Verses

तञ्जपुरमाहात्म्यम् Tañja Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

पुरा पराशरमुनिः कावेरीतटमागतः ।

कञ्चित्कालं तपः कर्तुमियेष द्वापरे युगे ॥

2

महावनं विलोक्यात्र निर्ममे चाश्रमं वरम् ।

आनीय तत्र शिष्यांश्च स्थापयामास चादरात् ॥

3

स्वयं कुलपतिर्भूत्वा मुनीनाममलात्मनाम् ।

धर्माश्च बोधयन्नास्ते तपसा शिक्षयंस्तथा ॥

4

बहुवर्षसहस्राणि तपश्चक्रुस्तपोधनाः ।

पराशरं पुरस्कृत्य नानायोगपरायणाः ॥

5

केचित्पञ्चाग्निमध्यस्थाः केचिन्मग्ना जले तथा ।

केचिद्वृक्षसमारूढाः केचिद्भूतलवासिनः ॥

6

केचिद्योगं चरन्ति स्म यागं कुर्वन्ति केचन ।

केचिज्जपं प्रकुर्वन्ति केचित् स्वाध्यायमेव च ॥

7

चित्पूजां प्रकुर्वन्ति केचित् प्रवचनं तथा ।

एवं हि मुनयः सर्वे चक्रिरे सुमहत्तपः ॥

8

कृत्वा च मन्दिरं विष्णोर्मणिपर्वतसन्निभम् ।

सादरं पूजयामासुर्मुनयः पुरुषोत्तमम् ॥

9

कदाचिदाश्रमे तस्मिन्ननावृष्ट्याऽतिदुःसहा ।

अभूद्दुर्भिक्षपीडा च मृताश्च पशुपक्षिणः ॥

10

अशाद्वलं स्थलमभूदपर्णास्तरवस्तथा ।

नदीतटाककूपाश्च बभूवुर्जलवर्जिताः ॥

11

तदा तपोधनाः सर्वे रोगिणश्च सुदुर्बलाः ।

अभवंश्च तपः कर्तुमशक्ताः शोकपीडिताः ॥

12

तदा पराशरमुनिस्तेषां संरक्षणेच्छया।

तपोबलेन संयुक्तः स्वर्गं प्राप्य महामतिः ।

आददानः सुधाकुम्भमागतो भुवनं प्रति ॥

13

मध्येमार्गं महेन्द्रश्च समागत्य ससम्भ्रमम् ।

रुरोध मुनिवर्यं तं सह सर्वैः सुरैरपि ॥

14

इन्द्र उवाच

क्षीरोदमथनाज्जातं देवानां परमं धनम् ।

हरंस्त्वममृतं शीघ्रं क्व यासि मुनिपुङ्गव ॥

15

देवानामुचितं ह्येतन्नान्येषां तु कदाचन ।

असुराणां दुर्लभं हि मनुष्याणां तु किं पुनः ॥

16

पराशर उवाच

अनावृष्ट्या जगत्सर्वं पीडितं पाकशासन ।

मृतांस्तपोधनांस्तत्र जीवयिष्याम्यहं पुनः ॥

17

अनेनैवामृतेनाद्य मा विषीद महामते ।

सतां परोपकारार्थं सर्वदा जीवधारणम् ॥

18

श्रीसद्गुरुरुवाच

इत्युक्तास्तु सुराः सर्वे मुनिशापभयाकुलाः ।

अमृतं हर्तुकामाश्च तमेवानुययुस्तदा ॥

19

पराशरमुनिः शीघ्रमागत्य च धरातलम् ।

आश्रमस्य तटाके तु कलशं निदधे रहः ॥

20

अमृतस्य प्रभावेण ववर्ष च महाघनः ।

हृष्टपुष्टा जनाः सर्वे पशवः पक्षिणस्तथा ॥

21

सस्यवृद्धिरभूदेवं वृक्षाश्च फलिनस्तथा ।

अचिरेणैव कालेन सुभिक्षमभवत् स्थलम् ॥

22

यथापूर्वं तपश्चक्रुर्मुनयोऽपि गतज्वराः ।

गुरुः पराशरस्तेषां परमं हर्षमाप सः ॥

23

आश्रमे पुष्करिण्यां तु निहितं मुनिना रहः ।

ज्ञात्वा दैत्यगणाः सर्वे ह्याजग्मुर्हर्तुमिच्छया ॥

24

तान् दृष्ट्वा दानवान् भीता दुद्रुवुर्मुनयो वने ।

तदा पराशरमुनिस्तुष्टाव कमलासनम् ॥

25

पराशर उवाच

नमस्ते वेदगर्भाय नमस्ते परमेष्ठिने ।

स्वयम्भुवे नमस्तुभ्यं नमस्ते कमलासन ॥

26

लोकनाथस्त्वमेवासि सुरासुरनियामकः ।

दैत्यान् प्रशमय क्षिप्रं ब्राह्मणान् पालय प्रभो ॥

27

ब्रह्मोवाच

केवलं सृष्टिकर्ताऽहं न मे संहारयोग्यता ।

हरं त्वं शरणं याहि स तु संहारकारकः ॥

28

श्रीसद्गुरुरुवाच

इत्युक्तो ब्रह्मणा सद्यः पराशरमुनीश्वरः ।

ईश्वरं शरणं लेभे दैत्यान् शमयितुं पुनः ॥

29

पराशर उवाच

नमस्ते नीलकण्ठाय नमस्ते वृषभध्वज ।

नमस्तेऽस्तु महादेव नमस्ते शूलपाणये ॥

30

नमस्ते कालकालाय नमो मृत्युञ्जयाय च ।

दक्षयज्ञविनाशाय वीरभद्राय ते नमः ॥

31

असुरैः पीडितान् सर्वान् पालय त्वं तपोधनान् ।

महाकाल नमस्तेऽस्तु महाभैरव ते नमः ॥

