हि सर्वनियामकः ।

त्वमेव शाधि मां देव त्वद्वशास्मि जनार्दन ॥

34

सन्निधिं प्राप्य ते स्वामिन् जगद्रक्षक माधव ।

शान्तिं प्राप्नोमि गोविन्द यथेच्छसि तथा कुरु ॥

35

माता पिता त्वमेवासि भ्राता बन्धुस्त्वमेव हि ।

भर्ता त्वं सर्वलोकानां भरन्यासः कृतो मया ॥

36

नाहं निन्दामि भर्तारं पितरं मातरं तथा ।

अहमेव हि निन्द्यास्मि दुष्टा स्वच्छन्दगामिनी ॥

37

अपराधं क्षमस्वेमं कृतमज्ञानतो मया ।

विस्मृत्य मम पापं च देहि मे मङ्गलं प्रभो ॥

38

श्रीसद्गुरुरुवाच

एवं तां रुदतीं बालां ज्ञात्वा शिष्यमुखेन हि ।

आनीय नन्दकः सद्यः सान्त्वयामास सादरम् ॥

39

निवसन्ती ततो बाला दीना सा पितुरन्तिके ।

दिने दिने जगामैषा जगद्रक्षकसन्निधिम् ॥

40

कुर्वन्ती रङ्गवल्लीं च तथा मन्दिरमार्जनम् ।

दीपं प्रज्वलयन्ती च बध्नन्ती पुष्पमालिकाम् ॥

41

सुखं निनाय कालं सा कृष्णकीर्तनतत्परा ।

कुर्वन्ती कृष्णकैङ्कर्यं सखीजनसमन्विता ॥

42

कदाचिच्चोलराजेन्द्रः कर्तुं गोविन्ददर्शनम् ।

आलयं प्राप सुमुखो ददर्श सुमुखीं च ताम् ॥

43

स्मरन् स्वपूर्ववृत्तान्तं पश्चात्तापेन संयुतः ।

स्वयमेव च तां गत्वा सान्त्वयामास सुन्दरीम् ॥

44

आनीय तां नन्दिनीं च जगद्रक्षकदर्शनम् ।

कृत्वा बाष्पाकुलो राजा भक्त्या तुष्टाव केशवम् ॥

45

स्वभर्तुर्विष्णुभक्तिं च दृष्ट्वा हृष्टा च नन्दिनी ।

जगद्रक्षककारुण्यं स्मृत्वा शान्तिमवाप सा ॥

46

तया सार्धं महाराजो नन्दकं प्राप्य वै मुनिम् ।

क्षमापयन् विनीतश्च प्रणनाम कृताञ्जलिः ॥

47

एवं हि कृष्णलीलेति चिन्तयन् मुनिपुङ्गवः ।

प्रस्थापयामास कन्यां सुमुखेन नृपेण सः ॥

48

तौ दम्पती पुनर्गत्वा स्वराज्यं सुखमूषतुः ।

निश्चिन्तो नन्दको भूत्वा सिषेवे केशवं सदा ॥

49

सङ्गमक्षेत्रमेतद्धि नूनं सङ्गमदायकम् ।

दम्पत्योः कालदोषेण विश्लेषं प्राप्तयोरिह ॥

50

विलोक्य सङ्गमक्षेत्रे जगद्रक्षकमच्युतम् ।

विप्रवासं गता भूयश्चागच्छन्ति हि बन्धवः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे सङ्गमक्षेत्रमाहात्म्यम् नाम सप्तमोऽध्यायः ॥
Ch.06 Tṛtīya Bhāge Ch.08