Verses

बृहत्पुरमाहात्म्यम् Bṛhat Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

बृहत्पुरमिदं क्षेत्रं कावेरीतटशोभितम् ।

यत्र शेते जगन्नाथो भुजङ्गे पुरुषोत्तमः ॥

2

अपूपघटवान्नाम प्रख्यातो भुवने हरिः ।

श्रीरङ्गस्य समीपे तु श्रीवैष्णवनिषेवितः ॥

3

माहात्म्यं तस्य वक्ष्यामि शृणुध्वं साधुसत्तमाः ।

माहात्म्यश्रवणादेव यात्रा तु सफला भवेत् ॥

4

वसुर्नाम महाराजो व्योमयानेन सञ्चरन् ।

सह्यजासलिले स्नानं कर्तुमत्रागतः पुरा ॥

5

तदा तत्रागतो योगी मार्कण्डेयो महामुनिः ।

पूजयामास तं राजा विनीतो भक्तिपूर्वकम् ॥

6

तत्रैव सुखमासीनं ज्वलन्तं तपसा मुनिम् ।

पप्रच्छ स महाराजो विनीतो विहिताञ्जलिः ॥

7

राजोवाच

भगवन् सर्वदानानां ब्रूहि मे दानमुत्तमम् ।

हरिः प्रीणाति येनैव सर्वात्मा समदर्शनः ॥

8

यस्मिन् प्रीते जगत्सर्वं प्रीतं स्याद्ब्राह्मणोत्तम ।

तद्दानं वद मे स्वामिन् हरिप्रीतिकरं वरम् ॥

9

मार्कण्डेय उवाच

अन्नदानमिदं विद्धि दानानां दानमुत्तमम् ।

यस्य दानेन गोविन्दः सर्वात्मा प्रीयते हरिः ॥

10

सर्वेषामधिकारः स्यादन्नदानप्रतिग्रहे ।

अन्नस्य क्षुधितं पात्रमिति पौराणिकी श्रुतिः ॥

11

रोगिणामङ्गहीनानां दरिद्राणां विशेषतः ।

सर्वेषामपि शान्त्यर्थमन्नदानं विधीयते ॥

12

प्राकृतानामपि कृतमन्नदानं फलप्रदम् ।

किं पुनर्वैदिकानां तु ब्राह्मणानां विशेषतः ॥

13

सदाचारेण संयुक्तान् ब्राह्मणान् वेदपारगान् ।

आनीय त्वं महाराज पूजय श्रद्धयैव हि ॥

14

श्रीसद्गुरुरुवाच

एवमुक्तो महाराजो लक्षब्राह्मणभोजनम् ।

अस्मिन् क्षेत्रे कारयितुमियेष कृतिनां वरः ॥

15

सङ्गृह्य सर्वसंभारान् स्थानं निर्माय पावनम् ।

आनीय वैदिकान् विप्रान् भोजयामास भूपतिः ॥

16

समाप्ते विप्रलक्षे तु महान् गर्वोऽभ्यजायत ।

केन कर्तुं शक्यमिति लक्षब्राह्मणभोजनम् ॥

17

गर्वेण विहितं सर्वं निष्फलं भवति ध्रुवम् ।

आगतो ब्राह्मणः कश्चित्परीक्षां कर्तुमिच्छया ॥

18

ब्राह्मण उवाच

अलं गर्वेण ते राजन् दानमल्पं कृतं त्वया ।

बाधते महती क्षुण्मामन्नदाता न विद्यते ॥

19

मादृशं ब्राह्मणं ह्येकं तर्पयित्वा तु यत्फलम् ।

तत्फलं सदृशं न स्याल्लक्षब्राह्मणभोजने ॥

20

त्रिलोक्यां मादृशो भोक्ता ब्राह्मणो नैव विद्यते ।

