Verses

भास्करक्षेत्रमाहात्म्यम् Bhāskara Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

कदाचिद्युगपर्याये लये नैमित्तिके यथा ।

अभूत् सर्वत्र सलिलं ददृशे सागरो यथा ॥

2

तदा सर्वेऽपि मुनयः स्थातुं तत्प्रलयोदके ।

अलब्धदेशाः संप्रापुश्चिन्तां श्रान्ताश्च दुःखिताः ॥

3

उन्नतस्थानमिच्छन्तः कुम्भमेकं महाजले ।

निधाय ददृशुः सर्वे तत्प्राप्तिस्थानमादरात् ॥

4

देशं कमपि संप्राप्य कुम्भस्तस्थौ यथा तथा ।

तं देशं सहसा प्रापुर्मुनयो मुदिता भृशम् ॥

5

उन्नतं स्थानमासाद्य शिवपूजारताश्च ते ।

निर्माय सैकतं लिङ्गं पूजां चक्रुर्यथाविधि ॥

6

आदिकुम्भेश्वरो नाम महादेवो महेश्वरः

कुम्भं गते सवितरि पूर्णिमायां मुनीश्वरान् ।

प्रलये पालयामास पार्वत्या च समन्वितः ॥

7

जगतो मङ्गलं कर्तुं मग्नस्य प्रलयोदके ।

भक्त्यैव मुनयः सर्वे प्रार्थयामासुरम्बिकाम् ॥

8

अम्बिकायाः प्रसादेन प्रशान्ते प्रलये पुनः ।

जगतो मङ्गलं प्राप्तं ततः सा मङ्गलाम्बिका ॥

9

शक्तिपीठे प्रतिष्ठाप्य मुनयो मङ्गलाम्बिकाम् ।

तुष्टुवुर्मुनयः सर्वे कुम्भेश्वरसमन्विताम् ॥

10

मुनय ऊचुः

नमस्ते लोकजननि दाक्षायणि नमोऽस्तु ते ।

नमस्ते गौरि कल्याणि शैलजाते नमोऽस्तु ते ॥

11

शिवः शक्त्यैव संयुक्तो जगतो भवतीश्वरः ।

विहाय त्वामीश्वरोऽपि ह्यशक्तो भवतीश्वरि ॥

12

आब्रह्मजीवकटेषु या शक्तिर्दृश्यते परा ।

सा त्वं शङ्करि जानीमस्तव वैभवमीदृशम् ॥

13

ब्राह्मीं माहेश्वरीं चैव वैष्णवीं त्वां भजामहे ।

वाराहीं नारसिंहीं च माहेन्द्रीं त्वां परां शिवाम् ॥

14

वैनायकीं च कौमारीं सर्वदेवात्मिकां तथा ।

नमामः परमां शक्तिं महिषासुरमर्दिनीम् ॥

15

शङ्खचक्रगदाखङ्गशूलतोमरधारिणि ।

नमामः दुर्गां देवीं त्वामस्माकमभयप्रदाम् ॥

16

योगपीठस्थिते देवि योगशक्तिस्वरूपिणि ।

अस्माकं सर्वसिद्धीश्च साधय त्वं महेश्वरि ॥

17

सर्वमङ्गलरूपा त्वं सर्वमङ्गलदायिनि ।

ततो लोके च वेदे च नाम्ना त्वं सर्वमङ्गला ॥

18

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥

19

श्रीसद्गुरुरुवाच

एवमभ्यर्च्य मुनयो देवीं तां सर्वमङ्गलाम् ।

तत्रैव चक्रिरे वासं कावेरीतटकानने ॥

20

आदिकुम्भेश्वरं शम्भुमम्बिकां सर्वमङ्गलाम् ।

पश्यतां कुम्भकोणेऽस्मिन् जायते सर्वमङ्गलम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे भास्करक्षेत्रमाहात्म्यम् नाम एकादशोऽध्यायः ॥
Ch.10 Tṛtīya Bhāge Ch.12