Verses

बाणपुरमाहात्म्यम् Bāṇa Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

ऋक्षो नाम किरातस्तु पूर्वमासीन्महाबलः ।

वसन् बाणपुरे नित्यं ररक्ष स्वजनान् वने ॥

2

सह्यजायास्तटे घोरे सञ्चरन् कानने च सः ।

खेटवृत्यैव सन्तुष्टो जघान च बहून् मृगान् ॥

3

व्याघ्रान् शशान् कृष्णमृगान् निहत्य मृगयां चरन् ।

निर्घृणः सञ्चचारैष सन्ततं काननान्तरे ॥

4

तस्य पत्नी वञ्जुला तु नित्यं काननचारिणी ।

इयेष नागरत्नं सा ययाचे स्वपतिं तथा ॥

5

निषादराजो ऋक्षश्च नागरत्नजिहीर्षया ।

नागान् बहून्निहत्यापि न लेभे रत्नमीप्सितम् ॥

6

चोरवृत्त्यैव तद्रत्नं संपादयितुमिच्छया ।

चचार भुवने ऋक्षो रत्नं तु प्राप न क्वचित् ॥

7

कदाचिन्नारदो नक्तं कीर्तयन् वीणया हरिम् ।

आजगाम वनं घोरं निर्भयं सुरपूजितः ॥

8

तं विलोक्य मुनिं व्याधः समीपमगमच्छनैः

रत्नमालां विलोक्यापि तद्वक्षसि च लम्बिताम् ।

पप्रच्छ नारदं व्याधो जीमूतसदृशस्वनः ॥

9

देवर्षे किमिदं रत्नं कुतः संपादितं त्वया ।

ईदृशं दुर्लभं रत्नं त्वादृशां वनचारिणाम् ॥

10

नारद उवाच

नागरत्नमिदं व्याध ददौ मे धनदो महान् ।

तन्मालिकां जपं कर्तुं कण्ठे किल धराम्यहम् ॥

11

ऋक्ष उवाच

जपं कुरु महाभाग तुलसीमणिमालया ।

रत्नमालामिमां देहि मम सन्तोषहेतवे ॥

12

नारद उवाच

ब्राह्मणायैव कर्तव्यं दानं सर्वजनैरपि ।

ब्रह्मस्वं न तु हर्तव्यमिच्छद्भिः कुलमङ्गलम् ॥

13

ऋक्ष उवाच

ईदृशं नोचितं रत्नं वनस्थस्य तपस्विनः ।

चोरवृत्त्या हरिष्यामि न त्वं साम्ना ददासि चेत् ॥

14

नारद उवाच

महत्पापमिदं व्याध परस्वहरणं किल ।

नरकं प्राप्नुयान्नूनं परद्रव्यहरो नरः ॥

15

ऋक्ष उवाच

मदर्थं न हराम्येतन्मत्प्रियायै हराम्यहम् ।

प्रियायाः पापमेवास्तु न हि पापभयं मम ॥

16

नारद उवाच

शिष्यपापं गुरोरेवं प्रजापापं नृपस्य च ।

बालपापं पितुश्चापि स्त्रीपापं पुरुषस्य हि ॥

17

पुरुषेण कृतं पापं स्त्रीणां नैव कदाचन ।

एतद्विचारय व्याध सत्यमेव वदाम्यहम् ॥

18

श्रीसद्गुरुरुवाच

इत्युक्तो नारदेनाथ व्याधो बद्ध्वा च तं मुनिम् ।

स्वं ग्रामं त्वरया गत्वा पप्रच्छ निजबान्धवान् ॥

19

नानुमेने तस्य पापं तत्पत्नी वञ्जुला तथा ।

सर्वेऽपि बान्धवास्तस्य पापं न जगृहुस्तथा ॥

20

ते हि स्वार्थकुशला मयि कारुण्यवर्जिताः ।

भागं प्राप्नुवन्ति भवन्ति विमुखाः ॥

21

इति सन्त्यज्य तान् सर्वान् विरक्तो व्याधसत्तमः ।

देवर्षि पुनरेवाप पपात पदयोस्तथा ॥

22

विमुच्य नारदं व्याधो विनीतो विहिताञ्जलिः ।

पप्रच्छ श्रद्धया भक्त्या पापमोक्षस्य साधनम् ॥

23

ऋक्ष उवाच

