Verses

सारक्षेत्रमाहात्म्यम् Sāra Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

गङ्गा च यमुना चैव कृष्णा गोदावरी तथा ।

सरस्वती च कावेरी सरयूस्ताम्रपर्णिका ॥

2

सर्वा नद्यः समागम्य कलहं चक्रिरे पुरा ।

स्वोत्कर्षं वक्तुकामास्ताः परस्परमसूयया ॥

3

विष्णुपादसमुद्भूता त्वहमेव न चापरा ।

तस्माच्छ्रेष्ठाहमस्मीति गङ्गादेवी जगाद ह ॥

4

ब्रह्माणं प्रष्टुकामास्ताः सत्यलोकमुपाययुः ।

विष्णुपादसमुद्भूतां गङ्गां श्रेष्ठामुवाच सः ॥

5

आकर्ण्य ब्रह्मवदनाद् गङ्गामाहात्म्यमद्भुतम् ।

निर्ययुस्ता नदीदेव्यस्त्यक्त्वाऽसूयां परस्परम् ॥

6

किन्तु क्रुद्धा सह्यकन्या नितरां दुःखिता विधिम् ।

पप्रच्छ प्राप्तुमुत्कर्षमुपायं परमेष्ठिनम् ॥

7

तदा तस्यां महानद्यां कृपया चतुराननः ।

उवाच मधुरं वाक्यं विष्णुध्यानपरायणः ॥

8

ब्रह्मोवाच

करोषि किं वृथा क्रोधं गङ्गायां त्वमसूयया ।

विष्णुपादसमुद्भूता गङ्गा श्रेष्ठा न संशयः ॥

9

सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ।

सर्वमन्त्रमयो नूनं प्रणवो नास्ति संशयः ॥

10

यदि त्वं प्राप्तुमुत्कर्षं गङ्गाया अपि वाञ्छसि ।

सारक्षेत्रमितो गत्वा तपः कुरु मरुद्दधे ॥

11

सारतीर्थतटे विष्णुः सारनाथ इति श्रुतः ।

सारलक्ष्म्या च संयुक्तः पुरे सारविमानके ॥

12

पञ्चसारमिदं क्षेत्रं सर्वपापविनाशनम् ।

भजतां सर्वसारत्वं ददाति स्वयमेव हि ॥

13

तस्मात्तत्र तपः कृत्वा सारनाथं समर्च्य च ।

तस्यैव कृपया नूनं नदीसारत्वमाप्नुहि ॥

14

श्रीसद्गुरुरुवाच

इत्युक्ता सह्यकन्या सा स्मरणात्पापनाशिनी ।

सारक्षेत्रं ततो गत्वा तपश्चक्रे मनस्विनी ॥

15

प्रसन्नो भगवान् विष्णुः शङ्खचक्रगदाधरः ।

वनमाली पद्मपाणिः पद्मायतविलोचनः ॥

16

पीताम्बरधरः श्रीमान् कौस्तुभामुक्तकन्धरः ।

मन्दस्मितमुखाम्भोजो मधुरस्निग्धभाषणः ॥

17

कालाम्भोदसमः कान्त्या कर्णलम्बितकुण्डलः ।

कावेरीं मधुरं प्राह करुणासिन्धुरच्युतः ॥

18

श्रीभगवानुवाच

किमिच्छसि वरारोहे किमर्थं च तपः कृतम् ।

ददामि वाञ्छितं सर्वं वद शीघ्रं सुलोचने ॥

19

कावेर्युवाच

त्वद्दर्शनात् कृपासिन्धो वरणीयं किमस्ति मे ।

तवैव दर्शनं प्राप्तं ब्रह्मादिसुरदुर्लभम् ॥

20

नदीनामपि सर्वासामुत्कर्षं प्राप्तुमिच्छया ।

तपः कृतं मया देव निदेशात्परमेष्ठिनः ॥

21

श्रीभगवानुवाच

विष्णुपादसमुद्भूता गङ्गा श्रेष्ठा न संशयः ।

तवाप्युत्कर्षमेवाहं वदामि शृणु बालिके ॥

22

मदीये तु महाक्षेत्रे सह्यामलकसंज्ञके ।

जातासि त्वं महापुण्ये कुम्भयोनिकमण्डलोः ॥

23

तत्रामलकरूपेण तिष्ठाम्यहमनिन्दिते ।

मत्पादतीर्थरूपेण भवसि त्वं प्रवाहिता ॥

24

श्रीरङ्गक्षेत्रमागत्य मम शेषाङ्गशायिनः ।

पादस्पर्शं प्रकुर्वन्ती गच्छसि त्वं हि सादरम् ॥

25

तस्मान्मत्पादसंबन्धं प्राप्तासि त्वमपीदृशम् ।

तस्माद्धि तव माहात्म्यं गङ्गायाः सदृशं शिवे ॥

26

मत्पादनखसंभूता जटाधरजटाधृता ।