32

रुद्र उवाच

शिवोऽहं शक्तिसंविष्टः संहरामि जगत्त्रयम् ।

शक्त्या विहीनं मां लोके मन्यन्ते निर्गुणं परम् ॥

33

शक्तिं त्वं शरणं याहि महिषासुरमर्दिनीम् ।

समर्था सा हि सर्वेषामसुराणां विनाशने ॥

34

श्रीसद्गुरुरुवाच

एवमुक्तो महेशेन पराशरमुनिः पुनः ।

शक्तिं च शरणं भेजे महिषासुरमर्दिनीम् ॥

35

पराशर उवाच

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥

36

नमस्ते लोकजननि नमस्ते गिरिकन्यके ।

दाक्षायणि नमस्तेऽस्तु नमस्ते शिवप्रिये ॥

37

संहृत्य निखिलान् दैत्यानभयं देहि वैष्णवि ।

शङ्खचक्रगदाशूलपट्टिशाङ्कुशधारिणि ॥

38

श्रीदेव्युवाच

अहं तु योगनिद्रास्मि विष्णोः पन्नगशायिनः ।

अनीशाऽहं स्वयं दैत्यान् संहर्तुं मुनिपुङ्गव ॥

39

शक्तिः पुरुषमाश्रित्य कर्मण्येव प्रवर्तते ।

शक्तिमन्तं विना शक्त्याः स्वातन्त्र्यं नैव विद्यते ॥

40

सर्वशक्तं हरिं तस्मात् पुराणपुरुषोत्तमम् ।

शरणं याहि भगवान् हरिस्ते शं विधास्यति ॥

41

श्रीसद्गुरुरुवाच

इत्युक्तो दुर्गया देव्या पराशरमुनिः पुनः ।

शक्तिमन्तं शरण्यं च प्रपेदे शरणं हरिम् ॥

42

पराशर उवाच

देवदेव जगद्व्यापिन् शङ्खचक्रगदाधर ।

त्वमेव सर्वदेवानां दैत्यानां च नियामकः ॥

43

त्वमेव जगतः कर्ता संहर्ता रक्षकस्तथा ।

वशे तिष्ठति ते ब्रह्मा रुद्रश्चापि महेश्वरः ॥

44

इयं भगवती माया महिषासुरमर्दिनी ।

तवैव निद्रा गोविन्द नित्यं तिष्ठति ते वशे ॥

45

विमुञ्च त्वं योगनिद्रां दैत्यसंहारकारणात् ।

लोकक्षेमाय गोविन्द प्रार्थयेऽहं पुनः पुनः ॥

46

श्रीसद्गुरुरुवाच

इति संप्रार्थितो विष्णुर्मुनिना शक्तिसूनुना ।

स्वां मायां प्रेरयामास कर्तुं दैत्यविनाशनम् ॥

47

सापि दुर्गा महाकाली महिषासुरमर्दिनी ।

तञ्जकप्रमुखान् दैत्यान्नाशयामास साहसात् ॥

48

किन्तु तानसुरान् सर्वान् शुक्राचार्यो महामुनिः ।

तटाकसलिलनैव जीवयामास वै पुनः ॥

49

सुधाकुम्भस्य विन्यासात् सलिलं तत्सुधामयम् ।

अभूत्तत्तटाके सर्वत्र तेन दैत्यास्तु जीविताः ॥

50

सहसैवोत्थिताः सर्वे युद्धं कर्तुं कृतोद्यमाः ।

सायुधा रुरुधुर्देवी महिषासुरमर्दिनीम् ॥

51

श्रान्तां विलोक्य तां देवीमसुरांश्च कृतोद्यमान् ।

अवाप शरणं विष्णुं पराशरमुनिः पुनः ॥

52

पराशर उवाच

उपायं सकलं व्यर्थमवैमि पुरुषोत्तम ।

उपायश्च तथोपेयस्त्वमेव जगदीश्वर ॥

53

अमृतं शाश्वतं नित्यं त्वमेव न हि संशयः ।

तवैव कृपया लोके परं सौख्यं नृणां भवेत् ॥

54

किमनेनामृतेनाद्य तटाके निहितेन च ।

यन्निमित्तमभूद्युद्धमत्र चिन्ताभयावहम् ॥

55

तस्मादमृतकुम्भं च गृहीत्वा त्वं यथा तथा ।

आलयमध्ये तु निधेहि परमेश्वर ॥

56

अस्माकं रक्षणाय त्वं सान्निध्यं कुरु सर्वदा ।

किमन्यैः साधनैर्देव त्वयि रक्षति रक्षके ॥

57

श्रीसद्गुरुरुवाच

एवं स्तुतो महाविष्णुः श्रीनृसिंहवपुर्धरः ।

तञ्जासुरं महावीरं निजघान च लीलया ॥

58

ततः प्रशान्तो भगवान् नीलमेघवपुर्धरः ।

श्रिया भूम्या च सहितः प्रददौ निजदर्शनम् ॥

59

अमृतं च ददौ विष्णुर्देवेभ्यः कृपया हरिः ।

यथापूर्वं जलनिधौ निदधे कलशं महत् ॥

60

स्वयमर्चावतारेण भूत्वा भक्तजनामृतम् ।

विराजते तञ्जपुर्यां देवदेवो जनार्दनः ॥

61

तस्य दर्शनमात्रेण जरारोगविवर्जिताः ।

भवन्ति मनुजाः सर्वे यथैवामृतपानतः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे तञ्जपुरमाहात्म्यम् नाम षष्ठोऽध्यायः ॥
Ch.05 Tṛtīya Bhāge Ch.07