Verses

हरिपुरमाहात्म्यम् Hari Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

नागराजस्तक्षकस्तु नरं नारायणं प्रभुम् ।

उवास पूजयन् तत्र निर्माय नगरं महत् ॥

2

तस्मान्नागपुरं चेति नाम्ना ख्यातं धरातले ।

एतत्क्षेत्रं महापुण्यं नानातीर्थविराजितम् ॥

3

वेदो नाम महान् आसीद् धौम्यशिष्यो द्विजोत्तमः ।

अध्यापयामास वेदान् उतङ्कं शिष्यसत्तमम् ॥

4

समाप्तेऽध्ययने सोऽपि गुरुभार्याप्रचोदितः ।

पौष्यराजस्य आनेतुं कुण्डले गुरुदक्षिणाम् ।

सत्वरः सोऽपि राजपत्नीमुपागमत् ॥

5

ज्ञात्वा सत्पात्रमागतं पूजयित्वा ददौ च सा ।

उवाचेदं मधुरं वाक्यं हितार्थं ब्राह्मणस्य च ॥

6

एते हि कुण्डले दिव्ये हर्तुमिच्छति तक्षकः ।

उतङ्क सावधानस्त्वं प्रयाहि गुरुसन्निधिम् ॥

7

एवमुक्तो ब्राह्मणोऽपि स्मरन्नारायणं प्रभुम् ।

प्रतस्थे कुण्डले प्राप्य प्रहृष्टो गुरुसन्निधिम् ॥

8

पथि गोपालकः कश्चिद्वृषभेन समन्वितः ।

नृत्यन्नृत्यन्नुपायातः शिरोधृतघटो युवा ॥

9

क्षुत्पिपासाकुलो विप्रो नवनीतमयाचत ।

पश्चात् परिहासेन तमुवाच नटोत्तमः ॥

10

नट उवाच

अस्मिन् घटे पयो नास्ति नवनीतञ्च नास्ति मे ।

वृषभस्य शकृन्मूत्रं तदशान पिब आदरात् ॥

11

तवापि गुरुणा भुक्तमवशिष्टमिदं द्विज ।

गुरुप्रसादं भुङ्क्ष्व त्वं वरं श्रेयो यदीच्छसि ॥

12

श्रीसद्गुरुरुवाच

गुरुभक्त्या सुसंपन्नो भक्षयामास वै द्विजः ।

तदा जहार पथिकः कुण्डले ते यदृच्छया ॥

13

अनुदुद्राव तं विप्रः पथिकं कुण्डलेच्छया ।

बिलं विवेश पथिको मायावी मोहयन् द्विजम् ॥

14

ततो गोपालकं दृष्ट्वा घटनाट्यकरं द्विजः ।

पप्रच्छ कोऽयं पथिकः स कथं दृश्यतामिति ॥

15

गोपालक उवाच

नागानां पुरमेतद्धि मयमायाविनिर्मितम् ।

तक्षक नागराजस्तु वसत्यत्र महाबलः ॥

16

यदीच्छसि पुनः प्राप्तुं तद् हृते कुण्डले द्विज ।

अनेन हयवाहेन तत्र याहि सहायकः ॥

17

पुनस्तत्रागतः कश्चित्पथिको हयवाहनः ।

तेन सार्धं नागपुरीमुतङ्कः शीघ्रमाययौ ॥

18

सोऽपि धमयामास हयवाहप्रचोदितः ।

तन्मुखादागतो वह्निर्वह्नेर्धूमो महानभूत् ॥

19

व्याप्तं धूमेन नगरं श्वासरोधप्रपीडिताः ।

सन्त्यज्य भयभीताश्च काद्रवेयाः प्रदुद्रुवुः ॥

20

तदा पन्नगराजोऽपि दत्वा तस्मै च कुण्डले ।

पुनश्च सान्त्वयामास प्रेषयामास च द्विजम् ॥

21

आनीय कुण्डले भूयो हयवाहेन तोषितः ।

गत्वा शीघ्रं गुरुकुले गुरुपत्न्यै ददौ च ते ॥

22

गुरुं प्रणम्य विधिवत् स्वमूर्ध्नि विहिताञ्जलिः ।

पप्रच्छ अश्ववाहस्य गोपस्य रहस्यं शिष्यसत्तमः ॥

23

तदा वेदोऽपि भगवानुवाच स्मितभाषणः ।

भक्तिमात्मनि दृष्ट्वा तां हृष्टः शिष्यस्य सादरम् ॥

24

वेद उवाच

इन्द्रोपेन्द्रौ महात्मानौ त्वां रक्षितुमुपागतौ ।

गुरुभक्तिं धर्मनिष्ठां दृष्ट्वा प्रीतौ तव द्विज ॥

25

घटनाट्यकरं विद्धि साक्षाद्विष्णुं सनातनम् ।

धर्मं च वृषभं विद्धि शकृन्मूत्रं तथाऽमृतम् ॥

26

विनैवामृतपानेन नागराजस्य सन्निधिम् ।

न शक्नोषि पुरं गन्तुं विषव्याप्तं त्वमर्भक ॥

27

इन्द्रमेवाश्ववाहं तं विद्धि देवगणाधिपम् ।

तमश्वमग्निं जानीहि त्वां रक्षितुमुपस्थितम् ॥

28

गुरुभक्तिरतानां तु विनीतानां नृणां खलु ।

भवन्ति परमप्रीताः सर्वे देवाः सहायकाः ॥

29

त्वयैव पूजितोऽस्म्यद्य दत्ता च गुरुदक्षिणा ।

संप्राप्य साध्वीं कन्यां त्वं गार्हस्थ्यं धर्ममाचर ॥

30

गुरुणैवमनुज्ञातो गुरुभक्तो द्विजोत्तमः ।

पितुर्गृहं पुनः प्राप्य न्यवसद्धर्ममाचरन् ॥

31

इन्द्रोपेन्द्रौ महात्मानौ यत्र साक्षात्कृतौ ।

तदिदं परमं क्षेत्रं विषबाधविनाशनम् ॥

32

स्नात्वाऽमृतघटे तीर्थे घटनाट्यकरं हरिम् ।

श्रद्धया सेवमानानां विषबाधा विनश्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे हरिपुरमाहात्म्यम् नाम चत्वारिंशोऽध्यायः ॥
Ch.39 Tṛtīya Bhāge Ch.41