Verses

श्वेतारण्यमाहात्म्यम् Śvetāraṇya Māhātmyam

1

श्रीसद्गुरुरुवाच

धुन्धुमार इति ख्यातः पूर्वमासीन्महीपतिः ।

सूर्यवंशे सूर्य इव तेजस्वी च प्रतापवान् ॥

2

असुरं धुन्धुनामानं निहत्य समरे नृपः ।

विष्णुतेजः समाविष्टो देवानामभयं ददौ ॥

3

तस्य नासीत् पुत्रभाग्यं धुन्धुमारस्य भूपतेः ।

तेन दुःखविमूढोऽयं चकार सुमहत्तपः ॥

4

अचिरेणैव कालेन भगवत्कृपया ततः ।

सुषुवे पुत्ररत्नं च तत्पत्नी कुलवर्धनम् ॥

5

नाम्ना श्वेत इति ख्यातं पुत्रं तं बहुसुन्दरम् ।

लालयामास सततं भूपतिर्भार्यया सह ॥

6

अव्यक्तकलवाक्यैश्च मुग्धहासविलोकनैः ।

आनन्दयामास शिशुर्दम्पती तौ स्वकेलिभिः ॥

7

कदाचिदागतस्तत्र नारदो मुनिपुङ्गवः ।

धुन्धुमारो मुनिं भक्त्या पूजयामास सादरम् ॥

8

आसक्तं सततं पुत्रे राजानं वीक्ष्य नारदः ।

अवोचत् कृपया श्लक्ष्णं साधवो दीनवत्सलाः ॥

9

नारद उवाच

शृणु त्वमवधानेन धुन्धुमार महीपते ।

वक्ष्यामि मङ्गलायैव शीघ्रं तत्साधनं कुरु ॥

10

अष्टमे वयसि प्राप्ते तव पुत्रस्य भूपते ।

अपमृत्युर्भवेन्नूनं पूर्वकर्मवशाद्वत ॥

11

व्यर्थं करोषि वात्सल्यं तस्मिन् पुत्रे महीपते ।

अनित्यं जीवनं ज्ञात्वा वैराग्यं भज शान्तिदम् ॥

12

धुन्धुमार उवाच

हन्त दौर्भाग्यमेतन्मे पूर्वकर्मसमार्जितम् ।

पुत्रशोको भवेन्नूनं सत्यं हि वचनं तव ॥

13

एवं चिरेण कालेन तपसा बहुना मुने ।

जातं पुत्रमिमं प्रेष्ठं कथं दास्यामि मृत्यवे ॥

14

सुकुमारैरवयवैरव्यक्तकलभाषणैः ।

आनन्दयन्तं पितरौ कथं दास्यामि मृत्यवे ॥

15

मन्दस्मितमुखाम्भोजं मामकं कुलवर्धनम् ।

मन्दं मन्दं सञ्चरन्तं कथं दास्यामि मृत्यवे ॥

16

मृत्योस्त्वं परिहारं च ब्रूहि मे मुनिपुङ्गव ।

चरन्ति लोकक्षेमार्थं साधवो दीनवत्सलाः ॥

17

नारद उवाच

अस्तु ते मङ्गलं राजन् सकुटुम्बस्य सीदतः ।

दीर्घायुरस्तु ते पुत्रो भगवत्कृपया ध्रुवम् ॥

18

पलाशवनमागत्य कावेरीसङ्गमान्तिके ।

मृत्युञ्जयं पूजय त्वं त्र्यम्बकं करुणानिधिम् ॥

19

तस्यैव कृपया शम्भोर्विष्णौ क्षिप्रं प्रसीदति ।

विष्णौ प्रसन्ने लोकेशे दुर्लभं किं महीपते ॥

20

श्रीसद्गुरुरुवाच

इत्युक्तो नारदेनासौ पलाशवनमागतः ।

पूजयामास वै शम्भुं मृत्युञ्जयमुमापतिम् ॥

21

त्र्यम्बकं यजामि त्वां भक्तानां पुष्टिवर्धनम् ।

उर्वारुकमिव क्षिप्रं मृत्योर्मोचय बन्धनात् ॥

22

इति मन्त्रं जपन् राजा पुत्रार्थं स्वयमेव हि ।

तपश्चकार तत्रैव निवसन् सह भार्यया ॥

23

अष्टमे वयसि प्राप्ते चाब्दपूर्तिमहोत्सवे ।

आजगाम तदा मृत्युरारुह्य महिषं पुरः ॥

24

पाशहस्तं यमं दृष्ट्वा भीतं च तनयं निजम् ।

ज्वरतापमवाप्तं च प्रलपन्तं सुदुर्बलम् ॥

