Verses

श्रीवैकुण्ठपुरमाहात्म्यम् Śrī Vaikuṇṭha Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

येन भुक्तममृतं ह्यमरोऽहं न संशयः ।

एवं मुनेरुतङ्कस्य महान् गर्वोऽभ्यजायत ॥

2

तमानीय निजं शिष्यं वैदस्तु मुनिपुङ्गवः ।

कृपया बोधयामास विष्णुतत्त्वं सुनिर्मलम् ॥

3

वैद उवाच

अनित्यमसुखं लोकं सर्वं पश्य महामते ।

जीवनं वा सुखं वापि ब्रह्मणोऽपि न शाश्वतम् ॥

4

आशिष्ठो यो दृढिष्ठश्च बलिष्ठः श्रीमतां वरः ।

श्रोत्रियश्चाकामहतो मनुष्यानन्दमाप्नुयात् ॥

5

तस्माच्छतं पितॄणां च देवानां शतमुत्तरम् ।

इन्द्रस्यापि शतं तस्माच्छतं देवगुरोस्ततः ॥

6

प्रजापतेः शतं तस्माद्ब्रह्मणश्च ततः शतम् ।

एवं परिमितं सर्वं सुखं नश्वरमेव हि ॥

7

सत्यं ज्ञानमनन्तं तत्परं ब्रह्मैव शाश्वतम् ।

तद्विज्ञाय परां शान्तिं प्राप्नोति न हि संशयः ॥

8

कार्तवीर्यार्जुनादीनामष्टैश्वर्यजुषामपि ।

भयं दुःखमभूद्धन्त पूर्वं रामादिभिः किल ॥

9

अमराणां निर्जराणामिन्द्रादीनां दिवौकसाम् ।

हिरण्यरावणाद्यैश्च महद्भयमुपागतम् ॥

10

स्वकर्मणाऽमरत्वं च प्राप्य केचिद्दिवं नराः ।

क्षीणे पुण्ये मर्त्यलोके पतन्त्यनुशयाः पुनः ॥

11

अमरत्वमनित्यं स्याद्यतः कर्मसमार्जितम् ।

तन्मर्त्यं यदनित्यं स्याद्विचारय महामते ॥

12

जगत्पतेर्ब्रह्मणोऽपि परार्धद्वयजीविनः ।

काले परिमितं नूनं तथा तल्लोकवासिनाम् ॥

13

आपेक्षिकं चामृतत्वं विचार्यैव पुनः पुनः ।

वैराग्यमाप्नुयाद्धीरस्तत्तद्देवपदेषु च ॥

14

आब्रह्मस्वशरीरान्तमनित्यं सर्वमेव हि ।

ब्रह्मैव शाश्वतं सत्यं चिन्मात्रं परमं सुखम् ॥

15

स्वरूपत्वेन तद्ब्रह्म विज्ञाय गुरुवाक्यतः ।

मृत्युं जयति जानाति स्वरूपममृतं परम् ॥

16

न जन्म मरणं तस्य स्वरूपं जानतः सदा ।

यज्जायते तन्म्रियते तस्य किं परमात्मनः ॥

17

अविज्ञाय स्वरूपं तदमृतं प्राप्तुमिच्छताम् ।

अमृतं दुर्लभं तेषां कोटिकल्पान्तरेष्वपि ॥

18

न तत्स्यादमृतं वत्स निपीतं यत्त्वया पथि ।

भज वैकुण्ठनाथं त्वममृतत्वं प्रदास्यति ॥

19

श्रीसद्गुरुरुवाच

एवं निबोधितः शिष्यो दृढवैराग्यसंयुतः ।

विष्णुमाराधयामास देवं वैकुण्ठनायकम् ॥

20

आतपत्रायितानन्तसहस्रफणमण्डले ।

रत्नेषु राजमानेषु प्रतिबिम्बितविग्रहम् ॥

21

सुगन्धशीतमृदुलावर्तानन्ताङ्गमण्डलम् ।

सुखयन्तं स्वसंबन्धात् पश्यतामपि लोचनम् ॥

22

शङ्खचक्रधरं देवं जानुन्यस्तकराम्बुजम् ।

आलम्बितपदाम्भोजमाश्रितैर्भक्तमण्डलैः ॥

23

प्रसन्नवदनं शान्तं पद्मपत्रायतेक्षणम् ।

कृपार्द्रहृदयं विष्णुं शरणागतवत्सलम् ॥

24

नित्यं लक्ष्मीपरिष्वक्तवक्षसं कौस्तुभोज्ज्वलम् ।

