Verses

मञ्जुलापुरमाहात्म्यम् Mañjulā Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

पुरा मेधातिथिर्नाम मुनिरासीत्तपोनिधिः ।

तपश्चक्रे महाघोरं मणिमुक्तानदीतटे ॥

2

भृगोः क्षीराम्बुधेश्चापि जनकस्य महीपतेः ।

कन्या बभूव कमला जामाता भगवानभूत् ॥

3

तदेव भाग्यं मे भूयादिति निश्चित्य तापसः ।

दीर्घकालं तपश्चक्रे गोविन्दे दृढभक्तिमान् ॥

4

तस्य भक्त्या प्रसन्ना सा जननी जगतां रमा ।

आविरासीत् स्वयं पद्मा पुष्करिण्यां तु पुष्करे ॥

5

तामादाय महायोगी ददौ पत्न्ये प्रहृष्टधीः ।

पोषयामास तां कन्यां प्रेमपूर्वं महामुनिः ॥

6

नाम वञ्जुलवल्लीति धारयामास तापसः ।

पूर्वपक्षे चन्द्रिकेव ववृधे सा दिने दिने ॥

7

गाने कोकिलकण्ठी च भाषणे शारिकासमा ।

नर्तने केकिनीतुल्या सञ्चारे हंसगामिनी ॥

8

मृगाक्षी गजनासोरुः सिंहमध्या च सुन्दरी ।

मीनाक्षी कूर्मपृष्ठा च करिकुम्भस्तनी तथा ॥

9

आवर्तनाभिः सुभगा बिम्बोष्ठी भ्रमरालका ।

भ्रूवल्ली कुन्ददन्ता च फालचन्द्रा शुचिस्मिता ॥

10

पूर्णचन्द्रमुखी चैवं तन्वी विद्युल्लतेव सा ।

हिरण्यवर्णा सततं प्रसन्ना पद्मिनीव हि ॥

11

मृणालशुभ्रवसना मणिमौक्तिकमेखला ।

सिन्दूरबिन्दुतिलका सदा केलिकलानिधिः ॥

12

यत्तत्प्रकृतिसौन्दर्यं दृश्यते रसिकैर्जनैः ।

तत्सर्वं ददृशे तस्यां जगतां जननी खलु ॥

13

पतिसंयोगसुलभं वयो दृष्ट्वा मुनिस्तदा ।

चिन्तामवाप बहुधा वित्तनाशादिवाधनः ॥

14

स्वयंवरं कारयितुं हृदि निश्चित्य तापसः ।

दिव्यदेशस्थितान् विष्णूनाह्वयामास सादरम् ॥

15

श्रीरङ्गेशं वेङ्कटेशं वरदं सुन्दरं तथा ।

पद्मनाभं शार्ङ्गपाणिमन्यांश्च मुनिपुङ्गवः ॥

16

आजग्मुस्तत्र सर्वेऽपि देवा ब्रह्मशिवादयः ।

तत्राजगाम सहसा चतुर्व्यूहो जगत्पतिः ॥

17

सङ्कर्षणो वासुदेवः प्रद्युम्नः पद्मलोचनः ।

अनिरुद्धो महावीरः स्वयंवरमुपागमत् ॥

18

तदा वञ्जुलवल्ली सा सखीगणसमन्विता ।

मेधातिथिं नमस्कृत्य तदनुज्ञामवाप्य च ॥

19

करेण मालां सङ्गृह्य कर्णान्तायतलोचना ।

स्वयंवरसभां प्राप सर्वाभरणभूषिता ॥

20

सर्वेऽपि देवास्तां वीक्ष्य मुमुहुर्दिव्यसुन्दरीम् ।

साक्षाद्रमां यथापूर्वं क्षीराब्धिमथने तथा ॥

21

सर्वान् विलोक्य सा देवी दिव्यदेशपतीन् वरान् ।

क्षणं तस्थौ विस्मिता च ध्यायन्ती सदृशं वरम् ॥

22

तदैव गरुडारूढः श्रीनिवासो जगत्पतिः ।

पुराणपुरुषः पूर्णस्त्वाजगाम ससंभ्रमम् ॥

23

तं पूर्णं पुरुषं दृष्ट्वा प्रहृष्टहृदया रमा

धारयामास मालां तां तमेव वरमुत्तमम् ।

मेधातिथिर्मुनिश्चापि ददौ कन्यां यथाविधि ॥

24

ब्रह्मा पुरोहितो भूत्वा रुद्रेण च समन्वितः ।

वैवाहिकीं क्रियां सर्वां कारयामास सादरम् ॥

25

एवं वञ्जुलवल्ल्या सह श्रीनिवासः कृपानिधिः ।

मेधातिथेर्मुनेरग्रे तस्थौ मङ्गलविग्रहः ॥

26

तं दृष्ट्वा तापसः सोऽपि बाष्पपूरितलोचनः ।

तुष्टाव बद्धाञ्जलिपुटो मेधावी मुनिपुङ्गवः ॥

27

मेधातिथिरुवाच

अक्ष्णोः फलं प्राप्तमिदं मुकुन्द ।

कृपानिधे त्वत्कृपयैव नूनम्

सुरासुराणामपि योगिनां च ।

सुदुर्लभं तावकदर्शनं हि ॥

28

भक्त्यैव नूनं सुलभोऽसि लोके

मृदुस्वभावः करुणानिधिस्त्वम् ।

न कर्मणा नैव तपोबलेन

त्यागेन योगेन च नैव साध्यः ॥

29

नूनं हि सा भक्तिरुदेति नृणां

सत्सङ्गमात्रेण यदृच्छयैव ।

परस्परं त्वद्गुणवादशीलाः

सन्तो हि शान्ताः समभावनाश्च ॥

30

त्वन्नामसङ्कीर्तनमात्रशुद्धे

चित्ते विराजसि अनिशं सतां हि ।

एवं ह्यविज्ञाय तपः सुघोरं

कुर्वन्ति केचिदृढनिश्चयेन ॥

31

तेषामपि त्वं बहुदीर्घकाले

शुद्धात्मनां दृष्टिपथं च यासि ।

किन्तु स्वयं भासि सदा हृदब्जे

त्वामेव नाथं शरणं गतानाम् ॥

32

तस्मादहं त्वच्चरणाब्जमेव

श्रयामि संसारविमोचनार्थम् ।

न कामयेऽन्यत् पदमब्जनेत्र

स्वर्गं तथा नैव च पारमेष्ठ्यम् ॥

33

श्रीसद्गुरुरुवाच

इति संस्तुवतो देवो मुनेस्तस्य मृदुस्मितः ।

वरं दत्वा कृपासिन्धुः क्षेत्रेऽस्मिन् सुविराजति ॥

34

अस्मिन् क्षेत्रे श्रीनिवासं ये पश्यन्ति नराः कलौ ।

तेषां मनोरथो नूनं शीघ्रमेव हि सिद्ध्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे मञ्जुलापुरमाहात्म्यम् नाम सप्तदशोऽध्यायः ॥
Ch.16 Tṛtīya Bhāge Ch.18