Verses

कदम्बवनमाहात्म्यम् Kadamba Vana Māhātmyam

1

भागवता ऊचुः

तीरस्थितानां कावेर्याः क्षेत्राणां परमं शिवम् ।

मुरारेरपि मूर्तीनां माहात्म्यं वद विस्तरात् ॥

2

कस्मिन् कस्मिन् स्थले कृष्णः केन केन प्रतिष्ठितः ।

क्रीडति स्म कथं केन कथां कथय तामिह ॥

3

श्रीसद्गुरुरुवाच

कावेरीतीर्थमाहात्म्यं कलिकल्मषनाशनम् ।

कः शक्नुयाद्वर्णयितुं ननु वाचामगोचरम् ॥

4

कावेरीतोयमाश्रित्य वातो यत्र प्रवर्तते ।

तद्देशवासिनां मुक्तिः किमु तत्तीरवासिनाम् ॥

5

कावेरी विरजातोयं वैकुण्ठं रङ्गमन्दिरम् ।

रङ्गनाथो वासुदेवः प्रत्यक्षं परमं पदम् ॥

6

श्रीरङ्गस्योत्तरे भागे कदम्बविपिनं महत् ।

कदम्बमुनिरित्येव ख्यातः कश्चित्तपोनिधिः ॥

7

तत्रासीदाश्रमे नित्यं कावेरीस्नानतत्परः ।

अष्टाक्षरमहामन्त्रं जपन्नारायणं स्मरन् ॥

8

तपश्चक्रे महाघोरं कृष्णदर्शनकातरः ।

जितेन्द्रियो जितक्रोधो भक्तियोगपरायणः ॥

9

कदाचिदाश्रमं तस्य मुनिवर्यास्तपोधनाः ।

इतस्ततः सञ्चरन्तश्चाययुर्ब्रह्मवादिनः ॥

10

अत्रिर्वसिष्ठश्च्यवनो मार्कण्डेयो भृगुस्तथा ।

मरीचिः कश्यपः कण्वो याज्ञवल्क्योऽथ नारदः ॥

11

विश्वामित्रो गौतमश्च दत्तात्रेयः पराशरः ।

शुकश्च भगवान् व्यासो मैत्रेयः शौनकस्तथा ॥

12

सर्वे ब्रह्मविदस्तत्र कावेरीस्नानकाङ्क्षया ।

आगत्य चक्रिरे वासं कदम्बमुनिना सह ॥

13

कदाचित्ते महात्मानः प्रेमपूर्वं परस्परम् ।

सङ्गम्य चक्रुः सानन्दं परतत्त्वविवेचनम् ॥

14

कदम्बमुनिरुवाच

सर्वज्ञा मुनयः सर्वे शृणुध्वं वचनं मम ।

शास्त्राणामुत्तमं शास्त्रं वेद एव न संशयः ॥

15

अपौरुषेयत्वादेव पूजितं ब्रह्मवादिभिः ।

इतिहासपुराणानां प्रामाण्यं तदधीनतः ॥

16

श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी ।

कपिलादिस्मृतिः सद्भिर्न ग्राह्या वेदवादिभिः ॥

17

मन्वादिस्मृतयो मुख्या वेदमार्गानुसारतः ।

इति व्यासेन निर्णीतं ब्रह्मसूत्रपदेन च ॥

18

रामायणं भारतं च मन्वादिस्मृतयस्तथा ।

अष्टादशपुराणानि प्रमाणं ब्रह्मवादिनाम् ॥

19

तेषु शास्त्रेषु सर्वत्र तत्त्वं यत् परमुच्यते ।

तन्निरूपयत श्लक्ष्णं यूयं हि ब्रह्मवादिनः ॥

20

वसिष्ठ उवाच

इन्द्रमग्निं यमं वायुं वरुणम् च बृहस्पतिम् ।

सोमं च विश्वकर्माणमश्विनौ भिषजावपि ॥

21

ब्रह्माणं च तथा विष्णुं रुद्रं च वदति श्रुतिः ।

सूक्तैश्च बहुभिर्दिव्यै रम्याक्षरपदैः खलु ॥

22

सर्वे देवाः समत्वेन स्तूयन्ते स्तुतिभिस्ततः ।

परत्वस्थापनं नूनं दुष्करं मुनिपुङ्गवाः ॥

23

याज्ञवल्क्य उवाच

एकं सन्तं परात्मानं बहुधा कल्पयन्ति हि ।

ब्रह्मणस्तु प्रतीकत्वं देवानां नात्र संशयः ॥

24

प्रज्ञानरूपं तद्ब्रह्म निराकारं च निर्गुणम् ।

ओतप्रोतमिदं सर्वं तस्मिन्नेवाक्षरे खलु ॥