नीलया च श्रिया भूम्या समेतं निरवद्यया ॥

25

दीर्घकालकृतेनापि तपसा मुनिसत्तमः ।

ददर्श दृढया भक्त्या तुष्टाव पुरुषोत्तमम् ॥

26

उतङ्क उवाच

सदा पश्यन्ति ते भक्तास्तद्विष्णोः परमं पदम् ।

न ब्रह्मा न च रुद्रश्च न देवा मुनयः परे ॥

27

आब्रह्मभुवना लोकाः पुनरावर्तिनो हरे ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं तव ॥

28

न कर्मणा न प्रजया प्राप्यते तत्परं पदम् ।

संन्यासेन कृतेनैव सर्वत्यागेन लभ्यते ॥

29

सर्वं साध्यं परित्यज्य तथा सर्वं च साधनम् ।

त्वामेकं शरणं यामि मुमुक्षुर्मोक्षदायकम् ॥

30

नाम्नाऽपि त्वं मुकुन्दोऽसि नतानां मोक्षदायकः ।

पदं तवैव परमं ह्याम्नाति श्रुतिरव्यया ॥

31

शङ्करात् ज्ञानमन्विच्छेन्मोक्षमिच्छेज्जनार्दनात् ।

इत्यब्रवीन्मनुश्चातस्त्वामहं शरणं गतः ॥

32

गणिकाऽजामिलादीनां गृध्रस्य च गजस्य च ।

परं पदं पुरा दत्तं वदान्येन त्वया प्रभो ॥

33

ब्रह्मादयः सुराः सर्वे वसिष्ठाद्याश्च तापसाः ।

परं पदं न संप्रापुः किं पुनर्मादृशो जनः ॥

34

विविधा सद्गतिर्लोके विहिता ह्युत्तरोत्तरा ।

तां तां नूनं प्राप्नुवन्ति तेन तेनैव कर्मणा ॥

35

तारतम्यं विलोक्य त्वं तत्तत्कर्मानुवर्तिनाम् ।

पदं ददासि कृपया परया समदर्शनः ॥

36

भक्त्याश्च तारतम्यं त्वं विलोक्यैव ददासि किम् ।

क्षीराब्धिमुख्यस्थानेषु त्वत्पदेषु जनिं प्रभो ॥

37

अथवा स्वयमेव त्वं स्वच्छन्दगतिरीश्वरः ।

स्वपार्षदैः सहागत्य तत्र तत्र विराजसे ॥

38

यथा तथा वाऽस्तु विष्णो त्वत्स्वरूपं सुनिर्मलम् ।

प्रकाशय परं नित्यं मत्स्वरूपं च चिन्मयम् ॥

39

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते मम कर्माणि त्वयि दृष्टे महेश्वरे ॥

40

स्वरूपैक्यं तु विज्ञाय जीवात्मपरमात्मनोः ।

अतः परं न वै किञ्चित्प्राप्तुं वा ज्ञातुमेव वा ॥

41

श्रीभगवानुवाच

सत्यमेव महाभाग त्वदुक्तं न हि संशयः ।

त्वमेवाहमहं त्वं हि चिन्मयत्वान्महामुने ॥

42

मामेकं परमं नित्यं कूटस्थं व्यापकं तथा ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥

43

एतद्धि परमं ज्ञानमेतद्धि परमं पदम् ।

एतस्मान्न परं प्राप्यं ज्ञेयं च न परं तथा ॥

44

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् सद्यस्तत्रैवान्तर्दधे हरिः ।

तदेतत्परमं स्थानमुतङ्कस्य तपोवनम् ॥

45

उतङ्कतीर्थतीरे तु दृष्ट्वा वैकुण्ठनायकम् ।

संसारपाशनिर्मुक्तः प्राप्नोति परमं पदम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे श्रीवैकुण्ठपुरमाहात्म्यम् नाम एकचत्वारिंशोऽध्यायः ॥
Ch.40 Tṛtīya Bhāge Ch.42