Verses

आलीनगरमाहात्म्यम् Ālī Nagara Māhātmyam

1

श्रीसद्गुरुरुवाच

बिल्वारण्यमिदं पुण्यं सर्वमङ्गलदायकम् ।

यत्र लक्ष्म्या नृसिह्मोऽयं सुप्रसन्नो विराजते ॥

2

प्रह्लादो विष्णुमाराध्य निर्ममे तीर्थमुत्तमम् ।

आह्लादनकरं नृणाममृताप्लवपूरितम् ॥

3

पुरा नृसिह्मं भुवनैकभीकरं

विलोक्य देवाः पितरश्च सिद्धाः ।

यक्षाश्च दैत्या मरुतोऽपि रुद्राः

सर्वेऽपि भीताः परिदुद्रुवुर्हि ॥

4

ब्रह्मा च रुद्रश्च तथा सुरेशो

धृत्वाञ्जलिं मूर्ध्नि च तुष्टुवुस्तम् ।

हिरण्यसंहारकरं तमुग्रं

देवं समाधातुमहो न शेकुः ॥

5

संप्रेषयामासुरथ श्रियं च

शान्तस्वभावां जननीं जनानाम् ।

साऽपि स्वयं वीक्ष्य नृकेसरिं तं

भीतेव सद्योऽन्तरधान्मृगाक्षी ॥

6

भक्ताग्रगण्यो भगवत्समीपं

प्रह्लाद एवाभिजगाम हृष्टः ।

आनन्दबाष्पप्लुतपद्मनेत्रः

सान्तिके सिह्माशिशोः कथं भीः ॥

7

तं भक्तवर्यं भगवान् कृपालुः

प्रह्लादमारोप्य निजाङ्कपीठम् ।

संलालयामास तथा जनानां

ददौ सुराणामभयं नृसिह्मः ॥

8

भीतेव याता भुवनैकमाता

विहाय नाथं नरसिह्ममुग्रम् ।

बिल्वाटवीमाप सरोरुहाक्षी

बिल्वप्रिया बिल्वफलस्तनी सा ॥

9

आह्लादतीर्थे कमलेऽवतीर्णा

प्रह्लादपूज्या परमप्रशान्ता ।

नाम्ना प्रसिद्धाऽमृतवल्लिकेति

प्राप्तुं प्रियं सा विदधे तपश्च ॥

10

प्रशान्तरूपो भगवान्नृसिह्मः

कल्याणवेषं कलयन् कृपालुः ।

आरुह्य दिव्यं रथमाययौ ता-

मालिङ्गयामास सरोरुहाक्षीम् ॥

11

ततः प्रसन्ना भगवत्प्रसादात्

प्रशान्तचित्ता पतिमेव पद्मा ।

बद्धाञ्जलिर्बाष्पकलाऽऽकुलाक्षी

तुष्टाव देवाङ्कवरासनस्था ॥

12

श्रीदेव्युवाच

जितं जितं ते जगदेकबन्धो ।

त्वया नृसिह्मेन हिरण्यकशिपुः

नखैर्निकृत्यैव हि संहृतश्च ।

जगत्त्रयस्याप्यभयं च दत्तम् ॥

13

बिभेमि ते वीक्ष्य भयङ्करं त-

दुग्रं स्वरूपं च महाट्टहासम् ।

यद्वीक्ष्य देवाः पितरश्च सिद्धाः

प्रदुद्रुवुः सर्वत एव सर्वे ॥

14

प्रशान्तचित्तस्य तवापि नूनं

वात्सल्यमेवाकलयामि भक्ते ।

तथापि ते घोरमृगेन्द्रलीलां

द्रष्टुं न शक्नोमि कृपानिधिस्त्वम् ॥

15

अग्निश्च शीतः सलिलं स्थलं च

विषं सुधैवाभवद् आर्तिनाश ।

सर्वानुकूलं भुवनं हि तस्य

भक्तस्य तातः प्रतिकूल आसीत् ॥

16

तस्यानुकूल्यं च विधातुमेवं

नूनं समर्थेन च सर्वशक्ते ।

भक्तस्य तस्यैव पुरस्त्वयैवं

पिता हतो युक्तमहो किमेतत् ॥

17

त्वं भक्तवात्सल्यगुणप्रसिद्धः

क्षमानिधिर्नाथ कृपाम्बुराशिः ।

तथाऽप्यनालोच्य पिता निरस्तो

भक्तस्य लोकत्रयमङ्गलाय ॥

18

एकत्र भक्तो भुवनत्रयं त-

दन्यत्र विष्णो निजभक्तबन्धो ।

भक्तः प्रधानो भुवनं त्यज त्वं

भक्तः कृतोऽयं पितृहीन एव ॥

19

दैत्यं च तं सत्वगुणेन युक्तं

विधाय भक्तं भुवनं च देव ।

स्वयं च सन्तोषयितुं समर्थ-

स्त्वमेव किं घोरचरित्रमेवम् ॥

20

तस्मादहं क्रोधमवाप्य नाथ

क्वचिद्गता सात्विकशान्तभावा ।

क्षमस्व मां ते प्रियकिङ्करीं त्वां

विसृज्य यातामिह बिल्ववृक्षम् ॥

21

श्रीसद्गुरुरुवाच

तदा प्रसन्नो भगवान्नृसिह्मो ।

लक्ष्मीं निजाङ्के कलयन् बभाषे

संलालयंस्तां करवारिजेन ।

बिल्वस्तनीं बिल्वतरोर्निकाशे ॥

22

श्रीभगवानुवाच

शापो हि दत्तः सनकादिभिश्च ।

वैरेण जन्मत्रयनिर्णीतेन

मामाप्नुयादित्यत एव दैत्यो ।

मया हतः पद्मदलायताक्षि ॥

23

जानाति चैतन्मम भक्तमुख्य-

स्तस्मात्प्रशान्तः पुरतो ननाम ।

आरोप्य दोषं मयि कोपमास्थाय

वृथा प्रयाता कमले त्वमेव ॥

24

तथापि ते चेतसि भक्तबाले

वात्सल्यभावं सुविलोक्य हृष्टः ।

त्वामाकामो विपिने विचित्य

प्रियां समाधातुमिहागतोऽस्मि ॥

25

श्रीसद्गुरुरुवाच

एवं समाधाय सरोरुहाक्षी- ।

मङ्के नृसिंहो विनिवेश्य शान्तः

आसीत्तदा तं समुपेत्य देवाः ।

सम्पूजयामासुरनन्तमाद्यम् ॥

26

तदेतदालीनगरं पवित्र-

मधिष्ठितं श्रीपतिना श्रिया च ।

प्रवेशमात्रेण च यत्र नृणां

पापानि नश्यन्ति शुभानि सन्ति ॥

27

बिल्वारण्ये नृसिह्मं तं ये तु नित्यमुपासते ।

तेषां भवेन्मन्त्रसिद्धिः शीघ्रमेव फलप्रदा ॥

28

प्रह्लादवरदो विष्णुः प्रसन्नोऽत्र विराजते ।

पद्मया सहितो नित्यं बिल्वारण्ये जगत्पतिः ॥

29

तमाश्रित्य श्रीनृसिह्मं सर्वमङ्गलमाप्नुयात् ।

दुःखं नास्ति भयं नास्ति सत्यमेव वदाम्यहम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे आलीनगरमाहात्म्यम् नाम त्रयस्त्रिंशोऽध्यायः ॥
Ch.32 Tṛtīya Bhāge Ch.34