Verses

चम्पकारण्यमाहात्म्यम् Campakāraṇya Māhātmyam

1

श्रीसद्गुरुरुवाच

चम्पकारण्यमाहात्म्यं वक्ष्यामि परमाद्भुतम् ।

यस्य श्रवणमात्रेण गोपालः सुप्रसीदति ॥

2

गोभिलो नाम विख्यातो मुनिरासीज्जितेन्द्रियः ।

तपश्चकार सुमहत् कृष्णदर्शनकातरः ॥

3

कृष्णावतारकाले तु ध्यानमीलितलोचनः ।

न्यवसन्नैमिशारण्ये सुदीर्घे तपसि स्थितः ॥

4

भूभारं निखिलं हृत्वा स्वधाम भगवान् ययौ ।

बहिः प्रज्ञामथ प्राप गोभिलो मुनिपुङ्गवः ॥

5

आकर्ण्य मुनिभिर्गीतां कृष्णलीलां पुनः पुनः ।

द्रष्टुकामः मुकुन्दं तं प्रललाप रुरोद च ॥

6

गोभिल उवाच

हन्त दौर्भाग्यमेतन्मे न प्राप्तं कृष्णदर्शनम् ।

पूतनाशकटादीनां कुब्जाया रजकस्य च ॥

7

पौण्ड्रकस्यापि यत्प्राप्तं विना साधनलेशतः ।

मया घोरेण तपसा कालक्षेपो वृथा कृतः ॥

8

कथं द्रक्ष्यामि गोविन्दं गोपीजनमनोहरम् ।

इतःपरं क्व यास्यामि किमर्थं जीवनं मम ॥

9

वञ्चितोऽहं मुकुन्देन मुचुकुन्दप्रियेण च ।

किमर्थमुपविष्टोऽहं विमूढो योगनिद्रया ॥

10

उत्थाप्य किं करुणासिन्धुर्न ददौ मम दर्शनम् ।

ममैव ननु दुर्भाग्यं किं वृथा कृष्णनिन्दया ॥

11

कथं द्रक्ष्यामि गोपालं जगन्मोहनसुन्दरम् ।

व्यर्थं हि जीवितं लोके कामये मरणं ननु ॥

12

साधनैर्बहुभिः किं मे साध्यं वा किमतः परम् ।

किमुत्तमं फलं लोके गोपीरमणदर्शनात् ॥

13

हा हा गोकुलमन्दार हा हा गोपीजनप्रिय ।

हा हा गोपाल गोविन्द दर्शनं देहि माधव ॥

14

श्रीसद्गुरुरुवाच

एवं रुदति योगीन्द्रे प्राह तं ह्यशरीरवाक् ।

चम्पकारण्यमायाहि दास्यामीति च दर्शनम् ॥

15

उत्थाय सहसा योगी गोभिलो वनमागतः ।

चम्पकारण्यमापृच्छन्नाययौ शीघ्रमेव सः ॥

16

ददर्श चम्पकारण्यं दर्शनानन्दवर्धनम् ।

पुष्पितैश्चम्पकैर्व्याप्तं सर्वत्रातिसुगन्धितम् ॥

17

मकरन्दमदोन्मत्तभृङ्गझङ्कारसुस्वरम् ।

कोकिलैः कृष्ण कृष्णेति कीर्तितं वृक्षकोटरे ॥

18

नानामुनिगणैः सेव्यं नानातीर्थपवित्रितम् ।

नानामृगैः परिव्याप्तं नानापक्षिगणैर्वृतम् ॥

19

चम्पकाशोकपुन्नागरसालवकुलासनैः ।

भूरुहैश्च परिव्याप्तं राजितं वनराजिभिः ॥

20

गोपीनां च हरिद्राभिर्माञ्जिष्ठजलसंयुता ।

तत्रास्ते भुवि विख्याता हरिद्राख्या महानदी ॥

21

तां हरिद्रानदीं दृष्ट्वा तत्रैव न्यवसन्मुनिः ।

कृष्णदर्शनतापेन सञ्जपन् द्वादशाक्षरीम् ॥

22

हरिद्रागन्धसंयुक्ता हरिलीलारसप्रदा ।

हारिवारिभिरापूर्णा हतमानवकल्मषा ॥

23

मणिसोपानसंयुक्ता मत्स्यक्रीडाविलासिनी ।

सरोजवनसङ्कीर्णा हंससारसपूजिता ॥

24

दक्षिणे यमुनातुल्या देशे दामोदराश्रिता ।

देवगन्धर्वमुनिभिः सन्ततं परिसेविता ॥

25

तत्रैव भगवान् कृष्णः कृपया दर्शनं ददौ ।

गोभिलाय स्वभक्ताय गोपालः पद्मलोचनः ॥

26

