Verses

नन्दनवनमाहात्म्यम् Nandana Vana Māhātmyam

1

श्रीसद्गुरुरुवाच

द्वारकायामधिवसन् कृष्णो जगदपालयत् ।

रुक्मिणी सत्यभामा च महिष्यौ तस्य वै हरेः ॥

2

रुक्मिणी शान्तभावा हि भामा तु ललितोद्धता ।

भामायामेव कृष्णस्य ववृधे प्रीतिरुत्तमा ॥

3

कदाचिन्नारदः कृष्णमुपागत्य सकौतुकम् ।

पारिजातं ददौ पुष्पं रुक्मिण्यै तद्ददौ हरिः ॥

4

आकर्ण्य नारदमुखाद्भामा कोपेन संयुता ।

रुरोध माधवं द्वारि कपाटं च बबन्ध सा ॥

5

सान्त्वयामास तां देवीं विविधैश्चाटुभाषणैः ।

पारिजातं प्रदास्यामि मा विषीदेति सादरम् ॥

6

एतस्मिन्नन्तरे कृष्णः प्रार्थितः पाकवैरिणा ।

प्राग्ज्योतिषपुरं प्राप नरकं हन्तुमिच्छया ॥

7

रथमारुह्य गोविन्दो दिव्यं गरुडलाञ्छनम् ।

सारथ्यं सत्यभामैव चकार लघु लीलया ॥

8

समरे नरकं हत्वा तेन रुद्धाश्च कन्यकाः ।

विमोचयामास विभुः कृपया भक्तवत्सलः ॥

9

तत्पुत्रं भगदत्तं च तस्मिन् राज्येऽभिषिच्य च ।

अदित्याः कुण्डलं दिव्यं छत्रं च मणिपर्वतम् ॥

10

नरकेण हृतं पूर्वं हरन् स्वर्गमवाप सः ।

इन्द्रायैव ददौ सर्वमदित्यै कुण्डलं तथा ॥

11

उवास तत्र भगवान् पुरुहूतेन पूजितः

आनर्चोपेन्द्रमिन्द्रोऽपि भ्रातृभावेन संयुतः ।

भामां तथैव पौलोमी प्रेमपूर्वं दिने दिने ॥

12

किन्तु सा न ददौ पुष्पं पारिजातं कदाचन ।

मानुषीणां नाधिकारः पारिजातस्य धारणे ॥

13

इत्यब्रवीच्छचीदेवी किञ्चिद्गर्वेण संयुता ।

तस्माद्दुःखमवापैव सत्यभामाऽपमानिता ॥

14

भामया चोदितः कृष्णो भामया सहितो बली ।

उत्पाट्य पारिजाताख्यं वृक्षं गन्तुमियेष सः ॥

15

ज्ञात्वा तयोस्तु सङ्कल्पमाजुहाव पतिं शची ।

न्यवारयद्धरिं शक्रः पौलोम्यैव प्रचोदितः ॥

16

तत्रेन्द्रोपेन्द्रयोर्युद्धं बभूव तुमुलं दिवि ।

पराजितो देवराजः शौरिणा चक्रपाणिना ॥

17

अदित्या सान्त्वितः कृष्णः प्रशान्तोऽभवदच्युतः ।

पारिजातं ददौ वृक्षं प्रेमपूर्वं पुरन्दरः ॥

18

पारिजातमुपादाय पत्न्या सह जनार्दनः ।

पुनश्च द्वारकां प्राप यदुवीरनिषेविताम् ॥

19

प्रियायाः सत्यभामाया भवनोपवने प्रभुः ।

निवेशयामास वृक्षं पारिजातं जगत्पतिः ॥

20

निहितत्वाद् गृहयोर्मध्ये रुक्मिणीसत्यभामयोः ।

पुष्पतस्तु कलहो मुहुर्मुहुरभूत्ततः ॥

21

नारदः सान्त्वयामास सत्यभामां महामुनिः ।

कृष्णमेव प्रियं दानं प्रतिगृह्य तु लीलया ॥

22

श्रीकृष्णं पुनरादातुं भूषणानि प्रदाय सा ।

न शशाक तदा देवी रुक्मिणीं शरणं ययौ ॥

23

तुलाभारे मुकुन्देन तुलसी तु समाऽभवत् ।

विवेद भैष्म्या भक्तिं च सत्यभामा विशेषतः ॥

24

समाधानं विधायैवं रुक्मिणीसत्यभामयोः ।

प्रतस्थे नारदो हृष्टस्तुलसीं परिगृह्य च ॥

25

पारिजातनिमित्तं हि कृतं युद्धं मया बत ।

अपराधः कृतो विष्णोरितीन्द्रो विषसाद सः ॥

26

तत्पापपरिहारार्थं द्राविडं देशमागतः ।

भूमौ च नन्दनं कृत्वा पूजयामास माधवम् ॥

27

मन्दारं पारिजातं च कल्पकं च तथाऽपरान् ।

देववृक्षान् स्थापयित्वा चक्रे नन्दवनं बृहत् ॥

28

तन्मध्ये मन्दिरं कृत्वा गोपालं सुन्दराकृतिम् ।

प्रतिष्ठाप्य सुरैः साकं पूजयामास सादरम् ॥

29

तुष्टाव केशवं कृष्णं शक्रो भक्त्या शचीपतिः ।

बद्धाञ्जलिपुटो दीनो विनीतो विष्णुवल्लभः ॥

30

इन्द्र उवाच

ममापराधं महनीयकीर्ते ।

क्षमस्व गोपीजनभव्यमूर्ते

अजानता ते भगवन्महिम्नः ।

पारं परं पाहि विभो प्रपन्नम् ॥

31

गोवर्धनस्यैव पुरा महाद्रेरुद्धारणेनाश्रितरक्षकत्वम् ।

दृष्ट्वा प्रभावं च पुनश्च शौरे ।

मयाऽपराधो विहितो जडेन ॥

32

मम स्वभावोऽयमनन्तमूर्ते

पुनः पुनर्दुर्गुणदुश्चरित्रम् ।

तव स्वभावः करुणैव कृष्ण

पुनीहि मां प्रेमकटाक्षदृष्ट्या ॥

33

दष्टस्तना हि प्रददाति माता

स्तन्यं स्वपुत्राय पुनः पुनश्च ।

तथा कृपामेव करोषि मयि

महापराधस्य मुहुश्च कर्त्रे ॥

34

बालस्तु मात्रा परिताडितोऽपि

पुनश्च मातुश्चरणं प्रियेण ।

गृह्णाति गोविन्द तथा स चाहं

भजे तवाङ्घ्रि परिशिक्षितोऽपि ॥

35

श्रीगुरुरुवाच

एवं स्तुतो द्वारकेशो गोपालो जगतां पतिः ।

सान्त्वयामास देवेन्द्रं मधुरस्मितभाषितैः ॥

36

अर्चावताररूपेण रुक्मिण्या सत्यभामया ।

अद्यापि दृश्यते तत्र नन्दनाख्ये वने प्रभुः ॥

37

तदिदं नन्दनवनं नन्दनन्दनमन्दिरम् ।

विलोक्य शक्रसाम्राज्यं भुवि प्राप्नोति मानवः ॥

38

कामधेनुं कल्पकं तमाश्रित्यापि च किं फलम् ।

केशवः करुणासिन्धुरर्थिनां कल्पकाधिकः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे नन्दनवनमाहात्म्यम् नाम पञ्चत्रिंशोऽध्यायः ॥
Ch.34 Tṛtīya Bhāge Ch.36