Verses

पार्थपुरमाहात्म्यम् Pārtha Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

अर्जुनस्तीर्थयात्रायां दक्षिणं देशमागतः ।

सञ्चचार महावीरः परिवारसमन्वितः ॥

2

तत्र तत्र च तीर्थेषु स्नानं दानं समाचरन् ।

क्षेत्रेषु देवरूपाणां कुर्वन् दर्शनमादरात् ॥

3

सत्सङ्गमाचरन्नेवं शृण्वन् पौराणिकं कथाम् ।

प्रशान्तहृदयो हृष्टश्चचार जगतीतले ॥

4

स एकदा महारण्ये तृष्णया पीडितो भृशम् ।

इतस्ततः सञ्चचार विचिन्वन् वारि शीतलम् ॥

5

ग्रीष्मतापेन सर्वत्र दग्धे तस्मिन् वनान्तरे ।

तटाकपल्वलादीनि शुष्काण्यासन् जलं विना ॥

6

पशुपक्षिगणाः सर्वे ग्रीष्मतापेन पीडिताः ।

वृक्षच्छायासु तिष्ठन्ति दृश्यते न तृणं क्वचित् ॥

7

तस्मिन् वने स कौन्तेयो माध्याह्ने सञ्चरन् भृशम् ।

तृष्णया पीडितः पार्श्वे न लेभे जलमुत्तमम् ॥

8

नितरां दुःखितः पार्थः परिवारसमन्वितः ।

निषसाद क्वचिद्दीनो विषसाद पिपासया ॥

9

तदा कश्चिद्बालकस्तु श्यामसुन्दरविग्रहः ।

पीताम्बरधरः श्रीमान् कञ्चकोष्णीषभूषितः ॥

10

लगुडं कलयन् हस्ते वादयन् मुरलीं मृदु ।

आगत्य पार्थं पप्रच्छ मधुरस्मितभाषणः ॥

11

बालक उवाच

अस्तु स्वागतं राजन् पूज्योऽसि मम सर्वदा ।

अतिथिः किल पूजार्हः को भवान् कुत आगतः ॥

12

पार्थ उवाच

पाण्डवेष्वर्जुनो नाम प्रख्यातोऽहं हि बालक ।

तीर्थयात्रां चरन्नस्मिन्नागतोऽहं वनान्तरे ॥

13

तृष्णया पीडितोऽस्म्यद्य न क्वचिल्लभ्यते जलम् ।

तस्मादत्रैवोपविश्य चिन्तयामि सुदुःखितः ॥

14

श्रीसद्गुरुरुवाच

इत्युक्तो बालकः सोऽपि बभाषे मधुरं वचः ।

हस्तेन लगुडं धृत्वा कलयन्नटनं तदा ॥

15

बालक उवाच

अहं तु गोपबालोऽस्मि चारयामि च गा वने ।

आगच्छ मा शुचो राजन् दर्शयामि जलं तव ॥

16

तत्पीत्वा परिवारेण खात्वा तत्र फलानि च ।

विश्रम्य वृक्षच्छायायां पुनर्यात्रां कुरु प्रभो ॥

17

श्रीसद्गुरुरुवाच

इत्युक्त्वा गोपबालश्च पार्थमानीय सादरम् ।

क्वचिद्गत्वा स्ववेत्रेण कुट्टनं विदधे भुवः ॥

18

वेत्रकुट्टनमात्रेण शीतलं पावनं पयः ।

उज्जगाम तदा पार्थः परमानन्दमाप च ॥

19

तत्र स्नात्वा पयः पीत्वा परिवारसमन्वितः ।

फलानि खात्वा विश्रान्तो वृक्षच्छायामुपागतः ॥

20

अन्तर्दधे बालकः स परमानन्दवर्धनः ।

विचिन्वन् बालकं पार्थः परमाश्चर्यमाप च ॥

21

निद्रां गते तत्र पार्थे तस्य स्वप्ने स बालकः ।

पुनश्च दर्शनं दत्वा बभाषे भक्तवत्सलः ॥

22

श्रीभगवानुवाच

जानीहि मां जगन्नाथं द्वारकानाथमच्युतम् ।

आगतं गोपबालस्य वेषेण कुरुनन्दन ॥

23

पिपासां ते शमयितुं पानीयं दातुमागतः ।

अहं ते परमं मित्रं ममापि त्वं न संशयः ॥

24

श्रीसद्गुरुरुवाच

उत्थाय सद्यः पार्थोऽपि कृष्णदर्शनकातरः ।

तं बालं मृगयामास तत्र तत्र वनान्तरे ॥

25

ददृशे तत्र कृष्णस्य मन्दिरं बहुसुन्दरम् ।

पूजयामास तं देवं पार्थो भक्तिमतां वरः ॥

26

गङ्गेति सा प्रोक्ता मुनिभिः सेविता सदा ।

अद्यापि दृश्यते ह्यत्र सर्वतापविनाशिनी ॥

27

कृष्णमाराध्य सानन्दं परमप्रीतमानसः ।

पार्थः प्रतस्थे यात्राम् परिवारसमन्वितः ॥

28

वेत्रगङ्गातटे कृष्णं कृपालुं पार्थसारथिम् ।

पश्यतामिह भक्तानां तापः पापं च नश्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे पार्थपुरमाहात्म्यम् नाम चतुस्त्रिंशोऽध्यायः ॥
Ch.33 Tṛtīya Bhāge Ch.35