Verses

कुंभकोणमाहात्म्यम् Kuṃbhakoṇa Māhātmyam

1

श्रीसद्गुरुरुवाच

कदाचित् सूर्यदेवस्य क्रोधोऽजायत दुःसहः ।

अहमेवेश्वरः श्रेष्ठो देवानां च नृणामपि ॥

2

मत्तो हि कालनिर्देशः क्रियते मुनिभिः सदा ।

कालाधीनं जगत्सर्वं कालकारणमस्म्यहम् ॥

3

चन्द्रश्चाङ्गारकश्चापि बुधो देवगुरुस्तथा ।

शुक्रः शनैश्चरश्चापि सेवन्ते मां दिने दिने ॥

4

मामुद्दिश्य प्रतिदिनं मुनयस्तत्त्वदर्शिनः ।

अर्घ्यं दत्वाऽथ सावित्रीं जपन्ति श्रद्धया ननु ॥

5

मया विना जगदिदं तमोभूतं न संशयः ।

प्रवर्तयामि मनुजान् प्रातरुत्थाय कर्मसु ॥

6

तेषामपि प्रतिदिनं कर्मसाक्षी भवाम्यहम् ।

आरोग्यं मत्त एव स्यात्प्राणिनां भुवने ननु ॥

7

अभिमानिदेवताऽहं चक्षुषां प्राणिनामपि ।

मां विना प्राणिनः सर्वे नूनमन्धा भवन्ति हि ॥

8

अहं ब्रह्मा च विष्णुश्च रुद्रश्चापि महेश्वरः ।

अहमेव परं ब्रह्म सर्वे देवास्त्वहं तथा ॥

9

अज्ञानतो हि मां मूढाः सर्वलोकमहेश्वरम् ।

अवजानन्ति कुर्वन्तो मदग्रे दुष्कृतं बहु ॥

10

अस्मिन् कलौ महाघोरे ब्राह्मणास्त्वलसा भृशम् ।

नोपासते मां सन्ध्यायां निद्रया मोहिताशयाः ॥

11

क्षत्रिया नैव दृश्यन्ते धर्मभ्रष्टा नरा बत ।

अधर्मं वर्धयन्त्येव मूढाः सिंहासनं गताः ॥

12

लोभिनो वणिजः सर्वे न्याय्यविक्रयवर्जिताः ।

पीडयन्ति जनान्नित्यं द्रव्यसंपादने रताः ॥

13

शूद्राश्च नास्तिका भूत्वा देवब्राह्मणनिन्दकाः ।

भवन्ति स्म कलौ घोरे चातुर्वर्ण्यं समाकुलम् ॥

14

स्वर्णस्तेयं सुरापानमनृतं प्राणिहिंसनम् ।

कुर्वन्ति मनुजा नित्यं परदारैश्च सङ्गमम् ॥

15

स्वैरिण्यश्च स्त्रियः सर्वा धनसंपादनप्रियाः ।

तत्यजुः पतिसेवां च परपुरुषसेवया ॥

16

पैशाचवच्चरन्त्येते महापापवशेन हि ।

धनं धनं धनमिति सदा चिन्तापरायणाः ॥

17

क्वचित्सत्यमहिंसा वा दानं वा शौचमार्जवम् ।

यज्ञः पुण्यानि कर्माणि दृश्यन्ते नैव सांप्रतम् ॥

18

पाषण्डिनो जनाः सर्वे म्लेच्छवेषधरास्तथा ।

इतस्ततश्च दृश्यन्ते वैदिकाचारवर्जिताः ॥

19

वैदिकानपि निन्दन्ति वैष्णवांश्च विशेषतः ।

तस्मादहं जगत्सर्वं नाशयिष्यामि सांप्रतम् ॥

20

इति निश्चित्य भगवान् भास्करोऽयं महाद्युतिः

अक्षरेखां समुल्लङ्घ्य लोकान् सन्दग्धुमिच्छया ।

समीपमाययौ तूर्णं भूगोलस्य दहन् जनान् ॥

21

ऊष्मणा महता सर्वे बभूवुर्दुःखिता नराः

आतपेनैव महता दह्यमानं जगत्तदा ।

हाहाकारेण संयुक्तमरक्षकमभूत्तथा ॥

22

उदकं नैव ददृशे तटाकेषु नदीष्वपि ।

तृणं शुष्कमभूत्सर्वं पशवश्च मृतास्तथा ॥

23

पक्षिणश्च पतन्ति स्म पतङ्गेनैव पीडिताः ।

वृक्षाः सर्वेऽपि दग्धाः स्युः शुष्ककाष्ठैश्च संयुताः ॥

24

धान्यमन्नं क्वचिन्नास्ति क्षुत्पिपासासमाकुलाः ।

