Verses

कपिस्थलमाहात्म्यम् Kapi Sthala Māhātmyam

1

श्रीसद्गुरुरुवाच

पुरा ऋक्षराजा नाम कपिरासीन्महाबलः ।

तत्पुत्रौ वालिसुग्रीवौ किष्किन्धायां किलोषतुः ॥

2

तौ भ्रातरौ महावीरावन्योन्यं प्रेमतत्परौ ।

ररक्षतुः कपीन् सर्वान्महाबलपराक्रमौ ॥

3

मायावी दुन्दुभिश्चेति दानवौ च महाबलौ ।

आकर्ण्य वालिवीर्यं तौ युद्धं कर्तुमुपागतौ ॥

4

आगतौ वालिसुग्रीवौ दृष्ट्वा भीतस्तु दानवः ।

दुद्राव किल मायावी विवेश च गिरेर्गुहाम् ॥

5

अनुदुद्राव तं वाली युद्धं कर्तुमनाः क्रुधा ।

निवेश्य द्वारि सुग्रीवं तां गुहां प्रविवेश च ॥

6

निहतो वालिना दैत्यो युद्धे मासात्परं श्रमात् ।

रुधिरं प्रास्रवत्तस्य गुहाद्वाराद्बहिस्तदा ॥

7

तद् दृष्ट्वा सहसा भीतः सुग्रीवो वालिनं हतम् ।

मत्वा दैत्यभयात् सद्यः पिदधे शिलया गुहाम् ॥

8

आगतं दुःखितं तूष्णीं स्थितं वीक्ष्य प्लवङ्गमाः ।

वालिनं निहतं मत्वा सुग्रीवं चक्रिरे नृपम् ॥

9

मायाविनं निहत्याथ वाली च पुनराययौ

तं वीक्ष्य भ्रातरं हृष्टो मृतं पुनरिवागतम् ।

ननाम भक्त्या सुग्रीवः स्वापराधं क्षमापयन् ॥

10

किन्तु वाली तदा क्रुद्धः सुग्रीवं चापि सोदरम् ।

विद्रावयामास सद्यस्तद्भार्यां च जहार सः ॥

11

ऋश्यमूकगुहां गत्वा सान्त्वितो वायुसूनुना ।

उवास दीनः सुग्रीवो हृतदारधनालयः ॥

12

कारयामास सख्यं च राघवेण महात्मना ।

हनुमान् करुणासिन्धुरागतेन यदृच्छया ॥

13

उवाच स्वकथां तस्मै रामाय रविनन्दनः ।

स च प्रतिज्ञां चक्रे वालिनो वधं प्रति ॥

14

आहूय वालिनं युद्धे सुग्रीवेण महाबलः ।

छन्नो वृक्षे जघानैनं शरेणैकेन राघवः ॥

15

छद्मना निहतो वाली पुरतो वीक्ष्य राघवम् ।

प्रललाप तदा क्रुद्धः स्वदोषमविचारयन् ॥

16

वाल्युवाच

प्राज्ञस्त्वं धार्मिकस्त्वं च कुलीनस्त्वं न संशयः ।

पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः ॥

17

साधूनां रक्षणं चापि दुष्टानां शिक्षणं तथा ।

त्वादृशानां नृपाणां तु धर्म एष सनातनः ॥

18

किन्त्वहं पापहीनोऽपि निहतोऽस्मि त्वया वृथा ।

मन्मांसमजिनं वापि न योग्यं तव राघव ॥

19

श्रीराम उवाच

स्वदोषं नैव जानन्ति परदोषं विदन्ति ये ।

परानेव निन्दन्ति यथा त्वं वानरोत्तम ॥

20

भ्रातृभार्यापहारेऽस्मिन् दण्डोऽयं प्रतिपादितः ।

कामवृत्तोऽसि दुर्बुद्धे वृथा निन्दसि मामपि ॥

21

युद्धे दोषमहं पश्यन् सर्ववानरनाशनम् ।