क्षुद्राणामन्नदानेन किं भवेत् परमं यशः ॥

21

राजोवाच

अहो धन्योऽस्मि विप्रेन्द्र स्वागतं ते नमोऽस्तु ते ।

अन्नेन पूरयिष्यामि जठरं सागरं यथा ॥

22

नास्त्येव त्वादृशो भोक्ता नास्ति दाता च मादृशः ।

आवयोः सङ्गमो नूनमद्भुतं भुवनत्रये ॥

23

श्रीसद्गुरुरुवाच

इत्युक्त्वा भूमिपालोऽपि सानन्दं सत्वरं तथा ।

द्रव्यं संपादयामास शतशश्च सहस्रशः ॥

24

पाचकाश्च पचन्ति स्म चुल्लिकासु पृथक् पृथक् ।

सशाकं च ससूपं च शाल्यन्नं षड्रसान्वितम् ॥

25

भक्ष्यं भोज्यं च पेयं च लेह्यं च ब्राह्मणोचितम्

आडकानां सहस्रेण कृतं चान्नं गिरिप्रभम् ।

प्रदाय ब्राह्मणायैव तस्थौ राजा कृताञ्जलिः ॥

26

स एव ब्राह्मणस्त्वेकः सर्वं भुक्त्वा ससंभ्रमम् ।

क्लान्तोदरो यथापूर्वं राजानं प्राह दुःखितः ॥

27

ब्राह्मण उवाच

आडकानां सहस्रेण कृतमप्यन्नमादरात् ।

सव्यञ्जनं ससूपं च दत्तमेवं त्वया नृप ॥

28

तत्सर्वं सागरे लीनगुडकल्पमभूद्बत ।

क्षुद्व्याधिर्मे तथैवास्ति मम दाता न हि क्वचित् ॥

29

तव क्वेयं लाजमुष्टिर्गजः क्वायं महोदरः ।

वृथात्मानं श्लाघसे त्वं दाताऽस्मीति महीपते ॥

30

यथा पिपीलिकादीनां कीर्यन्ते तण्डुलानि च ।

अल्पोदराणां विप्राणामन्नदानं तथा कृतम् ॥

31

एवमुक्तो महीपालस्तं ज्ञात्वा हरिमव्ययम् ।

गर्वहीनो विनीतश्च तुष्टाव विहिताञ्जलिः ॥

32

राजोवाच

नमो नमस्ते पुरुषोत्तमाय ।

नमो नमस्ते नलिनेक्षणाय

नमो नमस्तेऽखिलकारणाय ।

नमो नमस्ते मधुसूदनाय ॥

33

भुक्त्वाऽन्तकाले भुवनत्रयं त्वं

शेषे त्वमेको वटपत्रमध्ये ।

त्वां त्वादृशं भोजयितुं क ईशो

नूनं त्वमेवासि हि विश्वभोक्ता ॥

34

पातालमेतत्तव पादमूलं

प्राहुर्महान्तो जठरं समुद्रम् ।

सत्यं च लोकं च शिरस्तवेति

सहस्रशीर्ष्णः पुरुषस्य देव ॥

35

वैश्वानरस्त्वं भुवने नराणां

वसन् कृपालुर्जठरे स्वयं हि ।

भुक्तं च सर्वं च करोषि जीर्णं

त्वयैव भुक्तं भुवने हि सर्वम् ॥

36

बिभेति मृत्युं किल दुर्जयं तं

स्मृत्वापि सर्वोऽपि जनो जगत्याम् ।

स एव मृत्युर्ह्यपसेचनं स्यात्तवैव योगेश्वर विश्वभोक्तुः ॥

37

ते स्वल्पमपि प्रियेण

क्षुधार्दितानां विनयेन विष्णो ।

तेनैव तृप्तोऽसि सहस्रमूर्ते

तवैव रूपं भुवनं हि सर्वम् ॥

38

काम्यार्थिनां केशव दाम्भिकानां

दत्वैवमात्मस्तुतितर्पितानाम् ।

