Verses

श्रावणतीर्थमाहात्म्यम् Śrāvaṇa Tīrtha Māhātmyam

1

श्रीसद्गुरुरुवाच

सरस्वतीनदीतीरे मुनयो दिव्यदर्शनाः ।

चक्रुः सत्रं महात्मानो वेदमार्गपरायणाः ॥

2

तत्रागतो नारदस्तु दृष्ट्वा तान् मुनिपुङ्गवान् ।

पप्रच्छ तेषां शास्त्रार्थविचारं च प्रवर्तयन् ॥

3

नारद उवाच

कस्मै देवाय युष्माकं क्रियते सत्रमीदृशम् ।

को देवः सर्वदेवात्मा सर्वयज्ञफलप्रदः ॥

4

यज्ञकर्ता यज्ञरूपो यज्ञकर्मफलप्रदः ।

यज्ञेश्वरो यज्ञसाक्षी को हि यज्ञप्रवर्तकः ॥

5

सम्यग्विचार्य तं देवं ब्रूत ब्राह्मणपुङ्गवाः ।

तज्ज्ञानेन विना सर्वं कृतमल्पफलप्रदम् ॥

6

ऋषय ऊचुः

सर्वे देवाश्च पूज्यन्ते समत्वेन मखे खलु ।

उत्तमः को देव इति प्रश्न एष निरर्थकः ॥

7

नारद उवाच

एक एवेश्वरो नूनं सर्वदेवनियामकः ।

अनेकेश्वरवादोऽयं बालानां किल संमतः ॥

8

सृष्टिस्थितिविनाशानां कर्ता स हि महेश्वरः ।

तं जानीत तथा देवानन्यांस्तस्यैव किङ्करान् ॥

9

ऋषय ऊचुः

ब्रह्मविष्णुशिवान् विद्धि नारद त्वं महेश्वरान् ।

सृष्टिरक्षणसंहारा यैः क्रियन्ते पुनः पुनः ॥

10

नारद उवाच

त्रिषु देवेषु कः श्रेष्ठः शुद्धसत्त्वगुणान्वितः ।

प्रशान्तश्च प्रसन्नात्मा कामक्रोधविवर्जितः ॥

11

श्रीसद्गुरुरुवाच

एवं विचारे संप्राप्ते महर्षीणां परस्परम् ।

तान् परीक्ष्यैव वक्ष्यामि त्रिष्वधीशेषु को महान्

इत्युक्त्वाऽथ भृगुः शीघ्रं प्रययौ मुनिपुङ्गवः ॥

12

सत्यलोकं जगामादौ ददर्श कमलासनम् ।

रममाणं सरस्वत्या विमुखं निजपूजने ॥

13

तं त्यक्त्वा सहसा रुद्रं कैलासशिखरं गतः ।

ददर्श क्रोधसंयुक्तम् अकालगमनेन च ॥

14

कामक्रोधयुतं देवं त्यक्त्वा क्षीराब्धिमागतः ।

शयानं शेषपर्यङ्के ददर्श हरिमुत्तमम् ॥

15

परीक्षितुमना विष्णुं चरणेन महामुनिः ।

पस्पर्श वक्षः कृष्णस्य सद्यः क्रुद्ध इव स्वयम् ॥

16

तदोत्थाय महाविष्णुः पादं सङ्गृह्य वै मुनेः ।

पूजयामास च प्रेम्णा लालयामास तत्पदम् ॥

17

प्रहृष्टोऽथ मुनिश्रेष्ठः सरस्वत्यास्तटं गतः ।

मुनीनां मण्डले प्राह विष्णोः सत्त्वगुणं शिवम् ॥

18

भृगुरुवाच

शृणुध्वं मुनयः सर्वे वदिष्यामि सुनिश्चितम् ।

त्रिषु देवेषु सात्त्विको हरिः सर्वोत्तमः स्मृतः ॥

19

रजोगुणयुतो ब्रह्मा तमोगुणयुतः शिवः ।

विष्णुः सत्त्वगुणो नूनं क्षमावानपराधिषु ॥

20

सत्त्वादेव भवेज्ज्ञानं ज्ञानान्मुक्तिर्हि लभ्यते ।

तस्मान्मुमुक्षुर्गोविन्दं भजेदेकान्तमानसः ॥

21

श्रीसद्गुरुरुवाच

तदाप्रभृति ते विप्रा बभूवुर्वैष्णवाः खलु ।

भृगुवंशसमुद्भूताः सर्वे सारस्वताः पुरा ॥

22

एवं स्वपादनिक्षेपं विष्णुवक्षःस्थले शुभे ।

महत्पापं स्मरन्नित्यं शोकं प्राप भृगुर्मुनिः ॥

23

यस्य पादाब्जरजः श्रुतिभिर्मृग्यते परम् ।

तस्य वक्षःस्थले हन्त पादन्यासः कृतो मया ॥

24

अहो धैर्यम् अहो धैर्यम् अहो धैर्यं किमीदृशम् ।

केन कर्तुमिदं शक्यं नास्तिकेनासुरेण वा ॥

25

