Verses

दिव्यदेशवैभवसङ्ग्रहः Divya Deśa Vaibhava Saṅgrahaḥ

1

श्रीसद्गुरुरुवाच

पवित्रे भारते देशे सुरासुरनमस्कृते ।

सन्ति क्षेत्राणि तीर्थाणि तत्र तत्रापि कोटिशः ॥

2

तानि सर्वाणि तीर्थाणि वक्तुं कोऽपि न शक्नुयात् ।

अष्टोत्तरशतं प्रोक्तुं क्षेत्राणां सङ्ग्रहेण हि ॥

3

पुरा नानापुराणेषु तत्र तत्रापि कीर्तितम् ।

सङ्गृह्य दिव्यदेशानां वैभवं कीर्तितं मया ॥

4

अधिष्ठितत्वाद्देवेन गीतत्वाद्दिव्यसूरिभिः ।

दिव्यप्रबन्धप्रोक्तत्वाद्दिव्यदेश इतीर्यते ॥

5

वैकुण्ठमपि सन्त्यज्य भक्तानुग्रहतत्परः ।

श्रीपतिर्दिव्यदेशेषु सन्निधत्ते कलौ युगे ॥

6

अर्चावतारं सङ्गृह्य दिव्यदेशेषु माधवः ।

अनुग्रहाय भक्तानां सान्निध्यं कुरुते कलौ ॥

7

तेषां तु दिव्यदेशानां माहात्म्यं केन गण्यते ।

प्राधान्यतोऽपि सङ्गृह्य केवलं कीर्त्यते मया ॥

8

आदौ वैकुण्ठलोकस्य माहात्म्यमभिकीर्तितम् ।

ततः क्षीराम्बुधेश्चापि वैभवं परमं शुभम् ॥

9

बदर्याश्रममाहात्म्यं श्रीखण्डनगरस्य च ।

हरिद्वारस्य गङ्गायास्त्रिवेणीसङ्गमस्य च ॥

10

वाराणस्या गयायाश्च नैमिषस्य वनस्य च ।

अयोध्यायाश्च माहात्म्यं यत्र जज्ञे रघूत्तमः ॥

11

मधुरायाश्च माहात्म्यं यत्र जज्ञे यदूत्तमः ।

यमुनाया गोकुलस्य तथा बृन्दावनस्य च ॥

12

द्वारकायाः प्रभासस्य कुरुक्षेत्रस्य वैभवम् ।

अवन्त्याः पुष्करस्यापि जगन्नाथपुरस्य च ॥

13

श्रीकूर्मक्षेत्रमाहात्म्यं तथा भद्राचलस्य च ।

एवमुत्तरदेशस्थक्षेत्राणां कीर्तितं मया ॥

14

अहोबिलस्य माहात्म्यं वेङ्कटाद्रेश्च कीर्तितम् ।

पवित्रं प्रथमे भागे पठनात्पापनाशनम् ॥

15

काञ्चीपुरस्थितानाञ्च क्षेत्राणां वैभवं ततः ।

माहात्म्यं गृध्रसरसः लक्ष्मीस्थानस्य वैभवम् ।

क्षेत्रस्य किंगृहाख्यस्य ततो नीरगिरेरपि ॥

16

नित्यकल्याणमूर्तेश्च सागरे स्थलशायिनः ।

कैरविण्याश्च माहात्म्यं घटिकाद्रेश्च कीर्तितम् ॥

17

कृष्णारण्यस्य माहात्म्यमहीन्द्रनगरस्य च ।

मधुरान्तपुरस्यापि माहात्म्यं परिकीर्तितम् ॥

18

एवं पल्लवतुण्डीरस्थितानां कीर्तितं मया ।

अस्मिन् द्वितीयभागे च श्रवणान्मङ्गलप्रदम् ॥

19

कदम्बवनमाहात्म्यं तथा श्वेतगिरेरपि ।

बाणक्षेत्रस्य माहात्म्यं तथाऽपूपघटस्य च ॥

20

खण्डनक्षेत्रमाहात्म्यं पराशरवनस्य च ।

अथ मेलनपुर्याश्च कपिस्थलपुरस्य च ॥

21

भूतपुर्याश्च माहात्म्यमथादनपुरस्य च ।

माहात्म्यं कुम्भकोणस्य तथा शुक्रपुरस्य च ॥

22

अथ नन्दिपुरस्यापि व्योमपुर्याश्च वैभवम् ।

वञ्जुलारण्यमाहात्म्यं सारक्षेत्रस्य वैभवम् ॥

23

कृष्णारण्यकृष्णमङ्गाकृष्णपुर्याश्च वैभवम् ।

बालव्याघ्रपुरस्याथ तथा नागपुरस्य च ।

पुण्डरीकस्य श्रीमुष्णचम्पकारण्ययोस्तथा ॥

24

गोसखक्षेत्रमाहात्म्यं सुगन्धिवनवैभवम् ।

