Verses

सुगन्धवनमाहात्म्यम् Sugandha Vana Māhātmyam

1

श्रीसद्गुरुरुवाच

बृहस्पतेर्देवगुरोः पत्नी तारेति विश्रुता ।

दिव्ययौवनसंयुक्ता जगन्मोहनसुन्दरी ॥

2

चन्द्रस्तस्यां मनश्चक्रे धर्मं जानन्नपि प्रभुः ।

तस्यां लग्नं मनः कर्तुं स्वाधीनं न शशाक सः ॥

3

स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा ।

असत्यं प्राणिहिंसा च महापापानि पञ्च हि ॥

4

महापातकयुक्तानां नूनं हि नरकं फलम् ।

एतज्जानन्नपि प्रीतिं गुरुपत्न्यां चकार सः ॥

5

गुरुपत्नी च तारा सा चन्द्रं वीक्ष्यातिसुन्दरम् ।

भ्रष्टा स्वधर्मात्स्वच्छन्दं चन्द्रं प्राप रहो निशि ॥

6

एवं दिनेषु यातेषु कामलालसयोर्मनाक् ।

ताराशशाङ्कयोर्नित्यं क्रीडतोर्विस्मृतं जगत् ॥

7

लज्जां च लोकनिन्दायां श्रद्धां शास्त्रेपि सर्वथा ।

कामो हरति मर्त्यानां मोहयन् हृदयं ध्रुवम् ॥

8

बृहस्पतिः स्वपत्नीं तां विचिन्वन् बहुदुःखितः ।

अन्ते ब्रह्मसभां गत्वा ब्रह्मणे न्यवेदयत् ॥

9

ब्रह्मापि चन्द्रमाहूय तर्जयित्वा जगत्पतिः ।

तारां विमोचयामास ददौ च गुरवे तथा ॥

10

अन्तर्वत्नीं च तां ज्ञात्वा कुपितोऽथ बृहस्पतिः ।

कस्माद्गर्भो धृतोऽयं मे वदेति प्राह लज्जिताम् ॥

11

भीता शनैरुवाचैव चन्द्राल्लोकमनोहरात् ।

धृतो गर्भोऽयमित्येवं सुषुवे सा बुधं शिशुम् ॥

12

पुत्रं दृष्ट्वा बुधं चन्द्रो जग्राह प्रीतिपूर्वकम् ।

गुरुः शशाप तं चन्द्रं क्षयरोगमवाप्नुहि ॥

13

तस्मात्क्षीणोऽभवच्चन्द्रो रोगेणैव दिने दिने ।

ततो मृत्युभयं गत्वा शरणं प्राप तं गुरुम् ॥

14

चन्द्र उवाच

भगवन्निजपापस्य फलमेतन्न संशयः ।

तथापि कृपया मह्यं परिहारं वद प्रभो ॥

15

जानतोऽपि महापापं गुरुदारैश्च सङ्गमे ।

रचितं बुद्धिमोहेन तत्क्षमस्व दयानिधे ॥

16

बृहस्पतिरुवाच

ज्ञानतोऽज्ञानतो वापि कृतं पापं सुदुःसहम् ।

सङ्गमः परदारैस्तु गुरुदारैस्तु किं पुनः ॥

17

अहं सौन्दर्यपूर्णोऽस्मि युवाऽस्मीति च गर्वितः ।

कृतवानसि मे पापमपराधं कलाधर ॥

18

नूनं भोक्तव्यमेवैतन्महापापफलं त्वया ।

प्रीतोऽहं त्वत्प्रणामेन परिहारं वदामि च ॥

19

सुगन्धवनमित्येव विश्रुतं क्षेत्रमुत्तमम् ।

वर्तते सह्यजातीरे सर्वदेवनमस्कृतम् ॥

20

तत्र विष्णुं समाराध्य देवदेवनमस्कृतम् ।

महापातकयुक्तोऽपि क्षयरोगाद्विमोक्ष्यसे ॥

21

तथापि मद्वचः सत्यं कर्तुं पक्षद्वयेऽपि च ।

प्राप्नुहि त्वं दुष्टबुद्धे क्षयं वृद्धिं पुनः पुनः ॥

22

श्रीसद्गुरुरुवाच

इत्युक्तः स मृगाङ्कोऽपि कावेरीतटमागतः ।

विष्णुमाराधयामास सुगन्धवनसंस्थितम् ॥

23

तपसा तस्य चन्द्रस्य सर्वपापहरो हरिः ।

तस्य दृष्टिपथं प्राप्य प्रददावभयं प्रभुः ॥

24

मन्दस्मितमुखाम्भोजं मेघश्यामलविग्रहम् ।

शङ्खचक्रधरं देवं शरणागतवत्सलम् ॥

25

श्रीवत्सवक्षसं श्रीशं श्रीमत्कौस्तुभकन्धरम् ।

साक्षाद्विलोक्य सानन्दं चन्द्रोऽपि शरणं गतः ॥

26

तमुवाच कृपासिन्धुः कृष्णः कमललोचनः ।

गुरुशापेन पापेन पीडितं शरणं गतम् ॥

27

श्रीभगवानुवाच

परदाराभिमर्शात्तु नान्यत्पापतरं महत् ।

तस्मात्पापादयं जातः क्षयरोगो न संशयः ॥

28

पश्चात्तापेन युक्तानां नृणां पापभयेन च ।

प्रायश्चित्तमिदं नूनं मम नामानुकीर्तनम् ॥

29

त्वं च पापाद्विमुक्तोऽसि शापाच्च गुरुवाक्यतः ।

सुगन्धवनमाहात्म्यादत्र मत्पूजनादपि ॥

30

श्रीसद्गुरुरुवाच

एवमुक्तो भगवता चन्द्रः पूर्णकलाधरः ।

दिवमाप प्रसन्नात्मा यथापूर्वं रराज सः ॥

31

अस्मिन् क्षेत्रे जगन्नाथं पश्यतां भक्तिपूर्वकम् ।

जनानामपि सर्वेषां क्षयरोगो विनश्यति ॥

32

महापातकयुक्तोऽपि क्षणं विष्णुं विलोक्य च ।

सर्वपापविमुक्तः स्यात् सुगन्धवनवासिनम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे सुगन्धवनमाहात्म्यम् नाम नवविंशोऽध्यायः ॥
Ch.28 Tṛtīya Bhāge Ch.30