25

व्यास उवाच

नारायणः परं ब्रह्म श्रुतिवाक्यप्रमाणतः ।

स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥

26

इन्द्रप्राणादयः सर्वे तत्प्रतीकत्वमात्रतः ।

प्रोच्यन्ते श्रुतिवाक्येन परमार्थविशेषणैः ॥

27

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।

वेदात् शास्त्रं परं नास्ति न दैवं केशवात्परम् ॥

28

मार्कण्डेय उवाच

क्वचिद्धिरण्यगर्भं च क्वचिद्विश्वाधिकं शिवम् ।

क्वचिन्नारायणं चैव वदन्ति श्रुतयः खलु ॥

29

तस्मान्नारायणस्यैव परत्वं कथमुच्यते ।

ब्रह्मा विष्णुश्च रुद्रश्च परतत्त्वं न संशयः ॥

30

भृगुरुवाच

स ब्रह्मा स शिवश्चेति वेदान्ते ब्रह्मरुद्रयोः ।

नारायणस्वरूपत्वं तदधीनत्वमीरितम् ॥

31

अन्तर्बहिश्च सर्वत्र व्याप्य नारायणः स्थितः ।

तत्प्रतीकत्वमात्रेण परत्वं ब्रह्मरुद्रयोः ॥

32

त्रयाणामपि देवानामुत्तमं सुविचार्य च ।

श्लक्ष्णं वेदप्रमाणेन वदत ब्रह्मवादिनः ॥

33

यो ब्रह्माणं विदधातीति श्रुतिवाक्यप्रमाणतः ।

ब्रह्मणो ब्रह्मसृष्टत्वं व्यक्तमेव हि विद्यते ॥

34

रुद्रस्य ब्रह्मपुत्रत्वमूचे शतपथश्रुतिः ।

क्वचिन्न विद्यते सृष्टिर्विष्णोस्तु परमात्मनः ॥

35

हरिर्हि निर्गुणः साक्षात्परमात्मा सनातनः ।

सत्त्वं गुणमधिष्ठाय संरक्षति जगत् प्रभुः ॥

36

रजोगुणयुतो ब्रह्मा तमोगुणयुतः शिवः

सृष्टिं च ब्रह्मरूपेण संहारं शिवरूपतः ।

स्वयमेव करोतीशो देवदेवो जनार्दनः ॥

37

तस्मादभेदवाक्येन वदति श्रुतिरेव हि ।

सृष्टिस्थितिलयानां तु कारणं ब्रह्म केवलम् ॥

38

अत्रिरुवाच

उत्तमं पुरुषं ज्ञातुं तपः कुर्मो महर्षयः ।

अत्रैव सह्यजातीरे किं वृथा शास्त्रचर्चया ॥

39

श्रीसद्गुरुरुवाच

अत्रेर्महामुनेर्वाक्यमङ्गीकृत्य महर्षयः ।

तपश्चक्रुर्महाघोरं कदम्बमुनिना सह ॥

40

तेषां मुनीनां तपसा सुप्रसन्नो जनार्दनः ।

सहैव ब्रह्मरुद्राभ्यां प्रददौ निजदर्शनम् ॥

41

शङ्खचक्रधरं श्यामं पुण्डरीकाक्षमच्युतम् ।

पीताम्बरधरं देवं श्रीवत्साङ्कितवक्षसम् ॥

42

प्रसन्नवदनं विष्णुं कराब्जेनाभयप्रदम् ।

शरण्यं सर्वलोकानां पुराणं पुरुषोत्तमम् ॥

43

वामपार्श्वे ब्रह्मणा च दक्षिणे शङ्करेण च ।

दर्शयन्तं निजं रूपं ददृशुर्मुनिपुङ्गवाः ॥

44

प्रहृष्टा मुनयः सर्वे तुष्टुवुर्भक्तिपूर्वकम् ।

मूर्ध्निबद्धाञ्जलिपुटा ब्रह्मविष्णुमहेश्वरान् ॥

45

पप्रच्छ परया भक्त्या कदम्बमुनिरच्युतम् ।

मुनिभिश्चोदितस्तत्र तत्त्वजिज्ञासुभिस्तदा ॥

46

कदम्बमुनिरुवाच

मय्येव कृपया यूयमागताः सुरसत्तमाः ।

देवानां दुर्लभा नूनं ब्रह्मविष्णुमहेश्वराः ॥

47

युष्मासु चोत्तमं ज्ञातुमिच्छामो वयमद्य हि ।

यूयमेवात्मनः श्रेष्ठ्यं निवेदयत चेश्वराः ॥

48

विष्णुरुवाच

