Verses

रक्ताक्षपुरमाहात्म्यम् Raktākṣa Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

पुरा देवासुरे युद्धे देवा दैत्यैः पराजिताः ।

शङ्खचक्रधरं विष्णुं शरण्यं शरणं ययुः ॥

2

अथ विष्णोराज्ञयैव ममन्थुः क्षीरसागरम् ।

मन्थानं मन्दरं कृत्वा योक्त्रं कृत्वा तु वासुकिम् ॥

3

हालाहलं विषं जातं पपौ देवो महेश्वरः ।

ततः सुधानिधिं चन्द्रं जग्राह शिरसा हरः ॥

4

जग्राह कौस्तुभं विष्णुः श्रियं च कमलोद्भवाम् ।

ऐरावतं तथेन्द्रश्च कामधेनुं च कल्पकम् ॥

5

सुधाकुम्भमुपादाय धन्वन्तरिरुपागतः ।

तद्धृत्वा दुद्रुवुर्दैत्या दुःखमापुः सुरास्तथा ॥

6

मायाविनां वरो विष्णुर्मोहिनीरूपमाश्रितः ।

मोहयन् मधुरैर्भावैः सुधाकुम्भं जहार ह ॥

7

उपवेश्य समं पङ्क्त्यां दैत्यान् देवांश्च मोहिनी ।

सुधाकुम्भं वहन्ती सा चकार परिवेषणम् ॥

8

असुरान् मोहयन्ती सा न ददावमृतं खलान् ।

पाययामास देवान् सा साधूनेव स्वभावतः ॥

9

स्वर्भानुर्नाम दैत्यस्तु तज्ज्ञात्वा पातुमिच्छया ।

दैत्यपङ्क्तिं विहायागाद्देवपङ्क्तिं शनैः शनैः ॥

10

अजानन्निव सर्वज्ञः सुरासुरसमो हरिः ।

मोहिनीरूपधृद्विष्णुस्तस्मै च प्रददौ सुधाम् ॥

11

सूर्याचन्द्रमसौ दृष्ट्वा विष्णवे तमवोचताम् ।

चिच्छेद भगवांस्तस्य शिरश्चक्रेण लीलया ॥

12

स दैत्योऽमृतपानेन न मृत्युं प्राप वै तदा ।

विष्णोश्च कृपया सद्यः स्वर्भानुरमरोऽभवत् ॥

13

शिरसा राहुरूपञ्च केतुत्वं वपुषा तथा ।

प्राप्य देवगणं सोऽपि देवोऽहमिति चाययौ ॥

14

न देवस्त्वं तु दैत्योऽसि याहि दैत्यान् सुदुर्मते ।

इति देवैर्विसृष्टोऽयं पुनर्दैत्यगणं ययौ ॥

15

वञ्चकस्त्वं तु दैत्यानां स्वार्थलाभपरायणः ।

शरणं याहि देवांस्त्वमिति दैत्याश्च तत्यजुः ॥

16

उभयत्र विनष्टोऽयं शरणं प्राप केशवम् ।

अगतीनां गतिं विष्णुं सर्वेषामभयप्रदम् ॥

17

ग्रहत्वं प्रददौ विष्णुः शरणागतवत्सलः ।

उवास दिवि दैत्योऽपि छायारूपेण लज्जया ॥

18

सुधां पीत्वाऽमरत्वं च लब्ध्वाऽपि दितिजाधमः ।

वैषम्यं न जहौ दुष्टः स्वभावः खलु दुस्त्यजः ॥

19

काले काले समुत्थाय द्वेषभावेन संयुतः ।

सूर्याचन्द्रमसौ देवौ ग्रहीतुं च प्रवर्तते ॥

20

तदा तौ दुःखितौ देवौ भयेन दितिजस्य तु ।

सरोद्वयं विनिर्माय प्रविष्टावूषतू रहः ॥

21

तमः प्राप्तं हि सर्वत्र लोके सर्वे सुरास्तथा ।

विचित्य नैव संप्रापुः सूर्याचन्द्रमसौ बत ॥

22

तदा सर्वेश्वरो विष्णुः सरस्तीरमुपागतः ।

सूर्याचन्द्रमसोः शौरिरभयं प्रददौ हरिः ॥

23

श्रीभगवानुवाच

आदित्य त्वं समुत्तिष्ठ त्वं चोत्तिष्ठ सुधाकर ।

भुवनं तमसा मूढं प्रकाशय तथा पुनः ॥

24

स्वर्भानुं मम चक्रेण शमयामि न संशयः ।

उपरागे तु संप्राप्ते काले काले पुनः पुनः ॥

25

अद्यप्रभृति लोकेऽस्मिन् यशः प्राप्स्यति वां सरः ।

सूर्यतीर्थं चन्द्रतीर्थमिति पापविनाशनम् ॥

26

तीर्थद्वयस्य तीरेऽपि मां प्रतिष्ठाप्य वै युवाम् ।

आराध्य विबुधैः साकं दिवमेव हि गच्छतम् ॥

27

श्रीसद्गुरुरुवाच

इत्युक्तौ विबुधश्रेष्ठौ सूर्याचन्द्रमसौ तदा ।

सरसोस्तीरयोस्तत्र पूजयामासतुर्हरिम् ॥

28

सर्वैर्देवैश्च सहितौ प्रापतुश्च पुनर्दिवम् ।

स्वर्भानुश्च भयं प्राप तयोर्विष्णुसमाश्रयात् ॥

29

यदा काले ग्रहीतुं तावायाति दितिजाधमः ।

विष्णुचक्रस्य तापेन दूरतो याति वै पुनः ॥

30

छायामात्रेण तस्यैव सूर्याचन्द्रमसोर्भुवि ।

उपरागो दृश्यते हि काले काले पुनः पुनः ॥

31

ये कुर्वन्त्युपरागे तु स्नानं दानं च तर्पणम् ।

तेषां पापानि नश्यन्ति प्रीणन्ति पितरः सुराः ॥

32

विष्णुं सूर्यसरस्तीरे रक्ताक्षं शेषशायिनम् ।

तथा चन्द्रसरस्तीरे मणिकूटाख्यमन्दिरे ॥

33

हरिं पश्यन्ति ये भक्त्या तेषां शत्रुभयं न हि ।

विमुच्यन्ते शत्रुभयात् सूर्याचन्द्रमसौ यथा ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे रक्ताक्षपुरमाहात्म्यम् नाम अध्यायः ॥
Ch.37 Tṛtīya Bhāge Ch.39