Verses

नन्दिपुरमाहात्म्यम् Nandi Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

कैलासशिखरे रम्ये नित्यं सुरगणार्चिते ।

नानामृगगणाकीर्णे नानापक्षिसमाकुले ॥

2

मन्दाकिनीजलस्निग्धे महर्षिगणसेविते ।

शम्याकबिल्वमन्दारपाटलाशोकमण्डिते ॥

3

वटवृक्षस्य मूले तु व्याघ्रचर्मवसानम् ।

वीरासने समासीनं विश्वनाथं महेश्वरम् ॥

4

शुद्धस्फटिकसङ्काशं नागयज्ञोपवीतिनम् ।

जटाधरं चन्द्रमौलिं नीलकण्ठमुमापतिम् ॥

5

प्रणम्य मुनयः सर्वे पुरतो भक्तिपूर्वकम् ।

समासीनाः परं चक्रुर्ब्रह्मविद्याविचारणम् ॥

6

किं ब्रह्म किं महद्भूतं किं जगत्कारणं परम् ।

किमक्षरं गुणातीतमिति चर्चां च चक्रिरे ॥

7

तदा तत्रागतो व्यासः सर्वशास्त्रविशारदः ।

उवाच विशदं वाक्यं सदसि ब्रह्मवादिनाम् ॥

8

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।

वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम् ॥

9

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥

10

एवं स्वं भुजमुद्धृत्य कुर्वन्तं शपथं मुनिम् ।

विलोक्य नन्दिकेशस्तु स्तम्भयामास तद्भुजम् ॥

11

महेश्वरस्य पुरतो देवतान्तरशंसनम् ।

पापमित्याह नन्दीशः शिवभक्तिमतां वरः ॥

12

तदा महेश्वरः शम्भुः पिनाकी जगतां गुरुः ।

उवाच वृषभं क्रुद्धो विष्णुध्यानपरायणः ॥

13

महेश्वरः उवाच

नारायणः परं ब्रह्म श्रुतिवाक्यप्रमाणतः ।

व्यासो हि सत्यमेवाह तथैवाहं वदामि च ॥

14

हरिरेकः सदा ध्येयो मुनिभिर्मोक्षकाङ्क्षिभिः ।

ज्ञानवैराग्यसंयुक्तैः परमैकान्तिभिः प्रभुः ॥

15

एतत्तत्त्वमविज्ञाय त्वयैवं बालबुद्धिना ।

अपचारः कृतो नन्दिन् व्यासस्य ब्रह्मवादिनः ॥

16

अविनीतं शठं स्तब्धं नारायणपराङ्मुखम् ।

उत्सृजामि वृषेन्द्र त्वामितः शीघ्रं बहिर्व्रज ॥

17

श्रीसद्गुरुरुवाच

एवं वदन्तं गौरीशं विलोक्य भगवान्मुनिः ।

कृष्णद्वैपायनो व्यासः प्रोवाच मधुरं मृदु ॥

18

व्यासः उवाच

देवदेव महादेव त्रिलोचन जगद्गुरो ।

तवैव हृदयं विष्णुर्विष्णोश्च हृदयं भवान् ॥

19

युवयोर्भेदलेशोऽपि नास्त्येव परमार्थतः ।

एतत्तत्त्वं न जानन्ति शास्त्रार्थविमुखा नराः ॥

20

साक्षाद्धर्मस्वरूपोऽयं नन्दिकेशो महामतिः ।

त्वयि भक्त्यैव दृढया मयि पापं चकार ह ॥

21

क्षमस्व भगवन् शम्भो पापं ते वाहनस्य च ।

विधेहि शापान्मोक्षं च विनीतस्य विषीदतः ॥

22

श्रीसद्गुरुरुवाच

एवं व्यासस्य वाक्येन प्रसन्नहृदयः प्रभुः ।

चकार सान्त्वनं प्रेम्णा नन्दिनश्च महेश्वरः ॥

23

महेश्वरः उवाच

नन्दिकेश महाभाग मा विषीद महामते ।

व्यासवाक्यप्रसन्नस्य ममेदं वचनं शृणु ॥

24

इतः शीघ्रं भुवं गत्वा भक्त्या च श्रद्धया तथा ।

विष्णुपूजां विधाय त्वमस्मात्पापात् विशुद्ध्यसि ॥

25

अतःपरमिहागत्य यथापूर्वं ममापि च ।

कैलासशिखरे रम्ये कैङ्कर्यं कर्तुमर्हसि ॥

26

विष्णुं वा वैष्णवांश्चापि ये निन्दन्त्यविवेकिनः ।

मद्भक्ता अपि ते मूढा ममापि द्रोहिणो हि ते ॥

27

श्रीसद्गुरुरुवाच

एवमुक्तो नन्दिकेशो महेशेन पिनाकिना ।

मणिमुक्तानदीतीरे कुम्भकोणसमीपतः ।

भक्त्या श्रीनाथमाराध्य भेजे शम्भुपदं पुनः ॥

28

श्रीमन्नन्दिपुरं नाम क्षेत्रमेतत् सुविश्रुतम् ।

सर्वपापहरं भूमौ वैकुण्ठमिव शोभते ।

श्रीनाथं तत्र संसेव्य सर्वमङ्गलमाप्नुयात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे नन्दिपुरमाहात्म्यम् नाम पञ्चदशोऽध्यायः ॥
Ch.14 Tṛtīya Bhāge Ch.16