Verses

मोहनक्षेत्रमाहात्म्य Mohana Kṣetra Māhātmya

1

श्रीसद्गुरुरुवाच

असुरैः पीडिता देवा ब्रह्माणं शरणं ययुः ।

सत्यलोकमुपागत्य देवदेवं जगत्पतिम् ॥

2

देवा ऊचुः

कमलासन देवेश दनुजैः पीडिता वयम् ।

त्वामेव शरणं यामो भुवनत्रयनायकम् ॥

3

त्वयैव स्थापिता देव पूर्वपुण्यफलेन हि ।

आधिकारिकसंस्थाने रक्षामो जगतीं वयम् ॥

4

अस्मान् दैत्यास्तु बाधन्ते महाबलपराक्रमाः ।

अस्माभिर्निहतान् भूयः शुक्राचार्यो महामुनिः ।

मृतसञ्जीवनीनाम्न्या सञ्जीवयति विद्यया ॥

5

वयं च तादृशीं विद्यां न जानीमो जगत्पते ।

तस्माद्वयं दुर्बलाः स्मः पाहि नः कमलोद्भव ॥

6

ब्रह्मोवाच

भद्रमस्तु महाभागा युष्माकं जगतस्तथा ।

गोविन्दं शरणं याम सर्वमङ्गलकारणम् ॥

7

यथा हि स्कन्धशाखानां तरोर्मूलनिषेचनम् ।

एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥

8

श्रीसद्गुरुरुवाच

इत्युक्त्वा तान् सुरान् सर्वानानीय कमलासनः ।

क्षीरसिन्धुमुपागत्य हरिं शरणमाययौ ॥

9

तदा तान् भगवान् विष्णुः क्षीराब्धिमथनाय च ।

प्रेषयामास सानन्दं स्वच्छन्दगतिरीश्वरः ॥

10

सर्वे चोदितास्तेन विष्णुना सह दानवैः ।

आजहुर्मन्दरं शैलं वासुकिम् उरगाधिपम् ॥

11

मन्थानं तं गिरिं कृत्वा वासुकिं सूत्रमेव च ।

क्षीराब्धिमथनं चक्रुरमृतस्य पिपासया ॥

12

अत्रैव भगवान् कृष्णः स्वयं कच्छपरूपधृत् ।

उद्दधार गिरिं पृष्ठे सुरासुरनमस्कृतः ॥

13

तदा विषमभूत्तस्माद्घोरं हालाहलाह्वयम् ।

शङ्करं शरणं भेजुर्भीतास्त्वमरदानवाः ॥

14

पपौ हालाहलं रुद्रस्तस्माद्धालास्यसुन्दरः ।

आस्ये हालाहलं यस्य नीलकान्त्या विराजते ॥

15

पुनश्च मथ्यमानेऽब्धौ कामधेनुश्च कल्पकः ।

उच्चैःश्रवा गजेन्द्रश्च कौस्तुभं चाप्सरोगणः ॥

16

अभूवन्नम्बुधेस्तस्माल्लेभिरे तान् सुरासुराः ।

सहस्रदलपद्मेऽथ साक्षाल्लक्ष्मीर्वरानना ।

आविर्भूता विष्णुमेव पतिं वव्रे जगत्पतिम् ॥

17

ददौ वक्षःस्थलं तस्यै श्रीनिवासो बभूव सः ।

ततो धन्वन्तरिर्विष्णुराविर्भूतः कृपानिधिः ।

आदायामृतकुम्भं च हस्तेनाद्भुतसुन्दरः ॥

18

तुष्टुवुस्तं सुराः सर्वे बद्धाञ्जलिपुटास्तथा ।

तत्करादमृतं जह्रुर्वञ्चयित्वा तु दानवाः ॥

19

वञ्चकानसुरान् विष्णुः पुनर्वञ्चयितुं प्रभुः ।

मोहिनीं मूर्तिमाधाय बभौ भुवनमोहनः ॥

20

मोहनक्षेत्रमागत्य मधुरायाः समीपतः ।

दैत्यास्ते कलहं चक्रुः सुधां तां पातुमिच्छया ॥

21

तदा तत्रागतां दृष्ट्वा मोहिनीं मोहिताः स्वयम् ।

ददुस्तस्यै सुधाकुम्भं कर्तुं ते परिवेषणम् ॥

22

देवान्निवेश्य दैत्यांश्च मोहिनी तान् पृथक् पृथक् ।

गायन्ती च नटन्ती च चकार परिवेषणम् ॥

23

तदा तस्यास्तु सौन्दर्यं दृष्ट्वा तद्ग्रहणेच्छया ।

मुमुहुर्दानवाः सर्वे सुधां चापि न सस्मरुः ।

देवेभ्यः प्रददौ सा तु सुधां सर्वविमोहिनी ॥

24

स्वर्भानुर्नाम दैत्यस्तु तद् दृष्ट्वा वञ्चनं महत् ।

दैत्यपङ्क्तिं विहायैव देवपङ्क्त्यामुपाविशत् ॥

25

तं विलोक्यापि गोविन्दः कृपया समदर्शनः ।

सुधां तथा तस्मै जाननेव जगत्प्रभुः ॥

26

अयं स्वर्भानुरसुरो हन्यतां हन्यतामिति ।

ऊचतुः परमक्रुद्धौ चन्द्रादित्यावसूयया ॥

27

सहसा भगवान् विष्णुः शिरश्चिच्छेद तस्य च ।

सुधया जीवितं चासीच्छिरो रुण्डं पृथक् पृथक् ॥

28

राहुं केतुं तथा चक्रे ग्रहैश्च समयोजयत् ।

तदाप्रभृति लोके तु बभूवुश्च नवग्रहाः ॥

29

पूर्वं सप्तग्रहा एव ह्यासन् वासरहेतवः ।

छायारूपेण तौ चापि गृह्णीतश्चन्द्रभास्करौ ॥

30

मुहुर्मुहुः स्वचक्रेण तौ निवारयति प्रभुः ।

उपरागो भवेत्तस्माच्छायास्पर्शेन वै तयोः ॥

31

एवं स्वममृतं दत्वा मोहिनीरूपधृग्धरिः ।

तत्रैवान्तर्दधे तूर्णं सुधाकुम्भेन माधवः ॥

32

तं कुम्भमवशिष्टं च निदधे वडवानले ।

दैवासुरमभूद्युद्धं सहसैव भयङ्करम् ॥

33

अथ तान् सान्त्वयामास नारदः सुरदानवान् ।

तत्तत्प्रभावं विज्ञाप्य लोकमङ्गलकारणात् ॥

34

तदेव क्षेत्रप्रवरं मोहनाख्यं धरातले ।

चकार यत्र भगवान् सुधायाः परिवेषणम् ॥

35

विष्णुं च कालमेघाख्यं श्रियं मेघलताभिधाम् ।

सुधापुष्करिणीं चापि मोहनक्षेत्रमेव च ॥

36

ये सेवन्ते जनास्तेषां रोगा नश्यन्ति सर्वशः ।

भवन्ति देवतुल्याश्च जरामयविवर्जिताः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे मोहनक्षेत्रमाहात्म्यं नाम अष्टमोऽध्यायः ॥
Ch.07 Pañcama Bhāge Ch.09