Verses

श्वेताचलमाहात्म्यम् Śvetācala Māhātmyam

1

श्रीसद्गुरुरुवाच

गङ्गायमुनयोर्मध्ये शिबिरासीन्महीश्वरः ।

धर्मं स्वं पालयामास प्रजां च प्रेमतत्परः ॥

2

वदान्यः सत्यसन्धश्च शरणागतवत्सलः ।

तादृशो भुवने नान्य इति प्रख्यातिमाप सः ॥

3

परीक्षितुं भूपतिं तमिन्द्रो व्याधस्वरूपधृक् ।

कपोतरूपमग्निं च पुरस्कृत्य पुरो ययौ ॥

4

आक्रुश्य दीनं भूपालः कपोतं शरणागतम् ।

आदाय सान्त्वयामास निधायाङ्के च सादरम् ॥

5

तावत्किरात आगत्य राजानं धर्मचारिणम् ।

बद्धाञ्जलिपुटः प्राह चापबाणधरो युवा ॥

6

किरात उवाच

राजन् चिरेण कालेन क्लान्तोऽहं हि बुभुक्षया ।

मृगयामटतो मेऽद्य कपोतोऽयं विलोकितः ॥

7

तस्मात्कपोतं दत्त्वा मे क्षुधं मे शमय प्रभो ।

मयैव पूर्वं विद्धोऽयं त्वामद्य शरणं गतः ॥

8

राजोवाच

पतगं न त्यजाम्येनं मामेव शरणागतम् ।

प्रपन्नस्य परित्यागे पापमेव महद्भवेत् ॥

9

मा विषीद निषाद त्वमन्नं दास्यामि ते बहु ।

चतुर्विधं च मेध्यं च घृतसूपसमन्वितम् ॥

10

व्याध उवाच

अहं वनचरो राजन् मांसभुक् केवलं ततः ।

शाकपाकेन किं मे स्यान्नालं मत्प्रीतये हि तत् ॥

11

राजोवाच

एवं चेद् व्याध दास्यामि मांसमिष्टं न संशयः ।

कपोताय मया दत्तमभयं पालयामि तम् ॥

12

व्याध उवाच

कपोतसंमितं मांसमादाय स्वशरीरतः ।

देहि मे सहसा राजन्नसि त्वं धर्मवत्सलः ॥

13

राजोवाच

शरीरान्मांसमुत्कृत्य दत्त्वाऽपि शरणं गतम् ।

पतङ्गं पालयिष्यामि प्राणांस्त्यक्त्वाऽपि किं पुनः ॥

14

श्रीसद्गुरुरुवाच

इत्युक्त्वा भूपतिस्तूर्णं खड्गमुद्धृत्य लीलया ।

अङ्गादादाय मांसं च तुलायां निदधे तदा ॥

15

अपर्याप्तं च तद् दृष्ट्वा मांसं कृत्वा पुनः पुनः ।

अन्ते स्वयं तुलायां च तूष्णीमुपविवेश सः ॥

16

तदा तत्रागतौ देवौ निजरूपेण संयुतौ ।

शशंसतुर्महाराजं सत्यसन्धं दृढव्रतम् ॥

17

पूजयित्वाऽथ तौ राजा पाकशासनपावकौ ।

हरिभक्तिं ययाचे च वराणामुत्तमं वरम् ॥

18

अथाचिरेण राजाऽपि तीर्थयात्रां चकार सः

तीर्थराजं प्रयागं च काशीं च मणिकर्णिकाम् ।

गयां नीलाचलं चैव सिंहाद्रिं वेङ्कटाचलम् ॥

19

काञ्चीपुरं च श्रीरङ्गं कावेरीं च महानदीम् ।

परिक्रमन् भक्तिपूर्वं श्वेताद्रिं प्राप भूपतिः ॥

20

ददर्श तत्र भूपालो मार्कण्डेयं महामुनिम् ।

पूजयामास तं भक्त्या हृष्टो मुनिरुवाच तम् ॥

21

मार्कण्डेय उवाच

विष्णुरेव परो देवस्तदङ्गान्यन्यदेवताः ।

अङ्गी स्वयं त्रिजगतामन्तर्यामी हरिः प्रभुः ॥

22

विष्णोराराधनं श्रेष्ठमन्यदेवार्चनादपि ।

एकस्मिन् पूजिते विष्णौ सन्ति सर्वेऽपि पूजिताः ॥

23

यज्ञेश्वरं यज्ञरूपं विष्णुमग्निमुखं विभुम् ।

