Verses

शुक्रपुरीमाहात्म्यम् Śukra Purī Māhātmyam

1

श्रीसद्गुरुरुवाच

आसीन्महाबलिर्नाम दैत्यो बलवतां वरः ।

ब्रह्मण्यश्च वदान्यश्च सत्यसन्धो दृढव्रतः ॥

2

चक्रे स विश्वजिद्यागं भार्गवैर्मुनिपुङ्गवैः ।

लेभे च विश्वविजयं लोकनाथोऽभवत्ततः ॥

3

तस्मात्सुगर्वितो नित्यं निवसन्नर्मदातटे ।

भृगुकच्छे महाक्षेत्रे चक्रे यज्ञं पुनः पुनः ॥

4

तस्य बाहुबलेनैव निर्जिता निखिलाः सुराः ।

स्वर्गं त्यक्त्यैव भूलोके चरन्ति स्म सुदुःखिताः ॥

5

एवं पुत्रेषु नष्टेषु देवमाता यशस्विनी ।

अदितिश्च व्रतं चक्रे कश्यपेन प्रचोदिता ॥

6

तस्या भक्त्या प्रसन्नस्तु भगवान् गरुडध्वजः ।

पुत्रोऽभवत्कृपासिन्धुः श्रवणद्वादशीतिथौ ॥

7

उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ।

उपनीतो यथाशास्त्रं यज्ञवाटीं बलेर्ययौ ॥

8

शिखिनं दण्डिनं बालमेकयज्ञोपवीतिनम् ।

कौपीनधारिणं श्यामं कमण्डलुधरं प्रभुम् ॥

9

पुण्डरीकदलाक्षं च वामनं बहुसुन्दरम् ।

विलोक्य मुमुहुः सर्वे मुनयश्च महाबलिः ॥

10

आनीय तं महावीरः पूजयामास वामनम् ।

बद्धाञ्जलिपुटो भक्त्या स्वागतं चाब्रवीत्तदा ॥

11

महाबलिरुवाच

स्वागतं ते महाभाग बहुसुन्दर बालक ।

तव दर्शनमात्रेण मुह्यन्ति मुनिपुङ्गवाः ॥

12

नूनमेवं प्रभावोऽसि मन्दहासवरानन ।

मेघश्याम नमस्तुभ्यं पुण्डरीकायतेक्षण ॥

13

अद्य नः पितरस्तृप्ताः कुलदेवाश्च पूजिताः ।

तवागमनमात्रेण धन्योऽस्मि न हि संशयः ॥

14

अहं सर्वं प्रदास्यामि यद्यदिच्छसि वामन ।

नास्त्येवमादृशो दाता भुवने कल्पकाधिकः ॥

15

श्रीभगवानुवाच

सदृशं भाषसे राजंस्तावकं यादृशं कुलम् ।

भृगूणामपि शिष्योऽसि तस्मादेवं प्रभाषसे ॥

16

मम त्रीणि पदान्येव देहि भूमिं नृपोत्तम ।

संपादितव्यं सर्वैश्च वित्तं यावत्प्रयोजनम् ॥

17

महाबलिरुवाच

अहो ब्राह्मणदायाद यथेष्टं काञ्चनं वृणु ।

सर्वां भूमिं प्रदास्यामि स्वर्गं वा भुवनत्रयम् ॥

18

सर्वं ते दातुमिच्छामि सङ्कोचं मा कुरु प्रभो ।

मद्दानं प्रतिगृह्येव स्वयं हि धनदो भवेत् ॥

19

श्रीभगवानुवाच

एवं हि सत्यमेवास्तु त्वं दाता तादृशो महान् ।

किन्त्वहं भिक्षुरेवास्मि तपोभूमिमहं वृणे ॥

20

यदि ते भाग्यलेशोऽस्ति देहि दानं महाबले ।

एतावतैव तृप्तोऽस्मि पूर्णोऽस्मि स्वयमेव हि ॥

21

श्रीसद्गुरुरुवाच

एवं हि मधुरं वाक्यं वदन्तं वामनं बलिः ।

अविज्ञाय परं विष्णुं दानं कर्तुमियेष सः ॥

22

विज्ञाय वामनं विष्णुं शुक्रो दैत्यपुरोहितः ।

उवाच शिष्यं सहसा शिष्यरक्षणतत्परः ॥

23

शुक्र उवाच

मायामाणवकोऽयं तु श्रीपतिर्नात्र संशयः ।

नैवायं ब्रह्मचारी च विष्णुर्विश्वकुटुम्बकः ॥

24

वञ्चयन् त्वां महावीर गृहीत्वा दानमुत्तमम् ।

दातुमिच्छति सर्वस्वमिन्द्राय रिपवे तव ॥

