Verses

खण्डनपुरमाहात्म्यम् Khaṇḍana Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

शिवस्य ब्रह्मणश्चापि पञ्चासन् वदनानि हि ।

तस्माज्जातो ब्रह्मणस्तु गर्वो हन्त जगत्पतेः ॥

2

देवान् सर्वान् समाहूय शक्रादीन् पद्मसंभवः ।

उवाच गर्वितं वाक्यं सत्यलोके प्रजापतिः ॥

3

ब्रह्मोवाच

ममैव वेदरूपत्वं प्रसिद्धं सुरपुङ्गवाः ।

युष्माकं वेदवेद्यत्वमपि सिद्धं जगत्त्रये ॥

4

रुद्रो विष्णुस्तथा शक्रो वायुरग्निर्यमो रविः ।

सर्वे देवा मयैवोक्ताः पूज्यन्ते ब्राह्मणैः खलु ॥

5

ममापि पञ्चवक्त्राणि सन्ति गौरीपतेर्यथा ।

तथापि मां सुराः सर्वे न जानन्ति महेश्वरम् ॥

6

तस्माच्छापं प्रदास्यामि लोकस्य मदुपेक्षया ।

पाषण्डे हि मतिर्भूयाद्वेदमार्गं विहाय च ॥

7

देवा ऊचुः

हिरण्यगर्भ देवेश भवान् लोकपितामहः ।

अजानतो जनस्येममपराधं क्षमस्व भोः ॥

8

तवैव वदनाज्जातो महादेवो महेश्वरः ।

तस्यापि जनकत्वं च तवैव न तु संशयः ॥

9

श्रीसद्गुरुरुवाच

इत्युक्त्वा ते विधातारं कैलासशिखरं गताः ।

गर्वं च ब्रह्मणो जातमूचुरिन्द्रादयः सुराः ॥

10

तदा रुद्रः पिनाकी च देवान् सर्वानुवाच ह ।

मुनीनां मण्डले शूली नीलकण्ठो वृषध्वजः ॥

11

रुद्र उवाच

अहं मन्त्रमयो देवो मुनिभिश्च निरूपितः ।

सद्योजातादिमन्त्राणि मम पञ्च मुखानि हि ॥

12

अङ्गानि शतरुद्रीयमष्टमूर्तिरहं तथा ।

तिष्ठामि व्याप्य भुवनमहङ्कारात्मको नृषु ॥

13

ब्रह्मणः पञ्चवक्त्रत्वमपि वक्ष्यामि तत्त्वतः ।

चत्वार एव वेदास्तद्वदनानि न संशयः ॥

14

पाषण्डमतवेदाश्च ब्रह्मणः पञ्चमं मुखम्

तद् हरामि नखेनैव लोकानां स्वस्तिहेतवे ।

वेदमार्गस्य रक्षार्थं रक्षार्थं ब्रह्मणस्तथा ॥

15

श्रीसद्गुरुरुवाच

इत्युक्त्वा वृषभारूढः सत्यलोकं गतो हरः ।

जहार ब्रह्मणो वक्त्रं पञ्चमं लघुलीलया ॥

16

किन्तु तत्करलग्नं तच्छिरो नैव पपात ह ।

पाखण्डवेदरूपत्वात् पाखण्डीव चचार सः ॥

17

ब्रह्मघ्नत्वं पितृघ्नत्वं गुरुघ्नत्वमवाप्य सः ।

कपालहस्तो भुवने चचार च दिगम्बरः ॥

18

एवमुन्मत्तवल्लोके चरन् रुद्रो दिगम्बरः ।

कावेर्या दक्षिणे तीरे प्राप घोरं महावनम् ॥

19

भर्तुः शापविमोक्षाय भवान्या याचितो विधिः ।

कपालपूरणेनैव शापमोक्षं जगाद सः ॥

20

गौर्या लक्ष्म्या च वाण्यापि स्वाहा स्वधया तथा ।

शच्यापि भिक्षादानेन कपालं नैव पूरितम् ॥

21

तदा सर्वैश्च गीर्वाणैः प्रार्थितो भगवान् हरिः ।

भिक्षां ददौ तत्कपालं पूर्णं मुक्तं तदा ह्यभूत् ॥

22

सद्यः प्रसन्नचित्तश्च भगवान्नीललोहितः ।

बद्धाञ्जलिपुटः विष्णुं तुष्टाव पुरुषोत्तमम् ॥

23

रुद्र उवाच

नारायण नमस्तेस्तु शङ्खचक्रगदाधर ।

सर्वदेवमयोऽसि त्वं सर्ववेदप्रकीर्तितः ॥

24

ब्रह्महत्यादिपापानि नामकीर्तनमात्रतः ।

हरसि त्वं जगद्बन्धुः करुणासिन्धुरेव च ॥

25

तवैव नाममाहात्म्यात् हालाहलविषं महत् ।

न मां दहति कण्ठे च लग्नं भूषणवत् सदा ॥

26

तवैव तारकं मन्त्रं मृतानां श्रवसि ब्रुवन् ।

तन्माहात्म्यादन्तकाले काश्यां मोक्षं ददाम्यहम् ॥

27

त्वमेव परमेशानस्त्वं हि सर्वनियामकः ।

त्वमेव जगतां कर्ता त्वमेव जनरक्षकः ॥

28

श्रीसद्गुरुरुवाच

इत्युक्त्वोपरतं रुद्रं प्राह नारायणः प्रभुः ।

शङ्खचक्रधरः श्रीमान् दत्ताभयकराम्बुजः ॥

29

श्रीभगवानुवाच

कोटयो ब्रह्महत्यानामगम्यागमकोटयः ।

सद्यः प्रलयमायान्ति महादेवेति कीर्तनात् ॥

30

तस्य त्वेवं प्रभावस्य महादेवस्य ते शिव ।

ब्रह्मघ्नत्वं कथं प्राप्तं लीलैषा हि न संशयः ॥

31

सर्वेषां पापिनां लोके ब्रह्महत्यानिवारणम् ।

कर्तुमेव स्मरन् देव क्षेत्रं प्रकटितं त्वया ॥

32

अस्मिन् क्षेत्रे महालिङ्गं शिरःखण्डमहेश्वरम् ।

कपालमोचनं मां च प्रतिष्ठाप्य समर्च्य च ॥

33

सर्वेऽपि मुनयो यूयं पवित्रचरिता भुवि ।

ब्रह्महत्यादिपापानां नाशं कुरुत सर्वथा ॥

34

श्रीसद्गुरुरुवाच

इत्युक्त्वाऽन्तर्दधे विष्णुर्ब्रह्मणा च शिवेन च ।

सर्वे देवास्तथा जग्मुर्मुदितास्त्रिदिवं पुनः

मुनयश्च तथा चक्रुः पूजां विष्णोः शिवस्य च ॥

35

तदाप्रभृति लोकेऽस्मिन् शिरःखण्डपुरं महत् ।

सञ्जातं हि महाक्षेत्रं ब्रह्महत्याप्रणाशनम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे खण्डनपुरमाहात्म्यम् नाम पञ्चमोऽध्यायः ॥
Ch.04 Tṛtīya Bhāge Ch.06