यजन्ति ब्राह्मणा नित्यमग्निहोत्रपरायणाः ॥

24

ब्राह्मणानां पूजनेन प्रीणाति भगवान् हरिः ।

ब्राह्मणोऽस्य मुखं राजन् विद्धि वेदप्रमाणतः ॥

25

वेदाः प्रमाणं धर्मस्य वेदो नारायणात्मकः ।

तस्मात्संपूजयेन्नित्यं ब्राह्मणान् वेदपारगान् ॥

26

ये नित्यं ब्राह्मणा लोके स्नानसन्ध्यापरायणाः ।

वेदपाठे च निरता विनताश्चाग्निहोत्रिणः ॥

27

वैश्वदेवकृतः शुद्धाः शिखिनश्चोपवीतिनः ।

ऊर्ध्वपुण्ड्रधराश्चैवं शालग्रामशिलार्चकाः ॥

28

यदृच्छालाभसन्तुष्टा विरक्ता विजितेन्द्रियाः ।

क्षमादिगुणसंपन्ना लोकक्षेमपरायणाः ॥

29

अहिंसकाः सत्यसन्धा दातारोऽतिथिसेवकाः ।

निर्योगक्षेमपरमाः संयताश्च प्रतिग्रहे ॥

30

तान् ब्राह्मणान् महाभाग पूजयेद्भक्तिपूर्वकम् ।

पूजितेषु तथा तेषु प्रीणाति भगवान् हरिः ॥

31

न तात लौकायतिकान् ब्राह्मणान् पूजयेत्क्वचित् ।

अनर्थकुशला ह्येते तान् विद्रावय देशतः ॥

32

अस्मिन् श्वेतगिरौ राजन्नग्रहारं विशेषतः ।

निर्माय ब्राह्मणान्स्तत्र प्रतिष्ठापय सादरम् ॥

33

तदा त्वयि महाविष्णुः प्रसन्नो भवति ध्रुवम् ।

तस्मिन् प्रसन्ने लोकेशे किमप्राप्यं महीश्वर ॥

34

श्रीसद्गुरुरुवाच

एवमुक्तो महाराजो मार्कण्डेयेन योगिना ।

निर्ममे नगरं दिव्यं तस्मिन् श्वेतगिरौ वरम् ॥

35

विप्रान्स्तत्र स्थापयितुमिच्छन् स्वनगरीं गतः ।

गङ्गायमुनयोर्मध्यादानिनाय च तान् बहून् ॥

36

श्रुत्वा श्वेतगिरेः पुण्यं माहात्म्यं ब्राह्मणोत्तमाः ।

आययुः श्रद्धया भक्त्या प्रार्थिताश्च नृपेण ते ॥

37

ममार कश्चिद्विप्रस्तु मध्येमार्गे यदृच्छया ।

तस्माद्राजा परं क्लेशमवाप करुणाकुलः ॥

38

तस्मिन् विनिर्मितं पूर्वमवशिष्टमभूद्गृहम् ।

सर्वेभ्यो ब्राह्मणेभ्यश्च ददौ भूमिं गृहं च गाम् ॥

39

यदृच्छयाऽऽगतस्तत्र कश्चिद्विप्रो वयोऽधिकः ।

अवशिष्टं गृहं मह्यं देहीति प्राप भूपतिम् ॥

40

प्रहृष्टश्च महाराजो गृहं तस्मै ददौ महत् ।

विवेश तद्गृहं विप्रो निजदारसमन्वितः ॥

41

अथान्यस्मिन् दिने राजा स्वदत्तगृहवासिनः ।

भक्त्यैव ब्राह्मणान् द्रष्टुमाययौ विहिताञ्जलिः ॥

42

तदा सर्वेऽपि तं विप्रा राजानं धर्मचारिणम् ।

आतिथ्येन विधानेन पूजयामासुरादरात् ॥

43

अवशिष्टं गृहं पूर्वं दत्तं तु ब्राह्मणाय च ।

कपाटबद्धं तत्रासीद् दृष्ट्वा तत्प्राप विस्मयम् ॥

44

आलोच्य कारणं विप्रैः राजा धर्मवतां वरः ।

स्वयं कपाटमुद्घाट्य प्रविवेश गृहं महत् ॥

45

तत्रैव पुण्डरीकाक्षं पुरुषं च पुरातनम् ।

पुरन्दरं पूर्णरूपं पुरुहूतं पुरुष्टुतम् ॥

46

शङ्खचक्रधरं विष्णुं शरणागतवत्सलम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभं कम्बुकन्धरम् ॥

