Verses

श्रीमुष्णक्षेत्रमाहात्म्यम् Śrī Muṣṇa Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

पुण्डरीकपुरस्यास्य समीपे भुवि पावनम् ।

श्रीमुष्णाख्यं महाक्षेत्रं वर्तते वैष्णवोत्तमाः ॥

2

तस्य क्षेत्रस्य माहात्म्यं वक्ष्यामि परमं शुभम् ।

यत्र क्रीडति गोविन्दो वराहो भूमिनायकः ॥

3

प्रलयार्णवमग्ना सा धरित्री जननी नृणाम् ।

उद्धृता च वराहेण पप्रच्छ कृपया क्षमा ॥

4

भूदेव्युवाच

संसारसिन्धुमग्नानां कथमुद्धरणं भवेत् ।

उपायं वद मे स्वामिन् जीवानां करुणाकर ॥

5

श्रीभगवानुवाच

कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।

जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥

6

अन्तकालेऽपि मद्भक्तान् मरणासन्नमूर्च्छितान् ।

दर्शयन् मम रूपञ्च स्मारयन् मम नाम च ॥

7

ज्ञापयन् मम तत्त्वञ्च नयामि परमां गतिम् ।

अहमेवागत्य तेषामभयं प्रददामि च ॥

8

तत्र तत्र महाक्षेत्रे वसामि ननु मेदिनि ।

अर्चावताररूपेण नृणां नयनगोचरः ॥

9

आद्यं रङ्गमिति प्रोक्तं विमानं पापनाशनम् ।

श्रीमुष्णं वेङ्कटाद्रिं च शालग्रामं च नैमिषम् ॥

10

तोताद्रिं पुष्करं चैव नरनारयणाश्रमम् ।

अष्टौ मे मूर्तयः सन्ति स्वयंव्यक्ता महीतले ॥

11

ये पश्यन्ति जनास्तेषां मुक्तिरेव न संशयः ।

संसारदुःखमूढानां नराणां मोक्षदो ह्यहम् ॥

12

भूदेव्युवाच

स्वयंव्यक्तेषु सर्वेषु श्रेष्ठं क्षेत्रं किमुत्तमम् ।

कस्मिन् क्षेत्रे सुप्रसन्नो वरदोऽसि वदाच्युत ॥

13

श्रीभगवानुवाच

श्रीमुष्णाख्यं महाक्षेत्रं मम प्रीतिकरं परम् ।

त्वया श्रिया च संयुक्तस्तत्रैव निवसाम्यहम् ॥

14

प्रलयार्णवमग्नां त्वां मुष्णामि परमां श्रियम् ।

तस्माच्छ्रीमुष्णनाम्नेदं क्षेत्रं विख्यातमुत्तमम् ॥

15

प्रलयार्णवमग्नां त्वां हिरण्याक्षो जिहीर्षया ।

आगतस्तं निहत्यैव मुष्णामि त्वां श्रियं पराम् ॥

16

नित्यपुष्करिणीतीरे भूवराहो वसाम्यहम् ।

अश्वत्थमूले सततं प्रसन्नोऽस्मि वरानने ॥

17

यदृच्छयापि मे तत्र कृत्वा दर्शनमद्भुतम् ।

ममैव स्थानमायान्ति मुक्तसंसारवासनाः ॥

18

झिल्लिकावनमित्येतत्प्रसिद्धं भुवने महत् ।

तत्र श्वेतनदीतीरे वसामि वरदः कलौ ॥

19

नित्यं हि सुप्रसन्नोऽस्मि नित्यपुष्करिणीतटे ।

धृत्वा वराहरूपं च भक्ताभीष्टफलप्रदः ॥

20

एवं भगवतो वाक्यं श्रुत्वा सर्वसहा क्षमा ।

जीवानुद्धर्तुकामैव जीवानां च धराऽभवत् ॥

21

भागवता ऊचुः

झिल्लिकावनमित्येव प्रथा कथमभूद्गुरो ।

नाम्नाऽपि झिल्लिका का सा कथां तस्याः वदाद्य नः ॥

22

श्रीसद्गुरुरुवाच

हिरण्याक्षस्य पुत्री तु झिल्लिका नाम विश्रुता ।

तपश्चक्रे महाघोरमत्र श्वेतनदीतटे ॥

23

तस्यास्तु तपसा तुष्टो ब्रह्मा लोकपितामहः ।

कृपया दर्शनं दत्वा वरमिष्टं ददौ तथा ॥

24

पुत्रं ययाचे सा धीरं देवानां च भयङ्करम् ।

तथा ददौ विधिश्चापि दण्डकाख्यं सुतोत्तमम् ॥

25

दण्डको दण्डकारण्ये स्वच्छन्दं सञ्चरन् सदा ।

दयाविरहितो घोरो भक्षयामास वै मुनीन् ॥

26

बभूवुर्दुःखितास्तत्र मुनयः पीडिता भृशम् ।

शरण्यं शरणं प्रापुर्देवं विष्णुं सनातनम् ॥

27

निहत्य दण्डकं भूयो ब्राह्मणानां श्रियं ददौ ।

तदिदं दण्डकारण्ये श्रीमुष्णं क्षेत्रमुत्तमम् ॥

28

अथ विप्रास्तु वेदज्ञा वराहं द्रष्टुमिच्छया ।

यज्ञं चक्रुर्वैष्णवं ते नित्यपुष्करिणीतटे ॥

29

आविर्भूतस्तदा विष्णुः स्वयमेवातिसुन्दरः ।

वराहरूपो भगवान् भूमिं निर्भिद्य चिन्मयः ॥

30

ववृषुः पुष्पवर्षं च तुष्टुवुश्च तदा सुराः ।

मुनयः पूजयामासुर्भूवराहं सनातनम् ॥

31

श्रिया भूम्या च सहितं वराहं वरदं हरिम् ।

श्रीमुष्णक्षेत्रनिलयं दृष्ट्वा मर्त्यो न सीदति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे श्रीमुष्णक्षेत्रमाहात्म्यम् नाम षड्विंशोऽध्यायः ॥
Ch.25 Tṛtīya Bhāge Ch.27