Verses

कृष्णमङ्गाक्षेत्रमाहात्म्यम् Kṛṣṇamaṅgā Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

तस्मिन्नरण्ये महति नानावृक्षसमाकुले ।

पशुपक्षिगणाकीर्णे तापसाश्रममण्डले ॥

2

निवसन्नुटजे नित्यं भृगुर्विष्णुमनामयम् ।

पूजयामास सानन्दं द्वादशाक्षरविद्यया ॥

3

कदाचिच्चिन्तयामास हृदये मुनिपुङ्गवः ।

पादप्रहारं कृष्णस्य कृतं स्मृत्वा घृणाकुलः ॥

4

अहो बत महत्पापं कृतमज्ञानतो मया ।

विष्णोर्वक्षसि सा लक्ष्मीर्नित्यमस्त्यनपायिनी ॥

5

मम पादप्रहारेण तस्याः पीडा भवेन्ननु ।

सा माता सर्वलोकानां मया पापं महत्कृतम् ॥

6

इति चिन्तातुरो नित्यं निद्राहारविवर्जितः ।

पुनश्चकार योगीन्द्रः श्रियमुद्दिश्य वै तपः ॥

7

अथाचिरेण कालेन सा देवी जगदीश्वरी ।

विष्णुपत्नी विशालाक्षी सर्वाभरणभूषिता ॥

8

सहस्रदलपद्मे तु समुद्भूता वरानना ।

चतुर्भुजा पद्महस्ता वरदा चाभयप्रदा ॥

9

करुणापूर्णहृदया मन्दस्मितवरानना ।

वात्सल्यगुणसंपूर्णा मुग्धभावनिरीक्षणा ॥

10

दर्शनं प्रददौ देवी पुष्करिण्यां भृगोर्मुनेः ।

तदाप्रभृति तत्तीर्थं नाम्ना दर्शनमित्यभूत् ॥

11

देवीं दृष्ट्वा सुराः सर्वे किन्नराश्च महर्षयः ।

विद्याधराश्च गन्धर्वास्तुष्टुवुश्च पृथक् पृथक् ॥

12

ऐरावतकरानीतदेवगङ्गामृतेन च ।

अभिषेकं तदा चक्रुः सर्वे ब्रह्मर्षयो मुदा ॥

13

तदाऽभिषेकवल्लीति नाम प्राप हरिप्रिया ।

पारिजातप्रसूनैश्च पूजयामासुरादरात् ॥

14

भारती पार्वतीभ्यां च पार्श्वे वीजितचामरा ।

पादपीठं वहन्त्या च शचीदेव्या समन्विता ॥

15

अन्याभिर्देवनारीभिः कृतनानोपचारिका ।

विरेजे कमला देवी कमलाक्षमनोरमा ॥

16

तां दृष्ट्वा लोकजननीं भृगुर्भाग्यवतां वरः ।

तुष्टाव प्रेमबाष्पेण सुस्निग्धनयनाम्बुजः ॥

17

भृगुरुवाच

सुवर्णवर्णां हरिणीं सुवर्णरजतस्रजाम् ।

चन्द्रां हिरण्मयीं लक्ष्मीं जगतां जननीं भजे ॥

18

विष्णुवक्षःस्थले नित्यं स्थितामनपगामिनीम् ।

हिरण्यदात्रीं गोदात्रीमश्वदात्रीं नमाम्यहम् ॥

19

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।

श्रितवात्सल्यनिलयां श्रियं देवीं भजाम्यहम् ॥

20

हेमप्राकारगेहस्थां ज्वलन्तीं रत्नभूषणैः ।

नित्यतृप्तां तर्पयन्तीमार्द्रचित्तां नमाम्यहम् ॥

21

पद्मे स्थितां पद्मवर्णां पद्माक्षी पद्मसंभवाम् ।

पद्मनाभप्रियां पद्मां पद्महस्तां भजाम्यहम् ॥

22

उदारगुणसंपन्नां देवजुष्टां श्रियं रमाम् ।

दारिद्र्यनाशिनीं लक्ष्मी पद्मिनीं शरणं भजे ॥

23

आदित्यवर्णाममलामलक्ष्मीत्वविनाशिनीम् ।

बिल्ववृक्षप्रियां वन्दे देवीं बिल्वफलस्तनीम् ॥

24

ऋद्धिसिद्धिप्रदां नृणां क्षुत्पिपासानिवारिणीम् ।

कीर्तिदां कृष्णकान्तां च वन्दे रत्नमणिप्रदाम् ॥

25

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।

ईश्वरीं सर्वभूतानामाह्वये तामिह श्रियम् ॥

26

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।

चन्द्रां सूर्यां च तां वन्दे सुवर्णां हेममालिनीम् ॥

27

सरसिजनिलये सरोजहस्ते

धवलतरांशुकगन्धमाल्यशोभे ।

भगवति हरिवल्लभे मनोज्ञे

त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥

28

श्रीसद्गुरुरुवाच

एवं स्तुता जगन्माता भृगुणा कमलासना ।

हस्ताभ्यामभयं दत्वा बभाषे मधुरस्वना ॥

29

श्रीदेव्युवाच

महर्षे त्वं महाभाग मातरं जगतां हि माम् ।

मन्येऽहं मां च ते कन्यां त्वामेव पितरं मम ॥

30

पितुश्चरणसंस्पर्शात्कन्याया मङ्गलं खलु ।

त्यज पापभयं ब्रह्मन् पश्चात्तापं तथा मुने ॥

31

श्रीसद्गुरुरुवाच

इत्युक्त्वा सा जगन्माता भृगोः पुत्र्यभवत्तथा ।

कृष्णमङ्गेति नाम्ना तां लालयामास वै भृगुः ॥

32

पतिसंयोगसुलभं वयो दृष्ट्वा ततो भृगुः ।

चिन्तयामास गोविन्दं मुकुन्दं सदृशं वरम् ॥

33

तदाऽऽजगाम कृष्णोऽपि भगवान् भक्तवत्सलः ।

पार्षदैर्बन्धुभिः साकं ब्रह्मरुद्रादिभिः सुरैः ॥

34

जग्राह पाणिं भार्गव्याः शरणागतवत्सलः ।

तयोश्चक्रे मङ्गलानि भृगुरमरपूजितः ॥

35

कृष्णक्षेत्रे कृष्णदेवं कृष्णमङ्गासमन्वितम् ।

सकृद्दृष्ट्वापि कल्याणं सद्यः प्राप्नोति मानवः ॥

36

ईदृशं मङ्गलं क्षेत्रं नास्त्येव भुवनत्रये ।

यस्मिन् कल्याणवेषेण भाति कल्याणदेवता ॥

37

यस्याः कटाक्षलेशेन दरिद्रो धनदो भवेत् ।

तस्या एव हि कल्याण्याः क्षेत्रं कल्याणदायकम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे कृष्णमङ्गाक्षेत्रमाहात्म्यं नाम विंशोऽध्यायः ॥
Ch.19 Tṛtīya Bhāge Ch.21