Verses

पुरुषोत्तमपुरमाहात्म्यम् Puruṣottama Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

पुण्डरीकपुरे पूर्वं व्याघ्रपादो महामुनिः ।

शिवभक्तिरतो नित्यमुवास निजभार्यया ॥

2

उपमन्युस्तस्य पुत्रो बालकः पञ्चहायनः ।

सात्विकः शीलसंपन्नः प्रशान्तो मातृवत्सलः ॥

3

धौम्यस्य पाठशालायां पठन्नास्तेऽन्यबालकैः ।

उद्दालकश्च वैदश्च सखायौ तस्य वै शिशोः ॥

4

गुरुपत्नी ददौ क्षीरं स्वपुत्राणां तु केवलम् ।

भेदभावेन संयुक्ता न ददावुपमन्यवे ॥

5

क्षीराभिलाषसंयुक्तो मातरं प्राप्य बालकः ।

ययाचे मधुरं क्षीरं रुदन्नेव हठेन सः ॥

6

दरिद्रा मुनिपत्नी सा नितरां दुःखपीडिता ।

उवाच सान्त्वयन्ती तमुपमन्युं घृणाकुला ॥

7

मुनिपत्न्युवाच

मा मा विषीद वत्स त्वं सात्विकोऽसि स्वभावतः ।

पठ त्वमथवा क्रीड हठं मा कुरु बालक ॥

8

धनिकानां बालकास्तु पिबन्ति मधुरं पयः ।

वयं वने वसामो हि पर्णमूलफलाशनाः ॥

9

पिष्टं ददामि ते बाल कन्दं वापि च मा शुचः ।

आगमिष्यन्तीह चोराः श्रुत्वा ते रोदनध्वनिम् ॥

10

उपमन्युरुवाच

न विद्यते धनं मातर्गृहेऽस्माकं वनान्तरे ।

आगमिष्यन्त्वतश्चोराः किं भयेन ममाद्य वै ॥

11

न कामये पिष्टमन्नं फलं कन्दं न कामये ।

गोक्षीरमेव मधुरं कामये तत्प्रयच्छ मे ॥

12

मुनिपत्न्युवाच

तप एव धनं बालकास्माकं वनवासिनाम् ।

प्रीणाति तपसा शम्भुः शिव एव गतिर्हि नः ॥

13

उपमन्युरुवाच

कः शिवस्तस्य किं स्थानं तेन किं तद्वदाशु मे ।

अहं द्रक्ष्यामि तं मातः क्षीरं दास्यति सोऽपि मे ॥

14

मुनिपत्न्युवाच

शिव एव जगन्नाथः स तु सर्वत्र विद्यते ।

पशूनां पतिरेवैष भज त्वं परमेश्वरम्

तदग्रे वृषभं पश्य तुभ्यं क्षीरं प्रदास्यति ॥

15

श्रीसद्गुरुरुवाच

सान्त्वनायैवमुक्तस्तु श्रद्धया बालकस्तदा ।

आययौ तद्गुरुकुलं पाठानपि पपाठ च ॥

16

उपमन्युः क्षीरकामस्तदा ब्रह्मपुरं गतः ।

शङ्करं पूजयामास लिङ्गरूपेण संस्थितम् ॥

17

भक्त्या तस्य प्रसन्नोऽपि शङ्करो दर्शनं ददौ ।

साधनं दृढविश्वासः साक्षात्कर्तुं महेश्वरम् ॥

18

उपमन्युश्च तुष्टाव बद्धाञ्जलिपुटः शिवम् ।

जटाधरं त्रिणेत्रं तं शङ्करं नागभूषणम् ॥

19

उपमन्युरुवाच

नमः शिवाय शान्ताय घोराय च कपर्दिने ।

नमो देवाय महते पशूनां पतये नमः ॥

20

नमो ज्येष्ठाय श्रेष्ठाय वामदेवाय ते नमः ।

नमः शर्वाय रुद्राय सद्योजाताय ते नमः ॥

21

अघोराय नमस्तुभ्यं घोरघोराय ते नमः ।

नमस्ते वीरभद्राय भैरवाय नमो नमः ॥

22

नमस्तत्पुरुषायास्तु नमस्ते पुरुषोत्तम ।

नमस्ते परमेशाय पार्वतीशाय ते नमः ॥

23

ईशानः सर्वविद्यानां त्वमेव परमेश्वर ।

देहि मे निर्मलं ज्ञानं देवदेव नमोस्तु ते ॥

24

रुद्र उवाच

जानामि हृदयस्थं ते भावं मुनिकुमारक ।

क्षीरकामो रोदिषि त्वं बालभावाद्विमोहितः ॥

25

अहं पशुपतिर्नूनं वृषभो मम वाहनम् ।

जरठोऽयं बलीवर्दः क्षीरं नैव ददाति हि ॥

26

मया सह त्वमागच्छ क्षीराब्धिं दर्शयामि ते ।

यथेष्टं पिब तत्क्षीरं मा विषीद कुमारक ॥

27

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवाच्छम्भुरुपमन्युं तमर्भकम् ।

आनीय दर्शयामास तत्रैव कलशोदधिम् ॥

28

पपौ च मधुरं क्षीरं परमेश्वरशासनात् ।

सद्यः प्रसन्नचित्तोऽभूत्तत्र विष्णुं ददर्श च ॥

29

तत्रासीनं जगन्नाथं पुराणं पुरुषोत्तमम् ।

शङ्खचक्रधरं देवं श्रिया भूम्या च संयुतम् ॥

30

नीलोत्पलदलश्यामं दिव्यपीताम्बरावृतम् ।

विलोक्य परमप्रीतस्तुष्टाव विहिताञ्जलिः ॥

31

उपमन्युरुवाच

नमो नारायणायास्तु नमस्ते पुरुषोत्तम ।

नमस्ते विष्णवे तुभ्यं हृषीकेश नमोस्तु ते ॥

32

नमस्ते पुण्डरीकाक्ष पुण्यश्लोक नमोस्तु ते ।

नमस्ते वासुदेवाय देवदेवाय ते नमः ॥

33

प्रसीद पद्मारमण प्रसीद त्वं त्रिविक्रम ।

पात्रे मयि गोविन्द प्रसीद त्वं जनार्दन ॥

34

श्रीभगवानुवाच

भाग्यवानसि बाल त्वं प्राप्तं मे दर्शनं तव ।

मुनीनामपि देवानां दुर्लभं मम दर्शनम् ॥

35

यत्पूर्वं दृढविश्वासाद्भक्त्या शिवमतोषयः ।

तस्मादहं च ते दृष्टिं प्राप्तोऽस्मि कृपयैव हि ॥

36

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुः शम्भुना सहितो हरिः ।

तत्रैवान्तरधात्तस्य बालकस्यैव पश्यतः ॥

37

क्षीराब्धितीर्थमित्येतत्प्रसिद्धं चोलमण्डले ।

यत्तीरे भगवानास्ते कृपया पुरुषोत्तमः ॥

38

क्षीराब्धितीर्थतीरेऽस्मिन् विलोक्य पुरुषोत्तमम् ।

प्राप्नुवन्ति परां विद्यां सर्वे नश्यन्ति संशयाः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे पुरुषोत्तमपुरमाहात्म्यम् नाम द्विचत्वारिंशोऽध्यायः ॥
Ch.41 Tṛtīya Bhāge Ch.43