Verses

बालव्याघ्रपुरमाहात्म्यम् Bālavyāghra Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

पुरा ज्ञानवतां श्रेष्ठो व्याघ्रपादो महामुनिः ।

तपश्चक्रे महाघोरं पतञ्जलिसमन्वितः ॥

2

शीर्णपर्णानिलाहारो ग्रीष्मे पञ्चाग्निमध्यतः ।

हेमन्ते हिममग्नश्च तपश्चक्रे महामुनिः ॥

3

पञ्चाक्षरी जपन्नित्यं शिवध्यानपरायणः ।

कर्तुमिच्छन् प्रदोषे तु शिवताण्डवदर्शनम् ॥

4

तयोर्भक्त्या प्रसन्नात्मा भगवान् परमेश्वरः ।

उवाच श्लक्ष्णया वाचा निजरूपमदर्शयन् ॥

5

रुद्र उवाच

व्याघ्रपाद महाभाग तीव्रेण तपसा तव ।

प्रीतोऽस्मि भक्तसुलभो वरं तुभ्यं ददामि च ॥

6

ममैव ताण्डवं दिव्यं द्रष्टुमिच्छसि चेत्पुरः ।

पुण्डरीकपुरं गच्छ पतञ्जलिसमन्वितः ॥

7

तत्रैव पूर्णिमायां तु पुष्येऽपि गुरुवासरे ।

द्रक्ष्यासि त्वं महाभाग सन्ध्यायां नटनं मम ॥

8

श्रीसद्गुरुरुवाच

इत्युक्तो व्याघ्रपादस्तु पतञ्जलिसमन्वितः ।

ईश्वराय नमस्कृत्य पुण्डरीकपुरं ययौ ॥

9

पुण्डरीकसरस्तीरे शयानं भुजगोपरि ।

पूजयित्वा जगन्नाथं पुण्डरीकाक्षमच्युतम् ॥

10

उवास तत्र नटनं द्रष्टुकामो महामुनिः ।

उमापतेः पशुपतेः पतञ्जलिसमन्वितः ॥

11

सन्ध्यायामागतस्तत्र महादेवस्त्रिलोचनः ।

जटाधरो नीलकण्ठो भस्मोद्धूलितविग्रहः ॥

12

शुद्धस्फटिकसङ्काशो भगवान् फणिभूषणः ।

व्याघ्रचर्माम्बरधरो व्यासादिमुनिसेवितः ॥

13

शूलपाणिः कपाली च कालकालो महेश्वरः ।

चकार ताण्डवं दिव्यं कालिकादेविसंयुतः ॥

14

मृदङ्गं वादयामास मधुरं नन्दिकेश्वरः ।

चण्डेशः कांस्यतालञ्च नारदो वल्लकीं तथा ॥

15

गन्धर्वाः किन्नराश्चैवं मुनयश्च सुरासुराः ।

सर्वे विलोक्य सानन्दं शशंसुः शिवताण्डवम् ॥

16

समाप्ते ताण्डवे शम्भोः प्रसादं प्राप्य ते पुनः ।

स्वस्थानं संययुः शीघ्रं स्मरन्तः शिवताण्डवम् ॥

17

व्याघ्रपादस्तु तं शम्भुमभ्यर्च्य विधिपूर्वकम् ।

प्रार्थयामास मे मुक्तिं देहीति गिरिशं प्रभुम् ॥

18

तदा गङ्गाधरो देवः कृपया मुनिपुङ्गवम् ।

उवाच विशदं वाक्यं सर्वशास्त्रार्थसम्मतम् ॥

19

रुद्र उवाच

आत्मज्ञानं विना योगिन् कोटिजन्मान्तरेष्वपि ।

मुक्तिर्न लभ्यते नूनं नृणां संसारिणामिह ॥

20

देवाश्च पितरः सिद्धा मुनयो योगिनस्तथा ।

आत्मज्ञानविहीनत्वाद्भ्राम्यन्ति भवसागरे ॥

21

सार्वभौमं नाकपृष्ठं पारमेष्ठ्यं च कर्मणा ।

