Verses

नारायणपुरमाहात्म्यम् Nārāyaṇa Pura Māhātmyam

1

भागवता ऊचुः

चोलदेशस्थितानां च क्षेत्राणां गुरुपुङ्गव ।

अधिष्ठितानां कृष्णेन माहात्म्यं कीर्तितं त्वया ॥

2

द्वादशक्षेत्रमाहात्म्यं तथाऽन्येषां महाद्भुतम् ।

श्रीरङ्गस्य च दिव्यं तन्माहात्म्यं वद सद्गुरो ॥

3

श्रीसद्गुरुरुवाच

द्वादशक्षेत्रमाहात्म्यं वक्ष्यामि परमाद्भुतम् ।

वदतां शृण्वतां चापि महापातकनाशनम् ॥

4

नारायणं रुद्रतीर्थतीरे नरसमन्वितम् ।

उतङ्कतीर्थतीरे च देवं वैकुण्ठनायकम् ॥

5

धनुष्कोट्यां हरिं चैवं देवतीर्थे च माधवम् ।

क्षीराब्धितीर्थे च श्रीमन्तं पुरुषोत्तमम् ॥

6

नित्यपुष्करिणीतीरे वरदं करुणाकरम् ।

सूर्यपुष्करिणीतीरे रक्ताक्षं शेषशायिनम् ॥

7

चन्द्रपुष्करिणीतीरे मणिकूटपतिं हरिम् ।

हेमाब्जपुष्करिण्यां च गोपालं गोपिकाप्रियम् ॥

8

श्वेतपुष्करिणीतीरे श्रीनिवासं जगत्पतिम् ।

गङ्गातीरे द्वारकेशं मुकुन्दं पार्थसारथिम् ।

बिल्वारण्ये नृसिंहञ्च प्रह्लादसरसि स्थितम् ॥

9

एवं द्वादशतीर्थेषु द्वादशव्यूहरूपिणम् ।

यः पश्येद्भाग्यबान् विष्णुं तस्य कोऽन्यः समो भुवि ॥

10

ईदृशं परमं क्षेत्रं ब्रह्माण्डे नास्ति किञ्चन ।

यत्र विष्णुर्जगन्नाथो दृश्यते द्वादशाकृतिः ॥

11

क्रमेण तेषां तीर्थानां माहात्म्यं साधुसत्तमाः ।

वच्मि परमं पुण्यं शृणुध्वं परमादरात् ॥

12

ब्रह्मणो जाताः सृष्टिकाले महाबलाः ।

एकादश महारुद्रास्तमोगुणसमन्विताः ॥

13

मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वजः ।

उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥

14

इत्येकादश ते रुद्रास्तिष्ठन्ति व्याप्य वै जगत् ।

कपर्दिनस्त्रिनेत्राश्च श्रीकण्ठाः शूलपाणयः ॥

15

सहस्रशो मूर्तिधरा वसन्ति स्वगणैः सह ।

सन्ति वृक्षेषु तीर्थेषु रुद्रा गिरिगुहासु च ॥

16

ते तु विध्यन्ति भूतानि बाणैस्तीक्ष्णैर्हि लीलया ।

तान् सर्वान् प्राह लोकेशो ब्रह्मा सृष्टिविधायकः ॥

17

ब्रह्मोवाच

आगच्छ त्वं सुरश्रेष्ठ नाम्ना त्वं शङ्करोऽसि हि ।

हिंसां करोषि बहुधा भूतानां त्वं धनुर्धरः ॥

18

पशून् पाहि महादेव देवदेवो भवान् किल ।

यज्ञार्थं पशवः सृष्टा लोकक्षेमकरा हि ते ॥

19

तेषां वधो महत्पापमभयं देहि शङ्कर ।

विष्णुमाश्रित्य सात्त्विकं विसृज त्वं तमोगुणम् ॥

20

श्रीसद्गुरुरुवाच

इत्युक्तो ब्रह्मणा रुद्रश्चोलदेशं समागतः ।

कावेरीसङ्गमं गत्वा श्वेतारण्ये वसन् सदा

विष्णुमाराधयामास नरं नारायणं प्रभुम् ॥

21

तेषां ददौ दर्शनं स्वं देवो नारायणः प्रभुः ।

नरेण सार्धं गोविन्दो मुनिमण्डलसेवितः ॥

22

चतुर्भिर्वेदरूपैश्च योजितं हयसत्तमैः ।

प्रणवाख्यं रथं दिव्यमारुह्य भगवान् हरिः ॥

23

आगात् दक्षिणं देशं देवो बदरिकाश्रमात् ।

रुद्रेभ्यो दर्शनं दातुं स्वयं नारायणः प्रभुः ॥

24

तस्मादेतन्महाक्षेत्रं दक्षिणे बदरीवनम् ।

यत्र नारायणो देवो नरेण सह राजते ॥

25

एकादशमहारुद्रा देवं नारायणं प्रभुम् ।

आमर्चुः परया भक्त्या वासुदेवं पृथक् पृथक् ॥

26

तस्मान्नारायणो देवो धृत्वा चैकादशाकृतिम् ।

पृथक् पृथक् मन्दिरेषु दृश्यते कृपया हरिः ॥

27

सर्वेषां विष्णुरूपाणां मूलरूपमिदं परम् ।

नारायणाख्यं रुद्रेण साक्षादेवाभिपूजितम् ॥

28

रुद्रतीर्थे नरः स्नात्वा देवं नारायणं प्रभुम् ।

यः पूजयेत् प्रतिदिनं तस्य जाड्यं विनश्यति ॥

29

ब्रह्महत्यादिदोषाणां हरणं परमं शुभम् ।

रुद्रतीर्थे कृतं स्नानं नरनारायणार्चनम् ॥

30

दक्षिणे बदरीक्षेत्रं स्वयं व्यक्तमिदं परम् ।

ये न पश्यन्ति ते मूढा नरा दुर्भाग्यशालिनः ॥

31

नृणां गन्तुमशक्तानामुत्तरं बदरीवनम्

अत्रैव करुणासिन्धुरागतो भक्तवत्सलः ।

भक्तानां दर्शनं दातुमारूढः प्रणवं रथम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे नारायणपुरमाहात्म्यम् नाम एकत्रिंशोऽध्यायः ॥
Ch.30 Tṛtīya Bhāge Ch.32