25

न दास्यामीति तं बालं प्रति ब्रूहि महाबले ।

शीघ्रं प्रेषय तद्गेहं कपटं ब्रह्मचारिणम् ॥

26

स्त्रीषु नर्म विवाहे च वृत्त्यर्थे प्राणसङ्कटे ।

गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् ॥

27

महाबलिरुवाच

अहं सर्वं प्रदास्यामि यदि सर्वेश्वरोऽर्भकः ।

ममैव तु महाभाग्यं भुवने प्राप्तमीदृशम् ॥

28

यः पालयेत् सत्यनिष्ठां महत्यामापदि स्वयम् ।

स एव पूज्यो भुवने देवैः सर्वैर्न संशयः ॥

29

श्रीसद्गुरुरुवाच

इत्युक्त्वा निर्भयं दानं कर्तुमेव समुद्यतम् ।

भार्गवश्चिन्तयामास शिष्यरक्षणकाङ्क्षया ॥

30

तदा कमण्डलोर्नालं प्राप्तः शुक्रो महामतिः ।

रुरोध जलधारां तां प्रदानसमये बलेः ॥

31

तज्ज्ञात्वा भगवान् विष्णुर्दर्भाग्रेण महामुनेः ।

लोढयामास शुक्रस्य नेत्रं नालगतस्य च ॥

32

बहिर्जगाम शुक्रोऽपि नेत्रहीनोऽभवत्ततः ।

अपचारेण वै विष्णोः शिक्षितो विष्णुनापि सः ॥

33

तदैव विष्णुर्ववृधे महाद्भुतं

रूपं गृहीत्वा परयैव मात्रया ।

भुवं पदैकेन विचक्रमे स

दिवं तथान्येन महापराक्रमः ॥

34

त्रिविक्रमं तं कमलासनश्च

विलोक्य भक्त्या विदधे च पूजाम् ।

ददौ च पाद्यं परमं पवित्रं

तदेव तीर्थं हि बभूव गङ्गा ॥

35

ततो बलिं वीक्ष्य कृपासमुद्रो

बद्धाञ्जलिं तं पुरतो निषण्णम् ।

पदं तृतीयं मम देहि राजन्

न चेदसत्यं वचनं तव स्यात् ॥

36

बलिस्तदा प्रेमभराश्रुनेत्रः

प्रणम्य विष्णुं पुनरेवमूचे ।

पदं तृतीयं हि शिरो ममेदं

सत्यं च मे पाहि कृपानिधे त्वम् ॥

37

तदैव विष्णुः कृपया पदाब्जं

निधाय दैत्येशवरोत्तमाङ्गे ।

प्रह्लादपौत्रस्य परं प्रसादं

चकार भक्तार्तिविनाशकारी ॥

38

एवं बलेः प्राप्य महावदान्यात्

महेन्द्राय भुवं च सर्वाम् ।

तं प्रेषयामास बलिं स्वभक्तं

रसातलं स्वर्गसुखातिरिक्तम् ॥

39

सर्वैश्च देवैरभिपूजितोऽयं

जगाम देवेन्द्रपुरीमुपेन्द्रः ।

बलेर्गृहद्वारि तथा कृपालु-

र्गदाधरस्तिष्ठति भक्तबन्धुः ॥

40

शुक्रो नेत्रविहीनस्तु नितरां दुःखितो हरिम् ।

आराधयितुकामस्तु कावेरीतटमागतः ॥

41

उत्तरं तीरमासाद्य कावेर्या मुनिपुङ्गवः ।

तपश्चक्रे महाघोरं स्वदृष्टिं प्राप्तुमिच्छया ॥

42

तदैव भगवान् विष्णुः शङ्खचक्रगदाधरः ।

शुक्रस्य पुरतो गत्वा तस्य दृष्टिं ददौ पुनः ॥

43

तदेव क्षेत्रप्रवरं चासीद्देवमनोरमम् ।

ख्यातं शुक्रपुरीत्येव नगरं चोलमण्डले ॥

44

शृङ्गारसुन्दरं नाम देवं विष्णुं सनातनम् ।

विलोक्य सर्वपापेभ्यो मुच्यते नात्र संशयः ॥

45

नेत्रहीनोऽपि यो विष्णुं देवं शुक्रपुरीस्थितम् ।

सेवते श्रद्धया नित्यं नेत्रं च लभते हि सः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे शुक्रपुरीमाहात्म्यम् नाम चतुर्दशोऽध्यायः ॥
Ch.13 Tṛtīya Bhāge Ch.15