म्रियन्ते मनुजाः सर्वे हाहाकारसमन्विताः ॥

25

कोपं च सूर्यदेवस्य लोकस्यापीदृशीं स्थितिम् ।

आलोच्य मुनयः सर्वे हरिं शरणमाययुः ॥

26

मुनय ऊचुः

देवदेव कृपासिन्धो शार्ङ्गपाणे जगत्पते ।

भास्करेण तु सन्दग्धं भुवनं पालय प्रभो ॥

27

शमनस्यैव पितरं शमय त्वं श्रियः पते ।

उल्लङ्घ्य समयं लोकं सर्वं सन्दग्धुमिच्छति ॥

28

श्रीसद्गुरुरुवाच

प्रार्थितो विष्णुः शार्ङ्गपाणिर्जगत्पतिः ।

चक्रराजं प्राहिणोद्वै सूर्यस्य पुरतः प्रभुः ॥

29

चक्रस्य तेजसा श्रान्तं तत्तेजो दुःसहं रवेः ।

शान्तक्रोधो भास्करोऽपि चक्रपाणिमुवाच ह ॥

30

सूर्य उवाच

अपराधं क्षमस्वेमं चक्रपाणे जगत्पते ।

तव चक्रेण शान्तं मे तेजो लोके सुदुःसहम् ॥

31

जनान् वीक्ष्य कलौ घोरे सत्यधर्मविवर्जितान् ।

क्रुद्धोऽहं सर्वनाशाय सङ्कल्पं कृतवानिह ॥

32

श्रीभगवानुवाच

क्षमैव परमो धर्मः क्षमेव परमं तपः ।

क्षमैव परमं तेजः क्षमेव परमं धनम् ॥

33

अस्माकमपि देवानां भूदेवानां च भास्कर ।

क्षमैव भूषणं नूनं क्षमामेव हि धारयेत् ॥

34

मूढा हि सर्वे मनुजाः कलावस्मिन् विशेषतः ।

तस्मादेषु क्षमा चैवं कर्तव्या करुणा तथा ॥

35

सूर्य उवाच

एवं चेत्पापिनामेषां प्रायश्चित्तं वद प्रभो ।

अन्यथा यातनामेव प्राप्नुवन्ति न संशयः ॥

36

श्रीभगवानुवाच

संक्रान्तिपुण्यकाले त्वय्युत्तरायणे माघे ।

कावेरीसलिले स्नात्वा कुम्भकोणस्थितं च माम् ॥

37

ये पश्यन्ति जना भक्त्या तेषामस्मि वरप्रदः ।

नश्यन्ति सर्वपापानि लभ्यन्ते मङ्गलानि च ॥

38

मन्नामकीर्तनं नृणां सर्वधर्मोज्झिते कलौ ।

सर्वपापक्षयकरं सहसा मुक्तिदायकम् ॥

39

शार्ङ्गपाणे जगन्नाथ शङ्खचक्रगदाधर ।

इतीरयन्ति ये नित्यं न हि तान् बाधते यमः ॥

40

न देशकालनियमो न शौचनियमस्तथा ।

सदा सर्वत्र सर्वैश्च कर्तव्यं नामकीर्तनम् ॥

41

आलयेषु गृहेष्वेवं मठेषु च सभासु च ।

नदीषु सर्वत्र कुर्यान्मन्नामकीर्तनम् ॥

42

सन्त्यज्य जातिभेदं च सर्वैरपि जनैः सदा ।

श्रद्धाऽश्रद्धया वापि कर्तव्यं नामकीर्तनम् ॥

43

नारायण हरे राम कृष्णेति मम कीर्तनात् ।

विनङ्क्ष्यति कलेर्दोषो धर्मवृद्धिश्च जायते ॥

44

धर्मसंरक्षणायैवमुपायो नान्यथा वै ।

कारयिष्यामि लोकेस्मिन् सर्वत्र मम कीर्तनम् ॥

45

तस्मात्कुरु प्रसादं त्वं प्रशान्तकिरणो भव ।

भविष्यन्ति च निष्पापा जना मन्नामकीर्तनात् ॥

46

श्रीसद्गुरुरुवाच

इत्युक्तः पद्मबन्धुश्च जगद्बन्धुर्दिवाकरः ।

अभूत् प्रशान्तः सहसा सान्त्वितः शार्ङ्गपाणिना ॥

47

यो नरः कुम्भकोणेऽस्मिन् क्षणार्धमपि तिष्ठति ।

करस्थं तस्य कैवल्यं किमुतान्या विभूतयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे कुम्भकोणमाहात्म्यम् नाम त्रयोदशोऽध्यायः ॥
Ch.12 Tṛtīya Bhāge Ch.14