Verses

नागपुरमाहात्म्यम् Nāga Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

देवेन्द्रसारथिः पूर्वं मातलिस्तु महाबलः ।

गुणकेश्याः स्वकन्याया विचिन्वन् सदृशं वरम् ॥

2

इतस्ततः सञ्चरंश्च देवगन्धर्वकिन्नरान् ।

विचार्य नितरां श्रान्तः पुरीं भोगवतीं ययौ ॥

3

नागराजं वासुकिञ्च तत्पुत्रं सुमुखं तथा ।

विलोक्य परमप्रीतस्तं मेने सदृशं वरम् ॥

4

तदा भुजङ्गराजोऽपि दुःखितो वाक्यमब्रवीत् ।

अभ्यागतं मातलिं तं विलोक्य च सगद्गदम् ॥

5

वासुकिरुवाच

सत्यं ब्रवीमि मे वाक्यं शृणु त्वं देवसारथे ।

अल्पायुषं सुतं मन्ये पक्षिराजभयेन ॥

6

मम पुत्रं कामं निहन्तुं नित्यमेव सः।

बलवान् पक्षिराजस्तु दुर्बलस्तनयो मम ।

यथोचितं त्वमालोच्य कुरु बुद्धिमतां वर ॥

7

श्रीसद्गुरुरुवाच

एवमुक्तो मातलिश्च पुनर्गत्वा दिवं तथा ।

शक्राय सर्वं वृत्तान्तमुवाच बहुदुःखितः ॥

8

सुमुखायामृतं दातुं प्रार्थयामास मातलिः ।

नानुमेने सुरेन्द्रश्च सुधादानं कथञ्चन ॥

9

मामेव मन्दरे बद्ध्वा सुधां प्रापुः सुराः पुरा ।

तथापि न प्रयच्छन्ति मम पुत्राय वै सुधाम् ॥

10

इति दुःखमवापैष वासुकिर्भुजगाधिपः ।

त्यक्त्वा सर्वप्रयत्नं च नारदं शरणं ययौ ॥

11

नारदः सुमुखं गत्वा कृपया नागनन्दनम् ।

उवाच मधुरं वाक्यं तस्यायुर्वर्धयन्मुनिः ॥

12

नारद उवाच

नारायणं कृपासिन्धुं देवानाममृतप्रदम् ।

तं याहि शरणं विष्णुं शरणागतवत्सलम् ॥

13

आर्तानामाश्रयश्चैवमापन्नानां परा गतिः ।

दीनानां परमो बन्धुर्देवदेवो जनार्दनः ॥

14

तस्यैव वाहनं विद्धि पक्षिराजं महाबलम् ।

धर्ता हि सर्वजगतां विष्णुर्बलवतां वरः ॥

15

मङ्गलानां मङ्गलं तन्महतामपि तन्महत् ।

तत्त्वानामपि तत्त्वं तत् सत्यानां सत्यमेव तत् ॥

16

नारायणाख्यं ब्रह्मैव वेदवेद्यं सनातनम् ।

नान्यः पन्था विद्यते हि तदेव शरणं भज ॥

17

श्रीसद्गुरुरुवाच

एवमुक्तो नारदेन सुमुखो वासुकेः सुतः ।

पूर्वसागरतीरे तु चकार सुमहत्तपः ॥

18

श्रीमान् सुन्दरराजोऽपि शङ्खचक्रगदाधरः ।

आरुह्य गरुडं तत्र भगवानाययौ हरिः ॥

19

गरुडः सुमुखं दृष्ट्वा कुर्वन्तं सुमहत्तपः ।

तदैव कृपयाऽऽविष्टो बभूव खगनायकः ॥

20

तदैव गरुडं विष्णुरुवाच मधुरस्मितः ।

सान्त्वयन् सुमुखं नागं विनीतं विहिताञ्जलिम् ॥

21

श्रीभगवानुवाच

महाबलं वैनतेयं वेदात्मानं खगाधिपम् ।

स्वयं प्रमाणभूतं तं शरणं याहि पन्नग ॥

22

प्रमाता त्वं प्रमेयोऽहं प्रमाणं गरुडः स्वयम् ।

तं विना सर्वजीवानां दुर्लभं मम दर्शनम् ॥

23

प्रणम्य गरुडं पश्चात्कर्तव्यं मम दर्शनम् ।

तदैवाऽहं प्रसन्नोऽस्मि वरदोऽस्मि न संशयः ॥

24

नागराजस्तु शयनं गरुडो वाहनं मम ।

वाहनेनैव सर्वत्र सञ्चरामि जगत्त्रये ॥

25

तस्मात्त्वं गरुडं याहि शरणं मम वाहनम् ।

दीर्घमायुरवाप्य त्वं सुखं जीव भुजङ्गम ॥

26

गरुड त्वं प्रपन्नं तं भुजङ्गं पाहि सर्वदा ।

प्रद्वेषो नैव कर्तव्यः प्रपन्नेषु जनेषु हि ॥

27

प्रपन्नो रक्षितव्यो हि प्राणांस्त्यक्त्वापि दुःखितः ।

दोषः प्रपन्नसंत्यागे शास्त्रेषु प्रतिपादितः ॥

28

स एव मां प्रपद्यते मद्भक्तं यः प्रपद्यते ।

मद्भक्तभक्तं रक्षामि स्वयं सर्वत्र सर्वथा ॥

29

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुः सुमुखं शरणागतम् ।

पादाङ्गुष्ठेन चोद्धृत्य गरुडांसे न्यवेशयत् ॥

30

पादस्पर्शेन पूतं तं सुमुखं वैष्णवोत्तमम् ।

विलोक्य पक्षिराजोऽयमभयं प्रददौ स्वयम् ॥

31

तयोश्च सौहृदं ज्ञात्वा मातलिर्विष्णुभावितम् ।

स्वकन्यां गुणकेशीं तां प्रददौ प्रेमपूर्वकम् ॥

32

तदिदं परमं क्षेत्रं प्रथितं नागपट्टणम् ।

यस्मिन् सुन्दरराजोऽयं लक्ष्मीनाथो विराजते ॥

33

इमं सुन्दरराजेन्द्रमाश्रित्य सुमुखः पुरा ।

अवाप परमं सौख्यं दीर्घमायुश्च पन्नगः ॥

34

तेषां शत्रुभयं नास्ति तेषां मृत्युभयं न च ।

येषां हृदिस्थो भगवान् विष्णुः सुन्दरविग्रहः ॥

35

दृष्ट्वा सुन्दरराजेन्द्रं विष्णुं नागपुरस्थितम् ।

मुच्यते सर्वरोगेभ्यो मुच्यते विषबाधतः ॥

36

वधूं च लभते साध्वीं सदृशीं स्वकुलोचिताम् ।

दृष्ट्वा नागपुरे विष्णुं भुजगः सुमुखो यथा ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे नागपुरमाहात्म्यं नाम त्रयोविंशोऽध्यायः ॥
Ch.22 Tṛtīya Bhāge Ch.24