Verses

देवबृन्दपुरमाहात्म्यम् Devabṛnda Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

सर्वे देवाः समागत्य विचारं चक्रिरे पुरा ।

कथं भवेन्माधवस्य सुलभं दर्शनं त्विति ॥

2

ब्रह्मा रुद्रश्च शक्रश्च वायुरग्निर्यमस्तथा ।

आश्विनावपि विश्वे च देवाः साध्या मरुद्गणाः ॥

3

सर्वेऽप्यत्र समागत्य देवदुर्लभमच्युतम् ।

द्रष्टुं सुखेन मार्गेण विचारं चक्रिरे सुराः ॥

4

देवा ऊचुः

आधिकारिकपीठस्था वयमच्युतनिर्मिताः ।

तथापि दर्शनं विष्णोरस्माकं दुर्लभं खलु ॥

5

वयं गन्तुमशक्ता हि तद्विष्णोः परमं पदम् ।

पश्यन्ति सूरयस्तत्र नित्यं विष्णुं सनातनम् ॥

6

शक्ता अपि वयं गन्तुं क्षीराब्धिं विष्णुमन्दिरम् ।

तत्र नैव हि पश्यामो यथेच्छं विष्णुमव्ययम् ॥

7

पश्यन्ति हृदयाकाशे योगिनस्तु जितेन्द्रियाः ।

अस्माकं तादृशी शक्तिरपि नास्ति कथञ्चन ॥

8

धन्या हि वानराः सर्वे धन्या गोपालबालकाः ।

तेषामपि परं ब्रह्म बभूव सुलभं खलु ॥

9

कोटिपुण्यवशेनैव स्थानं गत्वापि निर्जराः ।

विष्णुतत्त्वं न जानीमः किं नः स्वर्गजयेन च ॥

10

पुनः पुनः कथं विष्णुः सुखसेव्यो भवेदिह ।

अस्माकं श्रोतुकामानां वद त्वं कमलासन ॥

11

ब्रह्मोवाच

युगकोटिसहस्राणि विष्णुमाराध्य वै मया ।

पारमेष्ठ्यमवाप्तं हि ममापि स हि दुर्लभः ॥

12

लोके काम्यार्थिभक्तानां दर्शनं न ददाति सः ।

आत्मानं द्रष्टुकामानां प्रेमिणां सुलभो हि सः ॥

13

हिरण्यरावणादीनां संहारार्थमुपासितः ।

अस्माभिर्माधवः पूर्वं स्वार्थमुख्यैः पुनः पुनः ॥

14

भक्त्या निर्व्याजयैवात्र दर्शनार्थं श्रियः पतेः ।

वयं च पूजयिष्यामः सुलभं दर्शनं भवेत् ॥

15

रुद्र उवाच

हरिर्हि भगवानात्मा सर्वत्र व्याप्य तिष्ठति ।

पश्यताध्यात्मदृष्ट्यैव सर्वं विष्णुमयं जगत् ॥

16

इन्द्र उवाच

निराकारश्च साकारो देवो विष्णुः सनातनः ।

साकारं द्रष्टुमिच्छामः साक्षादेव त्रिलोचन ॥

17

वायुरुवाच

शङ्खचक्रधरं देवं मेघश्यामलविग्रहम् ।

पश्यन्ति ये जगन्नाथं धन्यास्ते भुवनत्रये ॥

18

अग्निरुवाच

अस्माकं तादृशी भक्तिर्नैव नैव हि नैव हि ।

कथं भवेन्मुकुन्दस्य दर्शनं योगिदुर्लभम् ॥

19

वरुण उवाच

सर्वान् कामान् परित्यज्य करुणासागरं हरिम् ।

एकान्तमनसैवाद्य प्रार्थयाम वयं सुराः ॥

20

अश्विनावूचतुः

दृढविश्वासहीनानां मायामोहितचेतसाम् ।

कुयोगिनामभक्तानां दुर्लभं विष्णुदर्शनम् ॥

21

यम उवाच

प्राणत्यागोऽपि कर्तव्यो माधवो नागतो यदि ।

तादृशो दृढविश्वासः कस्यास्ति सुरसत्तमाः ॥

22

विश्वेदेवा ऊचुः

प्राणत्यागेन किं तात प्राणान् सन्धारयन्निह ।

कुर्यादृढेन मनसा निष्कामेन महत्तपः ॥

23

मरुत ऊचुः

तपसा दुर्लभो विष्णुः स्वच्छन्दगतिरव्ययः ।

भक्त्यैव सुलभो नूनं भजध्वं हृदि माधवम् ॥

24

श्रीसद्गुरुरुवाच

एवमुक्ताः सुराः सर्वे पूजयामासुरच्युतम् ।

भक्त्या त्वनन्यया ह्यत्र द्रष्टुकामाः श्रियः पतिम् ॥

25

तदा सनातनो विष्णुः शङ्खचक्रगदाधरः ।

पीताम्बरश्चतुर्बाहुः श्रिया भूम्या च संयुतः ॥

26

श्रीवत्सकौस्तुभधरो वनमालाविभूषितः ।

दर्शनं देवबृन्दानां प्रददौ भक्तवत्सलः ॥

27

देवबृन्दं विलोक्याथ भगवान् पद्मलोचनः ।

बभाषे मधुरं वाक्यं दयार्द्रहृदयो हरिः ॥

28

श्रीभगवानुवाच

स्वागतं विबुधश्रेष्ठाः किमागमनकारणम् ।

युष्माकं देववर्याणां दुर्लभं दर्शनं हि मे ॥

29

लब्ध्वाऽपि परमं लोकं निपीयापि सुधां सुराः ।

असुरैः क्लेशितानां वो दुःखमेव पुनः पुनः ॥

30

देवा ऊचुः

सर्वदुःखप्रशमनं श्रीपते तव दर्शनम् ।

कामयामो वयं सर्वे तदेव हि मुहुर्मुहुः ॥

31

यदि दुःखममर्त्यानां मर्त्यानामुत किं पुनः ।

तस्मादत्रैव निवसन् दर्शनं देहि माधव ॥

32

त्वं तु मर्त्यैरमर्त्यैश्च पूजितो ह्यत्र माधव ।

सर्वं सांसारिकं दुःखं विनाशय कृपानिधे ॥

33

श्रीसद्गुरुरुवाच

देवबृन्देन गोविन्दः प्रार्थितो भगवान् हरिः ।

ददाति दर्शनं ह्यत्र सन्ततं भुवि माधवः ॥

34

देवबृन्दपुरे विष्णुं ये तु पश्यन्ति माधवम् ।

तेषां सांसारिकं दुःखं विनश्यति न संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे देवबृन्दपुरमाहात्म्यम् नाम द्वात्रिंशोऽध्यायः ॥
Ch.31 Tṛtīya Bhāge Ch.33