वादयन्नाययौ वेणुं वैजयन्तीपरिष्कृतः ।

पीताम्बरधरः श्रीमान् कस्तूरितिलकाञ्चितः ॥

27

चन्दनालिप्तसर्वाङ्गश्चलन्मकरकुण्डलः ।

मन्दस्मितमुखाम्भोजो महिलाबृन्दमोहनः ॥

28

क्वणत्किङ्किणिमञ्जीरः कुञ्चितालकसुन्दरः ।

षोडशस्त्रीसहस्रेण सार्धं शृङ्गारलोलुपः ॥

29

जलक्रीडां कर्तुकामो जलजायतलोचनः ।

जनार्दनो जगन्नाथो जगन्मोहनसुन्दरः ॥

30

अवतीर्य हरिद्रायां चिक्रीड भगवान् हरिः ।

भस्त्रायन्त्रेण सलिलं सिञ्चन् प्रणयपूर्वकम् ॥

31

गोपिकानां सहस्राणि तेनैव ननृतुर्जगुः ।

वलयानां नूपुराणां शुश्रुवे मधुरध्वनिः ॥

32

वदन्तीनां हसन्तीनां गायन्तीनां पुनः पुनः ।

तासां तु कृष्णकान्तानां गीतैर्मुखरितं वनम् ॥

33

मृदङ्गवीणावेणूनां नूपुराणां च सुस्वरः ।

निनदोऽभूत्तदा तत्र कर्णानन्दरसप्रदः ॥

34

आलिङ्गितानां कृष्णेन चुम्बितानां पुनः पुनः ।

प्रेम्णा जलेन सिक्तानामुन्मादोऽभूच्च योषिताम् ॥

35

काश्मीरचन्दनालेपैर्हरिद्राकुङ्कुमैस्तथा ।

हरिद्रासलिलैः सर्वं वनं घुमघुमायितम् ॥

36

गोपीजनकुचद्वन्द्वकुङ्कुमाङ्कितवक्षसम् ।

गोपालं ददृशुः सर्वे व्योम्नि सिद्धगणास्तथा ॥

37

ववृषुः पुष्पवर्षेण ननृतुश्च जगुस्तथा ।

आकाशे सुरसुन्दर्यः कृष्णदर्शनकौतुकात् ॥

38

श्रान्तानां गोपिकानां तु मुखं वीक्ष्य कृपाकुलः ।

लीलां समाप्य सानन्दमारुरोह तटं पुनः ॥

39

तत्र न्यस्तानि वस्त्राणि भूषणानि च योषितः ।

जगृहुः प्रेमपूर्वं हि ललितानि परस्परम् ॥

40

अवशिष्टं वस्त्रमेकं कुण्डलं गोपिकाप्रियः ।

आददे तत्प्रेमपूर्वं दधार बहुसुन्दरः ॥

41

तदा तत्रैव ददृशे गोपालो गोपिकाप्रियः ।

एकवस्त्रधरः कट्यामेककुण्डलभूषितः ॥

42

क्वणत्कनकमञ्जीरभूषिताङ्घ्रिसरोरुहम् ।

इन्द्रनीलमणिस्तम्भजानुयुग्मातिसुन्दरम् ॥

43

किङ्किण्याबद्धजघनक्वणत्कलभगामिनम् ।

त्रिभङ्गिललिताकारं त्रिवलीवलितोदरम् ॥

44

सुवर्णकटिसूत्राढ्यकनकाम्बरधारिणम् ।

गोपीजनकुचद्वन्द्वकुङ्कुमाङ्कितवक्षसम् ॥

45

हिरण्यसूत्रसंयुक्तशार्दूलनखभूषितम् ।

वक्षःस्थललुठच्चारुवैजयन्तीविराजितम् ॥

46

राधिकांसोपरिन्यस्तभुजशोभितकङ्कणम् ।

लीलयाऽन्यकराम्भोजविलोलितसरोरुहम् ॥

47

मन्दस्मितमुखाम्भोजमुग्धभावातिमोहनम् ।

कटाक्षवीक्षणानीतगोपीवीक्षणतोषितम् ॥

48

मुकुन्दं चम्पकप्रख्यनासालम्बितमौक्तिकम् ।

विशालफालसंराजत्कस्तूरीतिलकाञ्चितम् ॥

49

मयूरपिञ्छमकुटं कुटिलालकगह्वरम्

गोपालं गोपिकानन्दं गोकुलानन्दवर्धनम् ।

गोभिलः सादरं वीक्ष्य पपात भुवि मूर्च्छितः ॥

50

शनैरुत्थाय सानन्दं बाष्पपूरितलोचनः ।

तुष्टाव राजगोपालं राधिकाप्राणवल्लभम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे चम्पकारण्यमाहात्म्यम् नाम सप्तविंशोऽध्यायः ॥
Ch.26 Tṛtīya Bhāge Ch.28