अहो पापम् अहो पापम् अहो पापं मया कृतम् ।

अहं कियान् सुदुर्बुद्धिर्देवदेवं परीक्षितुम् ॥

26

इति चिन्ताकुलः पूर्वं चोलदेशमुपागतः ।

तीरे श्रावणतीर्थस्य तपश्चक्रे भृगुर्मुनिः ॥

27

तस्यैव तपसा तुष्टो देवदेवः सनातनः ।

आविर्बभूव भगवान् शङ्खचक्रगदाधरः ॥

28

तुष्टाव तं भक्तिपूर्वम् बाष्पच्छन्नविलोचनः ।

पुलकाञ्चितसर्वाङ्गो भृगुर्गद्गदभाषणः ॥

29

भृगुरुवाच

एको देवः सर्वभूतान्तरात्मा ।

नानारूपं मायया यः करोति

भेदाभेदं कल्पयत्येव भावं ।

तस्मै तुभ्यं मे नतिः स्यात्परस्मै ॥

30

आत्मन्येवारोप्य मायागुणांश्च

सृष्टिं रक्षां संहृतिं यः करोति ।

ब्रह्मा विष्णु रुद्र इत्येव नाम्ना

तस्मै देवायास्तु तुभ्यं प्रणामः ॥

31

नाना कामान् प्राप्तुमिच्छद्भिरेवं

नानाभक्तैरर्च्यते देव एकः ।

नानारूपोऽप्येकरूपो विभाति

तस्मै तुभ्यं विष्णवे मे प्रणामः ॥

32

ब्रह्माणं वा शङ्करं वा भजन्तः

प्रापुः कामान् वाञ्छितान् रावणाद्याः ।

त्वामेवैकं संश्रयन् वारणोऽपि

मोक्षं लेभे मोक्षदस्त्वं श्रितानाम् ॥

33

सर्वस्य त्वं साक्षिभूतो विभासि

सङ्गं त्यक्त्वा सर्वभूतान्तरस्थः ।

प्रत्यग्देवः प्रत्यगात्मा त्वमेव

प्रज्ञानात्मा प्राज्ञसाक्षी तुरीयः ॥

34

केचित्पापं ज्ञानतोऽज्ञानतो वा

कृत्वा लोके छादयन्त्येव मूढाः ।

ज्ञाते तस्मिन्नीश्वरस्यैव लीलेत्याख्यायैवं

निस्त्रपाः सञ्चरन्ति ॥

35

क्षान्तोऽसि त्वं सात्त्वतां श्रेष्ठ तस्मात्

त्यक्त्वा भीतिं प्रेमपूर्वं भजामः ।

त्वत्सामीप्यं प्राप्य दास्येन यत्तत्

पापं प्राप्तं क्षम्यतां देवदेव ॥

36

पादक्षेपं पापमेवं विधाय

पश्चात्तापं प्राप्तवानस्मि देव ।

पापं हत्वा मामकं दीनबन्धो

लक्ष्म्या सार्धं सुप्रसन्नो भव त्वम् ॥

37

श्रीसद्गुरुरुवाच

भृगुणा पूजितो ह्येवं भक्तजीवातुरव्ययः ।

प्रसन्नवदनः प्राह वाचा सान्त्वयन् मुनिम् ॥

38

श्रीभगवानुवाच

स्वयं जानासि मां शान्तम् अपराधभयं त्यज ।

प्रशान्तोऽस्मि प्रसन्नोऽस्मि सर्वदा त्वयि तापस ॥

39

भावशुद्धिः प्रमाणं हि प्रवृत्तिर्न कृता बहिः ।

भावशुद्धिविहीनानां प्रवृत्तिर्न हि वास्तवी ॥

40

प्रेमभावकृतं पापं पुण्यमेव भवेत् खलु ।

वनितापादनिक्षेपः पत्युः सुखकरो यथा ॥

41

उपचारापदेशेन कृतान् प्रेम्णा ममार्चकैः ।

अपचारान् क्षमे नूनं भावग्राही भवाम्यहम् ॥

42

लोके ममैव माहात्म्यं निरूपयितुमेव हि ।

पादक्षेपः कृतः पूर्वं तत्र पापं न विद्यते ॥

43

श्रीसद्गुरुरुवाच

एवं सान्त्वितः प्रेम्णा देवदेवेन विष्णुना ।

भृगुस्तत्रैव निवसन् पूजयामास केशवम् ॥

44

तीरे श्रावणतीर्थस्य निर्मायाश्रममादरात् ।

निवसन् सह पत्न्या च पूजयामास केशवम् ॥

45

तदिदं श्रावणतीर्थं लोके परमपावनम् ।

यत्र भृगुणा पूर्वं लक्ष्मीनाथः प्रतिष्ठितः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे श्रावणतीर्थमाहात्म्यम् नाम एकोनविंशोऽध्यायः ॥
Ch.18 Tṛtīya Bhāge Ch.20