47

प्रसन्नवदनं देवं भक्तानामभयप्रदम् ।

पीताम्बरधरं चापि प्रभुं त्रिजगतामपि ॥

48

दृष्ट्वा भुजङ्गशयनं पद्मनाभं कृताञ्जलिः ।

तुष्टाव बाष्पसुस्निग्धलोचनः पुलकाङ्कितः ॥

49

शिबिरुवाच

नमो नमः पन्नगशायिने ते ।

नारायणायाखिललोकसाक्षिणे

यन्नाभिपद्मादभवद्विधाता ।

वेदस्वरूपः परमार्थदर्शी ॥

50

ब्रह्मात्मना यो विदधाति सृष्टिं

रुद्रात्मनान्तेऽस्य तथा विनष्टिम् ।

स्वयं स्वरूपेण च पाति लोकं

तस्मै नमस्ते भुवनेश्वराय ॥

51

विशुद्धसत्त्वं तव रूपमेतद्

यस्मिन् न सत्त्वं च रजस्तमश्च ।

अप्राकृतं मङ्गलमेव नित्यं

विदन्ति वेदेन हि विप्रवर्याः ॥

52

स्वयं प्रकाशं परमप्रमेयं

प्रमाणहेतुं भवतः स्वरूपम् ।

द्रष्टुं प्रमाणेन च कः समर्थः

निवर्तते यत्र मनो वचश्च ॥

53

तस्मान्न साध्योऽसि कुयोगिनां त्वं

योगेन सांख्येन च कर्मणा वा ।

सन्त्यक्तनानाविधसाधनानां

चिद्रूपदीपः स्वयमेव भासि ॥

54

ज्ञात्वा स्वचित्ते स्वत एव भान्तं

सत्यस्वरूपं स्वरसं भवन्तम् ।

स्वामिन् रमन्ते सुधियो हि शान्ताः

तेषां सुखं नियतं नेतरेषाम् ॥

55

ये कामयन्ते बहिरेव सौख्यं

शब्दादिसांसारिकवस्तुजातम् ।

ते नैव जानन्ति हृदि स्थितं त्वाम्

आनन्दमात्रं खलु ते दरिद्राः ॥

56

धन्या हि ये ते सततं स्मरन्ति

श्यामं सरोजायतलोचनं त्वाम् ।

सशङ्खचक्रं जगतां शरण्यं

हृदि स्थितं श्रीपतिमाप्तकामम् ॥

57

न कामये ब्रह्मशिवादिलोकान्

स्वर्गं च साम्राज्यमपि प्रभो त्वम् ।

चैव चित्ते निवसन् सदा मे

प्रयच्छ भक्तिं तव पादपद्मे ॥

58

अतः परं किं वरणीयमस्ति

प्रपन्नसंरक्षणदीक्षितं त्वाम् ।

प्राप्यापि लोके भगवन्तमीशं

प्रसन्नवक्त्रं भयनाशनं च ॥

59

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथः पुण्डरीकविलोचनः ।

शिबिराजप्रार्थनया लोकानुग्रहतत्परः ॥

60

श्वेताचले सुप्रसन्नो नित्यं वसति केशवः ।

अर्चावताररूपेण नराणामक्षिगोचरः ॥

61

तं द्रष्टुममराः सर्वे ब्रह्मरुद्रपुरोगमाः ।

मुनयोऽपि तथा सिद्धाश्चायान्त्यत्र दिने दिने ॥

62

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।

यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे तृतीयभागे श्वेताचलमाहात्म्यं नाम द्वितीयोऽध्यायः ॥
Ch.01 Tṛtīya Bhāge Ch.03