द्वादशक्षेत्रमाहात्म्यं श्रीरामनगरस्य च ॥

25

व्योमज्योतिर्वैभवञ्च श्वेतारण्यस्य वैभवम् ।

एवं तृतीयभागेऽस्मिन् विशदं कीर्तितं मया ।

अथ श्रीरङ्गमाहात्म्यं चतुर्थे च प्रकीर्तितम् ॥

26

वृषभाचलमाहात्म्यं तथा गोष्ठीपुरस्य च ।

अथ सत्यगिरेश्चापि रामसेतोश्च कीर्तितम् ॥

27

मोहनक्षेत्रमाहात्म्यमथ धन्विपुरस्य च ।

ताम्रपर्णीतटस्थस्य नवक्षेत्रस्य वैभवम् ॥

28

महेन्द्रगिरिमाहात्म्यं परिचारपुरस्य च ।

निम्नगानगरस्यापि ततोऽनन्तपुरस्य च ॥

29

नीरदक्षेत्रमाहात्म्यं श्रीसूक्तिनगरस्य च ।

शार्दूलपुरमाहात्म्यं श्रीशोणाद्रिपुरस्य च ॥

30

अथ नावपुरस्यापि श्रीवल्लभपुरस्य च ।

अथ भृङ्गपुरस्यापि विद्वद्गोष्ठीपुरस्य च ॥

31

कटिस्थानपुरस्याथ वारवेलापुरस्य च ।

यादवाद्रेश्च माहात्म्यं गुरुवायुपुरस्य च ॥

32

उडुपिक्षेत्रमाहात्म्यं पण्डरीपुरवैभवम् ।

एवं पञ्चमभागे च कीर्तितं क्षेत्रवैभवम् ।

एवमष्टोत्तरशतं क्षेत्राणां कीर्तितं खलु ॥

33

माहात्म्यं दिव्यदेशानां मङ्गलानाञ्च मङ्गलम् ।

पठनाच्छ्रवणात्सद्यो वैकुण्ठफलदायकम् ॥

34

यः पठेच्छ्रद्धया नित्यं दिव्यदेशस्य वैभवम् ।

यात्राफलमवाप्नोति स्मरणादेव पावनम् ॥

35

आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसन्ततिम् ।

धनं धान्यमवाप्नोति दिव्यदेशस्य कीर्तनात् ॥

36

ज्ञानतोऽज्ञानतो वापि कृतानां जन्मजन्मनः ।

विनश्यन्ति च पापानि दिव्यदेशस्य कीर्तनात् ॥

37

राजयक्ष्मादिरोगाश्च दुःखानि विपदस्तथा ।

नश्यन्ति भयचिन्ताश्च दिव्यदेशस्य कीर्तनात् ॥

38

तथा मोक्षमवाप्नोति नरः संसारसागरात् ।

श्रुत्वैव श्रद्धया नित्यं दिव्यदेशस्य वैभवम् ॥

39

कलिदोषान्धकारेण प्रावृते भुवने ननु ।

दिव्यदेशप्रभावेण विष्णुभक्तिः प्रकाशते ॥

40

आहूयाहूय मनुजान् दिव्यदेशं प्रदर्शयेत् ।

भगवत्प्रीतिपात्रं स्याद्दिव्यदेशप्रदर्शकः ॥

41

कलौ कल्मषचित्तानां नूनमज्ञानिनामपि ।

ददाति दर्शनं दिव्यं दिव्यदेशेषु केशवः ॥

42

ददाति निजभक्तानां वाञ्छितार्थफलानि च ।

दिव्यदेशेषु सान्निध्यं कुर्वन् वैकुण्ठनायकः ॥

43

इतस्ततो धावसि किं नानादुःखसमाकुलः ।

दिव्यदेशं समाश्रित्य दैवकैङ्कर्यमाचर ॥

44

कुर्वन् दीपादिकैङ्कर्यं दिव्यदेशेषु मानवः ।

स्वर्ग्यं सुखमवाप्नोति विमुक्तो नरकादपि ॥

45

दिव्यदेशस्थितेभ्यश्च दानं कुर्वन् यथाविधि ।

भगवत्कृपया नूनं सर्वदुःखाद्विमुच्यते ॥

46

मङ्गलं दिव्यदेशेभ्यो देवदेवाय मङ्गलम् ।

मङ्गलञ्च तदीयेभ्यो देशिकेभ्यश्च मङ्गलम् ॥

47

कीर्तितं प्रेमिकेन्द्रेण दिव्यदेशस्य वैभवम् ।

आचन्द्रार्कं विजयतां विष्णुभक्तिश्च वर्धताम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे दिव्यदेशवैभवसङ्ग्रहः नाम अष्टात्रिंशोऽध्यायः ॥
Ch.37 Pañcama Bhāge