Verses

कण्वपुरमाहात्म्यम् Kaṇva Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

एकदा नारदं दृष्ट्वा कण्वो नाम महामुनिः ।

पप्रच्छ परया भक्त्या प्रणम्य विहिताञ्जलिः ॥

2

कण्व उवाच

मन्त्राणामुत्तमं मन्त्रं श्रीमदष्टाक्षरं स्मृतम् ।

भक्तिमुक्तिप्रदं नृणां जपतां पापनाशनम् ॥

3

यस्यैव जपमात्रेण भगवान् पुष्करेक्षणः ।

ददाति दर्शनं शीघ्रं देवानामपि दुर्लभम् ॥

4

अष्टाक्षरस्य मन्त्रस्य जपात् सिद्धिर्महामुने ।

कस्मिन् देशे शीघ्रमेव भवतीति वदाशु मे ॥

5

नारद उवाच

क्षेत्राणामुत्तमं क्षेत्रं कृष्णक्षेत्रमिति स्मृतम् ।

तीरे पूर्वसमुद्रस्य वर्तते मुनिपुङ्गव ॥

6

तत्र शौरिः कृपासिन्धुः सान्निध्यं कुरुते सदा ।

भक्तानां पूरयन् कामान् करुणासागरोऽच्युतः ॥

7

क्षेत्रं वनं पुरं सिन्धुर्नदी पुष्करिणी तथा ।

विमानं सप्त पुण्यानि यत्र देशः स दुर्लभः ॥

8

कृष्णारण्यमिति ख्यातं वनं परमपावनम् ।

कृष्णो महर्षिभिर्यत्र पूज्यते हि तपोधनैः ॥

9

कृष्णक्षेत्रमिदं पुण्यं वरिष्ठं भुवनत्रये ।

यत्र त्यक्त्वापि वैकुण्ठं मोदते शौरिरव्ययः ॥

10

इदं कृष्णपुरं दिव्यं वसुराजेन निर्मितम् ।

वसन्ति ब्राह्मणा यत्र स्वधर्मपरिपालकाः ॥

11

तीरे पूर्वसमुद्रस्य कृष्णारण्यमिदं शुभम् ।

वर्तते परमं पुण्यं शीतमारुतसेवितम् ॥

12

कावेरी च महापुण्या यत्र सङ्गममिच्छति ।

को नाश्रयेन्मर्त्यजन्मा कृष्णारण्यमिदं परम् ॥

13

नित्यपुष्करिणी तत्र राजते पद्मभूषिता ।

नित्यं वसन्ति सर्वाणि तीर्थानि हरिशासनात् ॥

14

उत्पलावर्तकं नाम विमानमतिसुन्दरम् ।

यस्य दर्शनमात्रेण वैकुण्ठं याति मानवः ॥

15

उत्पलावर्तके दिव्ये विमाने पुष्करेक्षणम् ।

शौरिराजमहं वन्दे सदा सर्वाङ्गसुन्दरम् ॥

16

अष्टाक्षरक्षेत्रमिदं मङ्गलानां च मङ्गलम् ।

आश्रित्य यो जपं कुर्यात्तस्य सिद्धिर्न संशयः ॥

17

कण्व उवाच

अहो नारद धन्योऽस्मि भवतो दर्शनादिह ।

कृष्णक्षेत्रस्य माहात्म्यं श्रुतं परमपावनम् ॥

18

अद्यैवात्र गमिष्यामि करिष्यामि तपो महत् ।

द्रक्ष्यामि शौरिं गोविन्दं शरणागतवत्सलम् ॥

19

श्रीसद्गुरुरुवाच

इत्युक्त्वा सहसा कण्वः सह शिष्यगणैस्तदा ।

प्रतस्थे स्वाश्रमाद्धृष्टः कृष्णारण्यमिदं शुभम् ॥

20

कृष्णारण्यमुपागत्य चकार सुमहत्तपः ।

अष्टाक्षरं महामन्त्रं जपन्नेव महामुनिः ॥

21

तच्छिष्याः मुनयः सर्वे नित्यं जपपरायणाः ।

पुरश्चरणतन्त्रज्ञाः पूजयामासुरच्युतम् ॥

22

एतस्मिन्नन्तरे दैत्यो विकटाक्ष इति श्रुतः ।

व्याघ्ररूपं धरन्नित्यं भक्षयामास तान्मुनीन् ॥

23

तदा कण्वो महायोगी शिष्याणां रक्षणाय हि ।

शौरिराजं कृपासिन्धुं प्रार्थयामास केशवम् ॥

24

तदा शौरिः कृपासिन्धुर्हयमारुह्य लीलया ।

मृगयार्थमुपागत्य तं दैत्यमवधीद्धरिः ॥

25

व्याघ्ररूपं महादैत्यं निहत्य भगवान् हरिः ।

ययाचे दाहशान्त्यर्थं गत्वा कण्वाश्रमं जलम् ॥

26

दर्शयामास तं व्याधं पिपासुं कृपया मुनिः ।

नित्यपुष्करिणीमग्रे निर्मलाम्बुनिषेविताम् ॥

