Verses

गोसखक्षेत्रमाहात्म्यम् Gosakha Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

आसीत् पूर्वं वसुर्नाम महाराजो महाबलः ।

वैष्णवं धर्ममाश्रित्य शशास पृथिवीं च सः ॥

2

ईजे च यज्ञक्रतुभिर्देवं नारायणं प्रभुम् ।

पुरोडाशेन हविषा सर्वदेवात्मकं हरिम् ॥

3

पुरोडाशविधिर्यज्ञे पशुयागाद्विशिष्यते ।

वैष्णवानामयं धर्मो विहितो नात्र संशयः ॥

4

तस्माद्विष्णुः प्रसन्नोऽभूत् शङ्खचक्रगदाधरः ।

स्वं रूपं दर्शयामास यज्ञकुण्डे दयानिधिः ॥

5

तदा वसुर्महाराजो महाभागवतोत्तमः ।

अहो पश्यत गोविन्दं पश्यतेति वचोऽब्रवीत् ॥

6

तच्छ्रुत्वा याज्ञिकाः सर्वे मुनयो विस्मितास्तदा ।

ऊचुर्महीपतिं क्रुद्धाः सदसि प्राप्तसंशयाः ॥

7

मुनय ऊचुः

राजन् तवास्मिन् वचने विश्वासं न लभेमहि ।

तपस्विनामिहास्माकं विष्णुः किं न हि दृश्यते ॥

8

सदाचारेण संपन्नान् ब्राह्मणान् वेदपारगान् ।

विसृज्य तव गोविन्दः कथं दृष्टिपथं गतः ॥

9

श्रीसद्गुरुरुवाच

एतच्छ्रुत्वा विस्मिते तु वसौ राजनि माधवः ।

प्राह प्रगल्भया वाचा यज्ञमूर्तिर्मुनीश्वरान् ॥

10

श्रीभगवानुवाच

नैव सांख्येन योगेन तपसा न व्रतेन च ।

न वैदिकैः कर्मभिर्वा साध्योऽहं भक्तवत्सलः ॥

11

फलसिद्धिर्भवेन्नूनमेतेषां पुण्यकर्मणाम् ।

किन्तु मद्दर्शनं लोके मुनीनामपि दुर्लभम् ॥

12

भक्त्याहं सुलभः प्राप्तः दीक्षितस्य महीपतेः ।

युष्माकं तादृशी भक्तिर्नास्त्येव प्रेमरूपिणी ॥

13

श्रीसद्गुरुरुवाच

तच्छ्रुत्वा भगवद्वाक्यं शशंसुर्मुनयो नृपम् ।

मुनीनामपि देवानां विष्णुभक्तिः सुदुर्लभा ॥

14

यज्ञे समाप्ते देवास्तु सुप्रीताः दर्शनं गताः ।

दिव्यं रथं ददुस्तस्मै गन्तुं सर्वत्र स्वेच्छया ॥

15

खेचरं रथमास्थाय चचारोपरि भूपतिः ।

तथा विष्णोः प्रसादेन सर्वत्र विजयी बभौ ॥

16

स कदाचिन्महाराजो व्योममार्गे निजं रथम् ।

स्तब्धं विलोक्य परमं विस्मयं प्राप वै वसुः ॥

17

तस्य हेतुं च विज्ञातुं रथेनावततार सः ।

ददर्श तत्र गोविन्दं गोसखं गोपरूपिणम् ॥

18

नीलोत्पलदलश्यामं नीरजायतलोचनम् ।

दिव्यपीताम्बरधरं दीप्तकौस्तुभकन्धरम् ॥

19

सुन्दरं सुमुखं शौरिं सुरासुरनमस्कृतम् ।

चरन्तं सह्यजातीरे चारयन्तं च गां तथा ॥

20

विलोक्य भूपतिः सद्यः प्रणम्य प्रेमपूर्वकम् ।

पप्रच्छ भगवन्तं तं बाष्पपूरितलोचनः ॥

21

वसुरुवाच