प्राप्यते किन्तु मोक्षस्तु स्वरूपज्ञानमात्रतः ॥

22

संपादितं कर्मणा तु कर्माधीनं हि नश्वरम् ।

स्वरूपमात्मनो ज्ञात्वा शाश्वतं सुखमाप्नुयात् ॥

23

आत्मा न देहो न प्राणा न मनो बुद्धिरेव च ।

प्रज्ञानमात्ररूपो हि षड्विकारविवर्जितः ॥

24

स्वयंप्रकाशः सर्वत्र व्यापकस्तमवेहि माम् ।

नित्यमुक्तस्वभावं तत् स्वस्वरूपं महामुने ॥

25

शरीरं नश्वरं नूनं कृमिविड्भस्मसंज्ञितम् ।

सच्चिदानन्दरूपं तत् स्वरूपं शाश्वतं परम् ॥

26

तस्माच्छरीरं विस्मृत्य स्वरूपं चिन्मयं निजम् ।

ज्ञात्वैव सहसा मुक्तिः प्राप्यते मुनिपुङ्गव ॥

27

ईशानः सर्वविद्यानामहमेव न संशयः ।

मयैव ज्ञानमन्विच्छेन्मोक्षमिच्छेज्जनार्दनात् ॥

28

प्रवर्तयति संसारं विष्णुमाया दुरत्यया ।

तस्यैव कृपया नूनं त्यक्त्वा जीवं निवर्तते ॥

29

आवृतं मायया ज्ञानं मेघच्छन्नो यथा रविः ।

न शोभते तथा नूनं विदुषामपि तापस ॥

30

तस्मादाश्रित्य गोविन्दं जहि मायां दुरत्ययाम् ।

तदैव तव कैवल्यं जानीयास्त्वं करस्थितम् ॥

31

श्रीसद्गुरुरुवाच

इत्युक्तो व्याघ्रपादस्तु पतञ्जलिसमन्वितः ।

इतस्ततः सञ्चरंश्च ददर्श च तपोवनम् ॥

32

अनन्तसरसस्तीरे कण्वस्याप्याश्रमं तथा ।

तत्रैव पूजयामास देवं विष्णुं सनातनम् ॥

33

नित्यमष्टाङ्गयोगेन हृदये भावयन् हरिम् ।

उवास तत्र सानन्दं मुमुक्षुर्मुनिना सह ॥

34

तदैव भगवान् विष्णुः प्रददौ निदर्शनम् ।

बालरूपेण हिन्दोले चलन् चञ्चलवीक्षणः ॥

35

करपद्मेन सङ्गृह्य पादपद्मं च सुन्दरम् ।

निवेश्य मुखपद्मेऽपि शयानं शिशुरूपिणम् ॥

36

विलोक्य व्याघ्रपादस्तु प्रणम्य प्रेमपूर्वकम् ।

तुष्टाव बहुधा कृष्णं देवदेवं जनार्दनम् ॥

37

तस्यैव कृपया विष्णोर्माया तु त्रिगुणात्मिका ।

अचिरेणैव तत्याज मुनिं मोहनकारिणी ॥

38

संसारमोहे निखिले निवृत्ते मुनिपुङ्गवः ।

कैवल्यं प्राप सहसा स्वरूपज्ञानमात्रतः ॥

39

एतद्धि व्याघ्रपादस्य मुक्तिस्थानं सुपावनम् ।

बालव्याघ्रपुरं नाम प्रसिद्धं भुवनत्रये ॥

40

अत्र विष्णोर्दर्शनेन पूजनेन नृणामिह ।

संसारदुःखं निखिलं विनश्यति न संशयः ॥

41

कैवल्यं प्राप्यते नूनं नृणां संसारिणामिह ।

हरिदर्शनमात्रेण बालव्याघ्रपुरान्तरे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे बालव्याघ्रपुरमाहात्म्यम् नाम अध्यायः ॥
Ch.23 Tṛtīya Bhāge Ch.25