Verses

पुण्डरीकपुरमाहात्म्यम् Puṇḍarīka Pura Māhātmyam

1

भागवता ऊचुः

पुण्डरीकपुरस्यापि माहात्म्यं वद सद्गुरो ।

पुण्डरीकमुनिः पूर्वं यत्र चक्रे महत्तपः ॥

2

श्रीसद्गुरुरुवाच

पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः ।

साक्षात्कर्तुमभिलषन् पुण्डरीकाक्षमच्युतम् ॥

3

नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम् ।

नारदश्चाब्रवीदेवं ब्रह्मणोक्तं महात्मना ॥

4

नारद उवाच

शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम् ।

अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसारजम् ॥

5

यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः ।

स एव सर्वभूतात्मा नर इत्यभिधीयते ॥

6

नराश्रितानि तत्त्वानि नाराणीति ततो विदुः ।

तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥

7

नारायणाज्जगत्सर्वं सर्गकाले प्रजायते ।

तस्मिन्नेव पुनस्तच्च प्रलये संप्रलीयते ॥

8

नारायणः परं ब्रह्म तत्त्वं नारायणः परम् ।

परादपि परश्चासौ तस्मान्नास्ति परात्परम् ॥

9

वासुदेवं तथा विष्णुमात्मानं च तथा विदुः ।

संज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंज्ञितः ॥

10

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥

11

तस्मात्त्वं गहनान् सर्वांस्त्यक्त्वा शास्त्रार्थविस्तरान् ।

अनन्यचेता ध्यायस्व नारायणममुं प्रभुम् ॥

12

मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः ।

सोऽपि सद्गतिमाप्नोति किं पुनस्तत्परायणः ॥

13

नमो नारायणायेति यो वेद ब्रह्म शाश्वतम् ।

अन्तकाले जपन्निति तद्विष्णोः परमं पदम् ॥

14

श्रवणान्मननाच्चैव गीतिस्तुत्यर्चनादिभिः ।

आराध्यं सर्वदा ब्रह्मपुरुषेण हितैषिणा ॥

15

लिप्यते न स पापेन नारायणपरायणः ।

पुनाति सकलं लोकं सहस्रांशुरिवोदितः ॥

16

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।

शार्ङ्गाराधनं हित्वा नैव यान्ति परां गतिम् ॥

17

जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः ।

तद्भक्तवत्सलं देवं समाराधय सुव्रत ॥

18

श्रीसद्गुरुरुवाच

नारदेनैवमुक्तस्तु स विप्रोऽभ्यर्चयद्धरिम् ।

स्वप्नेऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ॥

19

किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम् ।

तं दृष्ट्वा देवदेवेशं प्राणमत् संभ्रमान्वितः ॥

20

अथ कालेन महता तथा प्रत्यक्षतां गतः ।

संस्तुतः स्तुतिभिर्वेदैर्देवगन्धर्वकिन्नरैः ॥

21

अथ तेनैव भगवानात्मलोकमधोक्षजः ।

गतः संपूजितः सर्वैः स योगनिलयो हरिः ॥

22

तदिदं परमं क्षेत्रं पुण्डरीकपुराभिधम् ।

तीर्थं च पुण्डरीकाख्यं सर्वपापविनाशनम् ॥

23

इदं परममाख्यानं सर्वमङ्गलदायकम् ।

युधिष्ठिराय संप्रोक्तं भीष्मेणैव महात्मना ॥

24

हृत्पुण्डरीकमध्यस्थं पुण्डरीकाक्षमच्युतम् ।

पुण्डरीकः समाराध्य लेभे च परमं पदम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे पुण्डरीकपुरमाहात्म्यम् नाम पञ्चविंशोऽध्यायः ॥
Ch.24 Tṛtīya Bhāge Ch.26