द्रष्टुं मुखञ्चापि नहीच्छसि त्वं

त एव लोके कृपणा दरिद्राः ॥

39

हिरण्यगर्भादिपिपीलिकान्तान्

जीवान् विनिर्माय यथा तथैव ।

तेषां ददास्यन्नमपि प्रभो त्वं

त्वत्तोऽन्नदाता क इहास्ति चान्यः ॥

40

महोदरं प्राप्य गजोऽपि चिन्तां

त्यक्त्वैव लोके चरति प्रहृष्टः ।

अल्पोदरा मर्त्यजनास्तु लोके

चिन्तां हि कुर्वन्ति सदान्नपाने ॥

41

अहो विचित्रं तव चेष्टितं हि

माया किलैषा च दुरत्ययैव ।

विश्वात्मनि ब्रह्मणि वासुदेवे

पश्यन्ति भेदं त्वयि मूढचित्ताः ॥

42

लीला तवैषा भगवन्मुरारे

परीक्षसे मां द्विजरूपमेत्य ।

जायेत तृप्तिः कथमादिदेव

सत्यं वचो मे कृपया कुरु त्वम् ॥

43

श्रीसद्गुरुरुवाच

इति प्रार्थितो विष्णुः शङ्खचक्रगदाधरः ।

आदिदेश वसुं भक्तं राजानं भक्तवत्सलः ॥

44

गुडापूपसहस्रेण तृप्तोऽस्मि पृथिवीपते ।

तन्निवेदय मे क्षिप्रं तदिदं भुक्तदक्षिणा ॥

45

राजा परमसन्तुष्टः सहस्रापूपपूरितम् ।

घटं ददौ ब्राह्मणाय दक्षिणार्थं कृताञ्जलिः ॥

46

मायावी ब्राह्मणः सोऽपि सहापूपघटेन च ।

परिहर्तुं तत्र शिश्ये चात्मनो भोजनश्रमम् ॥

47

तं ददर्श महाराजो भुजङ्गशयनं प्रभुम् ।

योगनिद्रामीलिताक्षं प्रशान्तवदनं हरिम् ॥

48

पीताम्बरधरं विष्णुं मन्दस्मितवराननम् ।

सुकपोलं सुनासं च सुललाटं सुकुन्तलम् ॥

49

वटपत्रोदरं देवं पीनवक्षःस्थलं तथा ।

उन्नतांसं दीर्घबाहुं चार्वाङ्गुलिदलं प्रभुम् ॥

50

हारकङ्कणकेयूरकटकादिविभूषणम् ।

श्रीवत्सलाञ्छनं श्रीशं श्रीधरं श्रीकरं तथा ॥

51

विलोक्य पृथिवीपालः सर्वलोकैकपालकम् ।

संप्राप्तपरमप्रेमपुलकीकृतविग्रहः ॥

52

प्रणम्य शिरसा विष्णुं स्तुत्वा नत्वा पुनः पुनः ।

अतृप्तः परया भक्त्या बभूवोन्मत्तवत्तदा ॥

53

तत्रैव मन्दिरं कृत्वा निर्माय च बृहत्पुरम् ।

जनान्निवासयामास विष्णुसेवार्थमादरात् ॥

54

जगाम राजा सुप्रीतो मार्कण्डेयानुमोदितः ।

सामात्यः सह पत्न्या च स्वकं नगरमुत्तमम् ॥

55

अपूपघटनाथस्य माहात्म्यं परमाद्भुतम् ।

शृण्वतां पठतां चैव महापातकनाशनम् ॥

56

क्षुधितोऽपि दरिद्रोऽपि विष्णुं दृष्ट्वा बृहत्पुरे ।

अन्नदाता भवेन्नूनमन्नं लब्ध्वा स्वयं बहु ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे बृहत्पुरमाहात्म्यम् नाम चतुर्थोऽध्यायः ॥
Ch.03 Tṛtīya Bhāge Ch.05