25

विलोक्य राजा निर्भीकः स्मरन् मृत्युञ्जयं प्रभुम् ।

पुत्रं च धारयामास ह्यपमृत्युनिवृत्तये ॥

26

अघोरो वीरभद्रस्तु सहसा शम्भुशासनात् ।

घोररूपेण संयुक्तः शूलमुद्यम्य चागतः ॥

27

मृत्युं रुरोध वेगेन भ्रामयञ्छूलमुत्तमम् ।

किन्तु मृत्युः समाधाय मनो वचनमब्रवीत् ॥

28

मृत्युरुवाच

इमे च द्यावापृथिवी तथेमे सप्त सागराः ।

वायुरापो रविश्चन्द्रो नक्षत्राणि ग्रहास्तथा ॥

29

ब्रह्मादयः सुराः सर्वे सिद्धगन्धर्वकिन्नराः ।

मुनयो योगिनश्चैव यक्षरक्षोगणास्तथा ॥

30

असुराश्च पिशाचाश्च मनुष्याः पशुपक्षिणः ।

तृणानि च लता वृक्षाः कीटाश्च विविधास्तथा ॥

31

एवं सर्वाणि भूतानि सन्ति यस्य वशे सदा ।

सर्वेषां जन्म मृत्युश्च यतो वै नियतं भवेत् ॥

32

तं कालमनिवार्यं त्वं जगज्जन्मादिकारकम् ।

अतिक्रान्तुं कः समर्थो वीरभद्र वदाशु मे ॥

33

काले सञ्जायते सस्यं काले सञ्जायते शिशुः ।

काले वर्षति पर्जन्यः काले फलति भूरुहः ॥

34

कालेऽभ्युदेति सूर्यश्च कालेऽस्तं याति वै तथा ।

काले सञ्जायते सर्वं काले नश्यति हि स्वयम् ॥

35

तं कालं पुरुषं दिव्यमनिवार्यस्वशासनम् ।

महाबलं महावीरं ज्ञात्वा धीरो न शोचति ॥

36

कालात्मानमवेहि त्वं वीरभद्र नमोस्तु ते ।

मम प्रभुः स एवेशस्तवापि जगतस्तथा ॥

37

श्रीसद्गुरुरुवाच

एवमुक्तो वीरभद्रः पुनरागत्य शङ्करम् ।

पप्रच्छ कालमाहात्म्यं मृत्युना सहितस्तथा ॥

38

तदा प्रसन्नो भगवान् त्र्यम्बकः परमीश्वरः ।

उवाच मधुरं वाक्यं वीरभद्रं महाबलम् ॥

39

रुद्र उवाच

कालात्मा सर्वसाक्षी च सर्वसंहारकस्तथा ।

देवो नारायणो नान्यः सर्वं यस्य वशे स्थितम् ॥

40

तेनैव सृजति ब्रह्मा तेनैवाहं हरामि च ।

मुख्यस्स्रष्टा च संहर्ता स एव न हि संशयः ॥

41

सर्वे लोका विनश्यन्ति महति प्रलये खलु ।

स एव शिष्यते विष्णुर्वासुदेवः सनातनः ॥

42

सर्वांल्लोकान् सुसंहृत्य प्रलये पद्मलोचनः ।

वटपत्रे योगनिद्रां करोति शिशुरूपधृत् ॥

43

अहं च सर्वसंहारं कृत्वा तदनुशासनात् ।

प्रविशामि तथा तस्य रूपमेव हि शाश्वतम् ॥

44

ब्रह्मा विनष्टे भुवने तस्मिन्नेव प्रलीयते ।

सर्वे च मुनयः सिद्धाः साध्याश्चैव तथा सुराः ॥

45

कालात्मानमतिक्रान्तुं कः समर्थो जगत्त्रये ।

तस्यैव नियतिं मृत्युः शिरसा वहति प्रभुः ॥

46

अपमृत्युविनाशार्थं धुन्धुमारात्मजस्य तु ।

पूजयाशु विष्णुमेव कालात्मानं महाबलम् ॥

47

श्रीसद्गुरुरुवाच

इत्युक्त्वा त्र्यम्बकः सद्यो वीरभद्रसमन्वितः ।

धुन्धुमाराश्रमं प्राप्य मृत्युना सह च प्रभुः ॥

48

तत्रैकं तीर्थमुत्पाद्य पवित्रं पापनाशनम् ।

श्रीनिवासं प्रतिष्ठाप्य तत्तीरे चन्द्रशेखरः ॥