ब्रह्मा हि जगतः स्रष्टा स्वयम्भूश्चतुराननः ।

वेदगर्भो लोकनाथः सुरासुरनियामकः ॥

49

यस्य प्रसादमात्रेण दैतेया राक्षसा अपि ।

अवापुर्लोकनाथत्वं किं पुनः सात्विकाः सुराः ॥

50

मरीचिर्ब्रह्मणः पुत्रो मरीचेः कश्यपः सुतः ।

कश्यपस्यात्मजोऽहं हि मामुपेन्द्रं वदन्त्यतः ॥

51

तस्मान्ममापि देवोऽयं पूज्यो हि प्रपितामहः ।

ब्रह्मणोऽपि परं तत्त्वं न जानामि महर्षयः ॥

52

संहर्ता जगतो रुद्रः कालकालो महेश्वरः ।

यं वदन्ति महादेवं मुनयस्तत्त्वदर्शिनः ॥

53

ज्ञानं यस्यैव कृपया जायते छिन्नसंशयम् ।

ईशानः सर्वविद्यानामिति यं गायति श्रुतिः ॥

54

जगत्सर्वं मृत्युवशं मृत्युर्यस्य वशे स्थितः ।

अयं मृत्युञ्जयो देवः श्रितानामभयप्रदः ॥

55

जगत्सर्वं कामवशं ससुरासुरकिन्नरम् ।

येन दग्धोऽभवत्कामस्तस्मादन्यः क ईश्वरः ॥

56

देवानामुत्तमौ देवौ ब्रह्मरुद्रौ न संशयः ।

अनयोः सेवकं मां च जानीत मुनिसत्तमाः ॥

57

ब्रह्मोवाच

शृणुध्वं मुनयः सर्वे सावधानं वदाम्यहम् ।

विष्णोर्हि नाभिकमलाज्जातोऽहं मन्मुखाद्भवः ॥

58

आवयोः कारणं विष्णुर्देवदेवो जगत्पतिः ।

अस्यैव शासनादावां सृष्टिसंहारकारकौ ॥

59

आवयोरुत्तमं देवं जानीत पुरुषोत्तमम् ।

तथापि नौ पूजयति प्रेमपूर्वं क्वचित्क्वचित् ॥

60

मायाविनां वरो विष्णुस्तस्य माया दुरत्यया ।

मोहं सन्त्यज्य गोविन्दं भजध्वं पुरुषोत्तमम् ॥

61

रुद्र उवाच

ममेव हृदये विष्णुर्विष्णोश्च हृदयेऽप्यहम् ।

परस्परं प्रेमयुक्तौ भवावो न हि संशयः ॥

62

मम भक्तोऽपि यो विष्णुं द्वेष्ट्येवं वैष्णवोऽपि माम् ।

तस्मिन् करोम्यहं द्वेषं तं मूढं सन्त्यजामि च ॥

63

विष्णोः पूजनमात्रेण पूजितोऽहमपि ध्रुवम् ।

अहं च हृदये विष्णुं पूजयामि दिने दिने ॥

64

देवस्यैष स्वभावो हि कृष्णस्य परमात्मनः ।

पुनः पुनः श्लाघते मां मुनीनां सन्निधौ स्वयम् ॥

65

विष्णुरुवाच

अहं ब्रह्मा च रुद्रश्च जगतः कारणं परम् ।

अस्मासु भेदबुद्धिं च त्यजत अमलमानसाः ॥

66

रुद्रस्य ब्रह्मणश्चापि हृदये निवसाम्यहम् ।

तस्मादभेदवाक्येन प्रतिपादयति श्रुतिः ॥

67

ममैव रूपं ब्रह्माणं रुद्रं च परमेश्वरम् ।

ज्ञात्वा भजध्वं मुनयो मामेकं मोक्षदायकम् ॥

68

श्रीसद्गुरुरुवाच

एवं भगवता प्रोक्ता मुनयो गतसंशयाः ।

सर्वेषामपि देवानां विष्णुमेवोत्तमं विदुः ॥

69

तस्मात्ते श्रद्धया भक्त्या पूजयामासुरच्युतम् ।

ब्रह्मरुद्रौ च मुनयस्तद्विभूतिस्वरूपतः ॥

70

क्षेत्राणामुत्तमं क्षेत्रं कदम्बवनमेव हि ।

देवानामुत्तमत्वं च यत्र विष्णोर्निरूपितम् ॥

71

कदम्बवनमध्ये तु वसन्तं पुरुषोत्तमम् ।

पूजयेन्मोक्षकामस्तु ब्रह्मरुद्रसमन्वितम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे कदम्बवनमाहात्म्यम् नाम अध्यायः ॥
Tṛtīya Bhāge Ch.02