27

कण्वेन सह तत्तीरं गत्वा व्याधोऽतिसुन्दरः ।

दर्शयामास रूपं स्वं शङ्खचक्रगदाधरम् ॥

28

नीलोत्पलदलश्यामं नीरजायतलोचनम् ।

निरवद्यं नीलकेशं निर्हेतुककृपानिधिम् ॥

29

पीताम्बरधरं देवं पीनचारुचतुर्भुजम् ।

प्रसन्नवदनं विष्णुं पञ्चायुधधरं हरिम् ॥

30

विलोक्य परया भक्त्या बाष्पसुस्निग्धलोचनः ।

तुष्टाव मुनिभिः सार्धं कण्वः कृष्णमुपागतम् ॥

31

कण्व उवाच

कृष्णाय वासुदेवाय शौरये शार्ङ्गधन्वने ।

शरणागतपालाय सर्वेशाय नमो नमः ॥

32

नमो नमश्चक्रपाणे शङ्खपाणे नमो नमः ।

नमो नमः पद्मपाणे गदापाणे नमो नमः ॥

33

त्वं यज्ञस्त्वं वषट्कारस्त्वं मन्त्राः प्रणवस्तथा ।

त्वमेव सर्वे देवाश्च त्वं कर्ता त्वं फलं तथा ॥

34

त्वमेव फलदाता च कर्ता कारयिता तथा ।

त्वां विना भुवनं सर्वं न कथञ्चन चेष्टते ॥

35

पापानां च शुभानां च कर्मणां फलदो भवान् ।

कर्मणो जडरूपत्वात् फलदत्वं न संभवेत् ॥

36

अपूर्वमिति यत्प्रोक्तं जडत्वात्तस्य च प्रभो ।

कल्पितव्यं हि तज्ज्ञानं सर्वज्ञो फलदो भवान् ॥

37

तवापि नैव वैषम्यं नैर्घृण्यं करुणानिधे ।

तत्तद्बुद्धिमुपाश्रित्य प्रचोदयसि कर्मणि ॥

38

पापेभ्यश्च निवृत्तिं च प्रवृत्तिं पुण्यकर्मसु ।

निवेदयसि शास्त्रेण कृपया स्वमुखेन हि ॥

39

तथापि बुद्धिमोहेन दृष्ट्वा पापकृतो नरान् ।

उद्धर्तुकामः कृपया सत्सङ्गं प्रददासि च ॥

40

शुद्धाः सत्सङ्गमात्रेण पश्चात्तापमुपागताः ।

पूयन्ते पापिनः सर्वे नामसङ्कीर्तनात्तव ॥

41

त्वत्पुण्यगाथाश्रवणकीर्तनादिभिरेव ते ।

त्वामेव शरणं गत्वा प्राप्नुवन्ति परां गतिम् ॥

42

संसारसागरे मग्नानुद्धर्तुं कृपया हरे ।

एवमर्चावतारेण दृश्यसे त्वं धरातले ॥

43

पुष्पचन्दननैवेद्यधूपदीपादिदानतः ।

सर्वपापविनिर्मुक्ताः प्राप्नुवन्ति परं सुखम् ॥

44

प्रसीद पुण्डरीकाक्ष प्रसीद पुरुषोत्तम ।

प्रसीद पद्मारमण प्रसीद परमेश्वर ॥

45

श्रीसद्गुरुरुवाच

इत्युक्त्वा परमं देवं प्रणम्य विधिपूर्वकम् ।

पूजयामास शौरिं तं कण्वः शिष्यगणैर्युतः ॥

46

पूजितो भगवान् शौरिः प्रसन्नवदनेक्षणः ।

बभाषे मधुरं वाक्यं कण्वं प्राञ्जलिमास्थितम् ॥

47

श्रीभगवानुवाच

पूर्वं वृत्रवधेनैव ब्रह्महत्यानिपीडितः ।

पुरन्दरो देवराजः क्षेत्रमेतदुपागतः ॥

48

अश्वमेधशतं चक्रे तस्माच्छतमखोऽभवत् ।

पुनरिन्द्रपदं प्राप ममैव कृपया मुने ॥

49

अस्मिन् क्षेत्रे महापुण्ये निवसन् कृपयान्वहम् ।

ददामि कामितानर्थान् भक्तानां न हि संशयः ॥

50

इदमेव वरं क्षेत्रं मम प्रीतिकरं महत् ।

ददामि दर्शनं दिव्यमष्टाक्षरजपादहम् ॥

51

श्रीसद्गुरुरुवाच

एवं तद्भगवद्वाक्यं श्रुत्वा कण्वो महामुनिः ।

तत्रैव न्यवसच्छिष्यैर्जपहोमपरायणः ॥

52

कृष्णक्षेत्रमिदं पुण्यं कृष्णसान्निध्यसंयुतम् ।

यस्मिन् प्रवेशमात्रेण मतिः कृष्णे प्रलीयते ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे कण्वपुरमाहात्म्यं नाम एकविंशोऽध्यायः ॥
Ch.20 Tṛtīya Bhāge Ch.22