49

पूजयामास भक्त्यैव धुन्धुमारसमन्वितः ।

तदा प्रसन्नो भगवानाविरासीञ्चतुर्भुजः ॥

50

प्रार्थयामास तं शम्भुर्बद्धाञ्जलिपुटः पुरः ।

श्रीनिवासं कृपासिन्धुं शङ्खचक्रगदाधरम् ॥

51

रुद्र उवाच

कालरूप नमस्तेस्तु कालात्मन् कालशासन ।

कालचक्रधरोऽसि त्वत्कलया संयुतोऽस्म्यहम् ॥

52

परमं निर्गुणं शान्तं प्रज्ञानं सर्वसाक्षिणम् ।

सर्वत्र व्याप्तमीशानं वासुदेवं नमाम्यहम् ॥

53

रजोगुणेन संयुक्तं लीलया निर्गुणं स्वयम् ।

देवं चतुर्मुखात्मानं प्रद्युम्नं त्वां नमाम्यहम् ॥

54

सात्विकं रक्षकं शश्वन्निर्गुणं नित्यमङ्गलम् ।

धरन्तं वैष्णवं रूपमनिरुद्धं नमाम्यहम् ॥

55

तमोगुणेन संयुक्तं सर्वसंहारकारकम् ।

प्रविष्टं रुद्ररूपे च वन्दे सङ्कर्षणं प्रभुम् ॥

56

सङ्कर्षणांशसंभूतं मामाश्रित्य त्रिलोचनम् ।

अपमृत्युं नाशयन्ति मर्त्या वेदानुशासनात् ॥

57

मम भक्तो धुन्धुमारः श्वेतोऽयं तस्य पुत्रकः ।

अपमृत्युं नाशय त्वं कृपया भक्तवत्सल ॥

58

तवाज्ञया चक्रधारिन् मृत्युर्धावति दूरतः ।

तस्य मृत्युभयं नास्ति तव तत्त्वं विजानतः ॥

59

श्रीभगवानुवाच

अङ्गीकरोमि ते वाक्यं चन्द्रचूड त्रिलोचन ।

आवयोर्भेदलेशोऽपि नास्त्येव न हि संशयः ॥

60

ममैव भक्तान् तान् वेद्मि भक्तिं कुर्वन्ति ये त्वयि ।

अपमृत्युं नाशयामि तेषां तव हृदि स्थितः ॥

61

शैवद्विषो वैष्णवाश्च शैवा ये वैष्णवद्विषः ।

मृत्योर्मुखे पतन्त्येव यावञ्चन्द्रदिवाकरम् ॥

62

आगच्छ धुन्धुमार त्वं सकृदाराध्य मामपि ।

अपमृत्युर्विनष्टस्ते पुत्रस्य शिवशासनात् ॥

63

मृत्युञ्जयस्य माहात्म्यं जानीहि मम चेदृशम् ।

अपमृत्युविनाशाय नान्यः पन्था हि विद्यते ॥

64

अद्यप्रभृति पुत्रेण श्वेतेनाधिष्ठितं वनम् ।

श्वेतारण्यमिति ख्यातिं प्राप्स्यति क्ष्मापते भुवि ॥

65

श्वेततीर्थमिदं विद्धि तत्तीरे निवसाम्यहम् ।

अपमृत्युं नाशयामि मर्त्यानां कृपया सदा ॥

66

दीर्घायुरस्तु ते पुत्रस्तेन याहि पुरं तव ।

स्वधर्मं भूतले राजन् परिपालय शाश्वतम् ॥

67

श्रीसद्गुरुरुवाच

इत्युक्तो धुन्धुमारश्च श्वेतेन सह भार्यया ।

अयोध्यां पुनरागत्य भुवनं पर्यपालयत् ॥

68

श्वेतारण्यस्य माहात्म्यं श्वेततीर्थस्य वै तथा ।

ये पठन्ति महाभागस्तेषां मृत्युभयं न हि ॥

69

त्र्यम्बकं वीरभद्रं श्वेतराजं श्रियः पतिम् ।

श्वेतारण्ये श्वेततीर्थमपमृत्युविनाशनम् ॥

70

ये स्मरन्ति जना भक्त्या सायं प्रातः समाहिताः ।

तेषां भाग्यवतां नूनं दीर्घमायुः प्रवर्धते ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे श्वेतारण्यमाहात्म्यम् नाम षट्त्रिंशोऽध्यायः ॥
Ch.35 Tṛtīya Bhāge Ch.37