विहाय यमुनातीरं कावेरीतीरमागतः ।

किमर्थं गां चारयसि गोविन्द वद मे प्रभो ॥

22

नूनं मे दर्शनं दातुं गोपरूपेण माधव ।

एवं हि गोचरो भूत्वा मम त्वं दृष्टिगोचरः ॥

23

श्रीभगवानुवाच

मम लीलां महाराज सावधानतया शृणु ।

किमर्थं सञ्चरामीति वदाम्यद्य महीतले ॥

24

पुरा कैलासशिखरे नीलकण्ठो महेश्वरः ।

गोपरूपेण मां द्रष्टुमिच्छन् चक्रे तपो महत् ॥

25

पद्मासनस्थितं देवं नासाग्रन्यस्तवीक्षणम् ।

ध्यायन्तं गोपरूपं मां कृष्णमक्लिष्टकारिणम् ॥

26

अजानन्ती पार्वती तु परिहासरसप्रिया ।

मन्दं तत्पृष्ठतो गत्वा सदा केलिपरायणा ॥

27

चच्छाद पाणिपद्माभ्यां स्वभर्तुर्नयनानि सा ।

तदैव कुपितो रुद्रः शशाप मम सोदरीम् ॥

28

रुद्र उवाच

सर्वेषामपि जीवानामुत्पादयसि वै तमः ।

मायासि त्वं स्वरूपेण वैष्णवी दुस्तरा ननु ॥

29

तथापि तव लीला तु मम ज्ञानस्वरूपिणः ।

उत्पादयेत्कथं मोहं न वेत्सि मम वैभवम् ॥

30

ज्ञानहीनः पशुर्लोके पशुतां व्रज भामिनि ।

गोविन्दकृपया भूयो मत्पार्श्वं पुनराप्नुहि ॥

31

श्रीभगवानुवाच

इत्युक्ता सा भगवती रुद्रेण पशुतां गता ।

चचार भुवने राजन् कावेरीतीरकानने ॥

32

तदा तस्या रक्षणार्थमागतोऽस्मि कृपाकुलः ।

गोपरूपेण रुद्रस्य दर्शनं दातुमिच्छया ॥

33

भगिनीं मम तां गौरीं गोरूपेण वनान्तरे ।

चरन्तीं चारयन् सञ्चरामि महीपते ॥

34

एवं मां गोपरूपेण चरन्तं द्रष्टुमिच्छया ।

शिवो मे सन्निधिं प्राप समवाप्तमनोरथः ॥

35

अथ तां पार्वतीं प्राप्य पूर्वं शप्तां च लीलया ।

पुनः शापविमुक्तां च ययौ स्थानं महेश्वरः ॥

36

पुनश्च ते दर्शयितुं भक्तस्य मम भूपते ।

तदेव रूपमासाद्य चरामि पुरतस्तव ॥

37

प्रेम्णैव पृच्छते तुभ्यं कथितं चरितं मम ।

अर्चारूपेण तिष्ठामि यावच्चन्द्रदिवाकरम् ॥

38

अत्रालयं विनिर्माय विमानवरसंयुतम् ।

कुरु त्वं श्रद्धया राजन् नित्यनैमित्तिकोत्सवान् ॥

39

श्रीसद्गुरुरुवाच

एवमाज्ञापितो राजा विष्णुना गोपरूपिणा ।

आलयं निर्ममे शीघ्रं महामण्टपसंयुतम् ॥

40

उत्सवांश्च तथा कुर्वन् परमानन्दसंयुतः ।

लब्ध्वा विष्णोः प्रसादं च ययौ स्वं नगरं पुनः ॥

41

एवं यो गोसखं विष्णुमर्चयेद्भक्तिपूर्वकम् ।

यथा राजोपरिचरः सर्वत्र विजयी भवेत् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे गोसखक्षेत्रमाहात्म्यम् नाम त्रिंशोऽध्यायः ॥
Ch.29 Tṛtīya Bhāge Ch.31