Verses

व्योमज्योतिमाहात्म्यम् Vyomajyoti Māhātmyam

1

श्रीसद्गुरुरुवाच

अग्निः सूर्यश्च चन्द्रश्च नक्षत्राणि ग्रहास्तथा ।

सङ्घं कृत्वा महाकाशे विचारं चक्रिरे स्वयम् ॥

2

तारागणा ऊचुः

भूषयामो वयं लोकं निशि व्योम्नि समास्थिताः ।

पश्यन्ति रूपमस्माकं वितानमिव मौक्तिकम् ॥

3

ग्रहा ऊचुः

वयमेव हि सर्वेषां सुखदुःखविधायकाः ।

अस्माकं गतिमालोच्य भाग्यं जानन्ति मानवाः ॥

4

किमलङ्कारमात्रेण लोके दुःखाकुले भृशम् ।

अपि मन्दप्रभा यूयमात्मश्लाघामकार्ष्ट किम् ॥

5

चन्द्र उवाच

वृथा निन्दथ ताराश्च ह्यलङ्कारप्रियाः स्त्रियः ।

लोकदुःखं न जानन्ति सदा कौतूहले रताः ॥

6

सर्वं कर्मफलाधीनं सुखं दुःखं च वै नृणाम् ।

ग्रहा न शक्नुवन्त्येतदन्यथा कर्तुमेव हि ॥

7

सूचयन्ति नृणां भाग्यं जातकं चक्रमाश्रिताः ।

किमनेन कृतः नृणामुपकारः सुखप्रदः ॥

8

यूयं च मन्दकान्तयः एवमात्मश्लाघामकार्ष्ट किम् ।

पश्यथ व्योम्नि मे कान्तिं सर्वत्रामृतवर्षिणीम् ॥

9

सूर्य उवाच

चन्द्र मन्दप्रकाशस्त्वं क्षयं यासि दिने दिने ।

तथा कलङ्कयुक्तोऽसि गुरुशापेन पीडितः ॥

10

सर्वस्योपरि मे कान्तिं पश्य त्वं भुवनत्रये ।

मदग्रे त्वं तिरोधानं यासि तारागणैः सह ॥

11

उत्थापयामि लोकांश्च कारयामि स्वकर्म च ।

साक्षी च सर्वलोकानां चरामि हि दिने दिने ॥

12

उपासते ब्राह्मणा मां सायं प्रातः समाहिताः ।

जगतां चक्षुरेकं मां वदति श्रुतिरव्यया ॥

13

सर्वेषामपि देवानामग्रगण्यं विसृज्य माम् ।

आत्मश्लाघां करोषि त्वं पापमेतत्, न संशयः ॥

14

तारागणानां सर्वेषां ग्रहाणां च तवापि च ।

मत्त एव प्रभां विद्धि नान्यथा हि निशाकर ॥

15

निशाकरोऽसि त्वं चन्द्र नाम्नाऽहं च दिवाकरः ।

वदन्ति कवयोऽप्येवं तारतम्यं किलावयोः ॥

16

सर्वेषामपि लोकानामहमेव प्रभाकरः ।

विहाय मत्प्रभां लोको ह्यन्ध एव न संशयः ॥

17

अग्निरुवाच

हे तारा हे ग्रहा यूयं हे चन्द्र त्वं प्रभाकर ।

यूयं सर्वे मत्प्रभया विराजथ न संशयः ॥

18

तृतीयं भूतमेवाहं सृष्टिकाले वसाम्यहम् ।

मम पश्चादेव यूयं सृष्टा लोके स्वयम्भुवा ॥

19

प्रकाशयामि युष्माकं मण्डलान्यहमेव हि ।

अहमेव जगद्व्याप्य तिष्ठामि न हि संशयः ॥

20

श्रीसद्गुरुरुवाच

एवं देवेषु सर्वेषु परस्परजिगीषया ।

आत्मस्तुतिं प्रकुर्वत्सु महज्योतिरभूत्तदा ॥

21

सर्वत्र व्याप्तममितमापातालनभस्तलम् ।

परं ज्योतिर्विलोक्यैते प्रापुः परमविस्मयम् ॥

22

तदग्रे सर्वदेवानां ज्योतिरन्तरधात्तदा ।

देवा मन्दप्रभा भूत्वा पप्रच्छुर्देवमीदृशम् ॥

23

देवा ऊचुः

कस्त्वं परमया कान्त्या पुरस्तादेव राजसे ।

वयमन्तर्हिता देव तव कान्त्या पराजिताः ॥

24

देव उवाच

अन्तर्ज्योतिर्बहिर्ज्योतिर्नृणां ज्योतिर्द्वयं खलु ।

अन्तर्ज्योतिः किलाश्रित्य बहिर्ज्योतिः प्रकाशते ॥

25

ताराणां च ग्रहाणां च सूर्याचन्द्रमसोस्तथा ।

अग्नेरपि वरं ज्योतिः नेत्रज्योतिर्विना कथम् ॥

26

सूर्येण वा चन्द्रमसा ताराभिश्च ग्रहैश्च वा ।

नेत्रज्योतिर्विहीनस्य दीपेनापि च किं फलम् ॥

27

नेत्रे दृष्टिशक्तिर्हि ज्योतिरित्यभिधीयते ।

नृणामात्मज्योतिषैव दृष्टिशक्तिः प्रजायते ॥

28

किं पश्यति भुवि प्रेतः किं शृणोति च जिघ्रति ।

किं भक्षयति जानाति विनाऽऽत्मज्योतिषा बत ॥

29

ज्योतिषामपि सर्वेषामन्तर्ज्योतिरिदं परम् ।

अन्तर्बहिश्च तत्सर्वं व्याप्य सर्वत्र राजते ॥

30

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥

31

अन्तर्यामी स्वयं भूत्वा जीवानां हृदये स्थितः ।

प्रकाशयाम्यहं सर्वं ज्योतिषा चिन्मयेन वै ॥

32

एवं ज्योतिर्मयं दीपं चिन्मयं हृदि पश्यथ ।

तदा नश्यत्यहंभावो देहादिषु गृहादिषु ॥

33

श्रीसद्गुरुरुवाच

इत्युक्त्वाऽन्तरधात्सद्यो व्योमज्योतिर्महेश्वरः ।

ततः सर्वेऽपि देवाश्च प्रापुः शान्तिं परां स्वयम् ॥

34

व्योमज्योतिरिदं क्षेत्रं प्राप्य कृत्वा च दर्शनम् ।

ज्ञानदृष्टिमवाप्नोति पामरोऽपि जनस्तथा ॥

35

व्योमज्योतिः परं ब्रह्म ज्ञानदृष्टिप्रकाशकम् ।

सेवन्ते मुनयः सिद्धा देवाश्चापि दिने दिने ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे व्योमज्योतिमाहात्म्यम् नाम नवत्रिंशोऽध्यायः ॥
Ch.38 Tṛtīya Bhāge Ch.40