भगवन् मम पापानां परिहारं वद प्रभो ।

यदृच्छया ह्यागतोऽसि मम भाग्यवशेन हि ॥

24

नारद उवाच

श्रीराम राम रामेति नामसङ्कीर्तनं ध्रुवम् ।

सर्वपापहरं विद्धि सर्वमङ्गलदायकम् ॥

25

एतद्धि तारकं मन्त्रं सर्वपापहरं शिवम् ।

सदाशिवेन संप्रोक्तं पार्वत्यै मुनिसंसदि ॥

26

न देशकालनियमः शौचाशौचविधिस्तथा ।

परं सङ्कीर्तनादेव राम रामेति मुच्यते ॥

27

श्रुतिस्मृतिपुराणेषु रामनामप्रकीर्तितम् ।

तन्नामकीर्तनं भूयस्तापत्रयविनाशनम् ॥

28

अश्वमेधसहस्राणि वाजपेयशतानि वा ।

नैव तारकमन्त्रस्य कदापि सदृशं भवेत् ॥

29

श्रीसद्गुरुरुवाच

इत्युक्त्वा नारदो व्याधं कृपया मुनिपुङ्गवः ।

उवाच तारकं मन्त्रं सर्वपापविनाशनम् ॥

30

रेफस्य प्रथमोच्चारं न शशाक किरातकः ।

मकारमेव हि व्यक्तं बभाषे स पुनः पुनः ॥

31

ततो मरा मरेत्येवमुवाच मुनिपुङ्गवः ।

धारा रामरामत्वमवाप सरसं लघु ॥

32

यथाकथञ्चित्तन्नाम्नः कीर्तनं पापनाशनम् ।

न प्रत्यवायदोषोऽपि भवेत्तन्नामकीर्तने ॥

33

गते तु नारदे व्याधस्तारकं मन्त्रमुच्चरन् ।

तत्प्रभावेण तत्रैव चकार सुमहत्तपः ॥

34

वल्मीकपिहितं तस्य बभूव च बृहद्वपुः ।

तथापि तस्य देहेऽस्मिन्नेव पीडा न च क्षतिः ॥

35

अथ दीर्घेण कालेन ब्रह्मा तं व्याधपुङ्गवम् ।

उत्थाप्य कृपया देवो बभाषे मधुरं वचः ॥

36

ब्रह्मोवाच

जातोऽसि किल वल्मीकाद्वाल्मीकिरिति विश्रुतः ।

अद्यप्रभृति लोकेऽस्मिन् ब्रह्मर्षिस्त्वं भविष्यसि ॥

37

नासि व्याधो न ऋक्षस्त्वं न पापी न च तस्करः ।

वरुणस्यैव पुत्रोऽसि जातोऽस्यत्राप्ययोनिजः ॥

38

भृगुस्त्वं ब्रह्मनिष्ठोऽसि ब्रह्मविद्यापरायणः ।

ब्रह्मणो रामरूपस्य कथां वक्तुमिहागतः ॥

39

तस्मात्त्वं सरयूतीरं गच्छ तत्र तपः कुरु ।

आविर्भविष्यति क्षिप्रमयोध्यायां हरिः स्वयम् ॥

40

श्रुतिस्मृतिपुराणानि सेतिहासानि तेऽनघ ।

एवं शास्त्राणि सर्वाणि स्फुरन्तु हृदये तव ॥

41

तदिदं तारकं क्षेत्रं सर्वपापविनाशनम् ।

भविष्यति भुवि ख्यातं विष्णुसान्निध्यसंयुतम् ॥

42

श्रीसद्गुरुरुवाच

इत्युक्तः ब्रह्मणा योगी वाल्मीकिर्मुनिपुङ्गवः ।

प्रतस्थे सरयूतीरं सर्वशास्त्रविदां वरः ॥

43

ततो ब्रह्मा जगत्कर्ता विश्वकर्मसहायकः ।

तारकाख्यं विमानं च कृत्वा बाणपुरे शुभम् ॥

44

तत्र विष्णुं प्रतिष्ठाप्य कृत्वा ब्रह्मोत्सवं महत् ।

सर्वैश्च देवैः सहितः सत्यलोकं पुनर्ययौ ॥

45

तदिदं परमं पुण्यं क्षेत्रं बाणपुरं वरम् ।

यस्मिन् विराजतेऽद्यापि हरिः सुन्दरविग्रहः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे बाणपुरमाहात्म्यम् नाम तृतीयोऽध्यायः ॥
Ch.02 Tṛtīya Bhāge Ch.04