त्वामेकमेव दुष्टात्मन् छद्मनाऽपि जघानाहम् ॥

22

वाल्युवाच

भगवन्नपराधं मे क्षमस्व करुणानिधे ।

धर्मसंमितया वाचा धर्मज्ञ परिपालय ॥

23

तवैव सन्निधावद्य त्वयैव विनिपातितः ।

गच्छामि पुण्यलोकं च विशुद्धस्तव दर्शनात् ॥

24

पाहि मे भ्रातरं वीर पुत्रं चाङ्गदमादरात् ।

अहं भवामि सुप्रीतः कृतार्थस्तव दर्शनात् ॥

25

श्रीसद्गुरुरुवाच

इत्युक्त्वा मरणं प्राप वाली राघवसन्निधौ ।

कारयामास दहनं तत्पुत्रेण च राघवः ॥

26

अभ्यषिञ्चत्तदा तस्यां किष्किन्धायां महाकपिम् ।

सुग्रीवं यौवराज्ये च वालिपुत्रमथाङ्गदम् ॥

27

वधेन वालिनो भ्रातुः पश्चात्तापमुपेत्य सः ।

शान्तिं न लेभे सुग्रीवः स्मरन् पापं कृतं महत् ॥

28

भ्रातृद्रोहं विचिन्त्याथ दुःखितः कपिपुङ्गवः ।

पापस्य क्षालनं कर्तुमियेष स्वयमेव हि ॥

29

सद्यः पञ्चवटीं गत्वा पप्रच्छागस्त्यमादरात् ।

भ्रातृद्रोहस्य पापस्य प्रायश्चित्तं वदेति सः ॥

30

उवाच मधुरं वाक्यं भगवान् कुम्भसंभवः ।

सान्त्वयन् कृपया वीरं सुग्रीवं सूर्यनन्दनम् ॥

31

अगस्त्य उवाच

रामदासस्य ते वीर पापं नैव हि विद्यते ।

तथापि ते सान्त्वनाय प्रायश्चित्तं वदाम्यहम् ॥

32

स्मरणादेव सर्वेषां कावेरी पापनाशिनी ।

किं पुनः श्रद्धया भक्त्या नित्यं स्नानं च कुर्वताम् ॥

33

कावेरीतोयमाश्रित्य वातो यत्र प्रवर्तते ।

तद्देशवासिनां मुक्तिः किमु तत्तीरवासिनाम् ॥

34

त्रिरात्रं जाह्नवीतीरे पञ्चरात्रं तु यामुने ।

सद्यः पुनाति कावेरी पापमामरणान्तिकम् ॥

35

तस्मात्त्वं सह्यजातीरं गत्वा वानरपुङ्गव ।

कावेरीसलिले स्नात्वा कृष्णं पूजय केशवम् ॥

36

भ्रातृद्रोहनिमित्तं यत्पापं सद्यो विनङ्क्ष्यति ।

प्राप्स्यसि त्वं परं क्षेमं सत्यं सत्यं वदाम्यहम् ॥

37

श्रीसद्गुरुरुवाच

अगस्त्यमुनिना प्रोक्तं कावेरीवैभवं परम् ।

श्रुत्वा प्लवङ्गमो हृष्टः परिवारसमन्वितः ॥

38

कुम्भकोणसमीपे तु कावेर्यां भक्तिपूर्वकम् ।

स्नात्वा संपूजयामास केशवं सह्यजातटे ॥

39

तत्क्षेत्रं पावनं लोके कपिस्थलमिति श्रुतम् ।

यस्मिन्नास्ते कृपासिन्धुः कृष्णः क्लेशविनाशनः ॥

40

कपिस्थले हरिं दृष्ट्वा सौभ्रात्रं जायते ध्रुवम् ।

कपिर्यथैव सुग्रीवो मुक्तो भ्रातृवधादघात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे कपिस्थलमाहात्म्यम् नाम अध्यायः ॥
Ch.07 Tṛtīya Bhāge Ch.09