उच्छिष्टभूता जह्नोस्तु भस्मस्पर्शेन दूषिता ॥

27

गङ्गा त्वदवरा नूनं तदुत्कृष्टा त्वमेव हि ।

कन्ये मा विषीद मत्प्रियासि न संशयः ॥

28

तस्मात्तवैव तीरे तु बहुक्षेत्रेषु सुन्दरि ।

आदिरङ्गे मध्यरङ्गे श्रीरङ्गे च कपिस्थले ॥

29

भूतपुर्यामादिपुर्यां कुम्भकोणपुरे तथा ।

बहुक्षेत्रेषु सानन्दं करोमि शयनं खलु ॥

30

ननु नास्तीदृशं भाग्यं गङ्गायाः सह्यकन्यके

तस्मात्त्वमेव श्रेष्ठासि सत्यं सत्यं वदाम्यहम् ।

त्वत्तीर्थस्नानमात्रेण मयि भक्तिर्भवेद्ध्रुवम् ॥

31

श्रीसद्गुरुरुवाच

एवं सा सान्त्विता देवी कावेरी तुष्टमानसा ।

तुष्टाव सारनाथं सा सारलक्ष्मीसमन्वितम् ॥

32

कावेर्युवाच

नमो नमः क्लेशविनाशनाय ।

नारायणायाखिललोकसाक्षिणे

नानाजगज्जन्मविधायकस्य ।

विधेरपि ते जन्मविधायकाय ॥

33

भूत्वाऽऽदिमत्स्यः प्रलयार्णवे यो

निहत्य दैत्यौ मधुकैटभाख्यौ ।

ररक्ष वेदान्निखिलान् परेश-

स्तस्मै नमः विश्वनियामकाय ॥

34

धरां समुद्धृत्य जले निमग्नां

दंष्ट्राग्रलग्नां सुविधाय भूयः ।

भूतानि सर्वाणि तया दधाति

तस्मै वराहाय नमो नमस्ते ॥

35

क्षीरार्णवे मन्थनकेलिलोलः

पृष्ठे वहन् मन्दरपर्वतं यः ।

ददौ सुरेभ्यश्च सुधां दयालु-

स्तमादिकूर्मं शरणं भजे त्वाम् ॥

36

प्रह्लादमिष्टं परिपातुकामो

ददार दैत्यं कटकृद्यथेरकाम् ।

स्तम्भेऽवतीर्णं जगतां शरण्यं

मायानृसिंहं शरणं भजे त्वाम् ॥

37

त्रैविक्रमं रूपमुपेत्य लोकान्

सौख्यदो भक्तस्य बलेस्तथा यः ।

द्वारे गदापाणिरिहापि तिष्ठ-

त्यानन्दकन्दं तमहं भजे त्वाम् ॥

38

संप्रार्थितः क्षत्रविनाशनाय

भूत्वा मुनिर्भार्गववंशसिन्धुः ।

आदाय घोरं परशुं क्रुधा य-

श्चिच्छेद तं भार्गवराममीडे ॥

39

इक्ष्वाकुवंशे त्ववतीर्य यो वै

कोदण्डपाणिर्भुवि सञ्चचार ।

सद्धर्मपालोऽप्यसतां च कालः

सतां पतिं तं शरणं भजे त्वाम् ॥

40

खलान् हलाग्रेण निहत्य लोके

कल्याणहेतुं कलयन् स्वधर्मम् ।

कृष्णेन सार्धं विजहार यो वै

भजाम्यहं तं बलभद्ररामम् ॥

41

बृन्दावने गोपवधूजनेन

विहृत्य गोचारणतत्परो यः ।

उवाच गीतां विजयाय भूयो

नमामि तं देवकिनन्दनं त्वाम् ॥

42

करेण धृत्वा करवालमुग्रं

निहत्य सर्वान् यवनान् कलौ यः ।

धर्मं युगान्ते भुवि पालयिष्य-

त्यानन्दमूर्तिं तमहं भजामि ॥

43

सशङ्खचक्रं सरसीरुहाक्षं

संसेव्यमानं मुनिभिः सुरैश्च ।

श्रिया समेतं च सतां शरण्यं

श्रीसारनाथं शरणं भजे त्वाम् ॥

44

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथः सारनाथः कृपानिधिः ।

वरं दत्वा च कावेर्ये सहसाऽन्तर्दधे प्रभुः ॥

45

अवताररूपेण सदा तिष्ठति केशवः ।

सारक्षेत्रे महापुण्ये कलावपि युगे हरिः ॥

46

सारक्षेत्रमिदं गत्वा सारनाथं श्रियः पतिम् ।

विलोक्य सारहीनोऽपि सर्वसारत्वमाप्नुयात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे सारक्षेत्रमाहात्म्यम् नाम अष्टादशोऽध्यायः ॥
Ch.17 Tṛtīya Bhāge Ch.19