Verses

श्रीबदरक्षेत्रमाहात्म्यम् Śrī Badara Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

कदाचिद्वरुणो देवो निजे रत्नाकरे गृहे ।

विजहार स्वपत्नीभिर्जाह्नवीनर्मदादिभिः ॥

2

तदा तत्रागतं विप्रं देवाचार्यं बृहस्पतिम् ।

दृष्ट्वा न पूजयामास लीलारसकुतूहलः ॥

3

तस्माद्बृहस्पतिस्तूर्णमुपेक्ष्य वरुणं प्रभुम् ।

जगाम निलयं स्वीयमात्मानं बहुमानयन् ॥

4

गुरोरवज्ञया तस्य नष्टं वीर्यं बलं यशः ।

तदा दैत्याः प्रहृष्टाश्च युद्धं कर्तुमुपाययुः ॥

5

युद्धे विजित्य वरुणं दानवास्तु महाबलाः ।

जगृहुस्तस्य राज्यं च पाशं रत्नाकरं तथा ॥

6

वरुणो दुःखितो भूत्वा सद्यो ब्रह्मसभां गतः ।

व्यजिज्ञपन्निजं दुःखं ब्रह्मणे परमेष्ठिने ॥

7

वरुण उवाच

प्रजापते नमस्तेऽस्तु प्रसीद कमलासन ।

वयं त्वयैव निहिता लोकपालनकर्मणि ॥

8

आज्ञां वहामो मूर्ध्ना ते लोकपाला वयं प्रभो ।

दैत्या महाबला युद्धे जित्वा मां जगृहुर्धनम् ॥

9

एवं परिभवं प्राप्य विसृज्य च निजालयम् ।

त्वामेव शरणं यामि किं कर्तव्यमितः परम् ॥

10

ब्रह्मोवाच

गुरोरवज्ञया युद्धे जितोऽसि झषवाहन ।

गुरोरनुग्रहेणैव पुनर्मङ्गलमाप्नुयाः ॥

11

गुरुं हुङ्कृत्य धिक्कृत्य ह्यनादृत्यावमत्य च ।

भ्रश्यन्ति सर्वश्रेयोभ्यः सहसा गर्विता जनाः ॥

12

तस्मात् प्रसादय त्वं च गुरुं गीर्वाणपूजितम् ।

गुरोरनुग्रहेणैव पुनः श्रियमवाप्स्यसि ॥

13

श्रीसद्गुरुरुवाच

इत्युक्तो वरुणो राजा बृहस्पतिमुपागतः ।

प्रणम्य सान्त्वयामास स्वापराधं क्षमापयन् ॥

14

सद्य एव प्रसन्नोऽभूद्गुरुः कृपणवत्सलः ।

उवाच मधुरं वाक्यं वरुणं देवसत्तमम् ॥

15

गुरुरुवाच

प्रसन्नोऽस्मि महाराज विनयेन तवामुना ।

अतो मङ्गलमार्गं ते वदामि कृपया ननु ॥

16

अवज्ञया ब्राह्मणानां स्थानान्नश्यन्ति वै जनाः ।

ब्राह्मणा वेदरूपेण विष्णुं वक्त्रे धरन्ति हि ॥

17

ताम्रपर्णी नदीतीरे वर्तते बदरीवनम् ।

तत्र विष्णुं प्रतिष्ठाप्य पूजय त्वं महायशः ॥

18

तस्य विष्णोः प्रसादेन प्रसन्नोऽस्मि त्वयि प्रभो ।

विष्णुर्हि देवानां तमाश्रित्य रिपुं जहि ॥

19

श्रीसद्गुरुरुवाच

गुरुणा प्रेरितो राजा वरुणो भक्तिपूर्वकम् ।

ताम्रपर्णीतटं गत्वा पूजयामास केशवम् ॥

20

भगवान् ददृशे तत्र श्रीमान्मकरकुण्डलः ।

श्रिया भूम्या च सहितः शङ्खचक्रगदाधरः ॥

21

प्रणम्य सर्वलोकेशं देवदेवं जनार्दनम् ।

तुष्टाव वरुणो राजा बाष्पपूरितलोचनः ॥

22

वरुण उवाच

सङ्कल्पमात्रेण हि सर्वलोकान् ।

सृष्ट्वाऽभिरक्षन् हरसि त्वमेव

प्रविश्य चास्मासु विराजसे त्वं ।

वदन्ति तस्माच्छ्रुतयश्च विष्णुम् ॥

23

सुरासुराणां च नियामकस्त्वं

तवैव चाङ्गानि समस्तदेवाः ।

व्याप्तं त्वयेदं किल विश्वरूप

नमो नमस्ते नतवत्सलोऽसि ॥

24

केनापि पुण्येन पदं ह्यवाप्य

स्थाने स्थितास्त्वत्करुणाप्रभावम् ।

विस्मृत्य मत्ता बहुमानयुक्ता

गर्वेण भूयः शुचमाप्नुवन्ति ॥

25

त्वं दर्पहारी किल गर्वितानां

कालस्वरूपो गणयंस्तदायुः ।

विराजसे पृष्ठत एव देव

तथापि ते नैव विदन्ति मत्ताः ॥

26

विभूतिराभाति हि यत्र यत्र

प्रकाशसे त्वं किल तत्र तत्र ।

तस्माल्लभन्ते न कदापि विस्मयं

कस्यापि दृष्ट्वा सुजनाः प्रभुत्वम् ॥

27

शान्ताः महान्तः समदर्शिनस्ते

कुर्वन्ति सर्वत्र तव प्रणामम् ।

ईर्ष्याभयक्रोधमुखास्तु दोषा-

स्तेषां हृदि क्वापि न संभवन्ति ॥

28

जानामि सर्वं तदिदं परात्मन्

स्तथापि माया तव दुर्जयैव ।

वृणोमि तस्मादहमल्पमेव

राज्यं विनष्टं दनुजैर्हृतं मे ॥

29

नमो नमस्ते श्रितवत्सलाय

नारायणायाम्बुजलोचनाय ।

नानाजगत्सृष्टिविधायकाय

नागेन्द्रपर्यङ्कशयाय भूम्ने ॥

30

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथ भगवान् पक्षिवाहनः ।

असुरैः समरं कृत्वा विजित्य लघुलीलया ॥

31

ददौ पाशं तथा राज्यं गृहं रत्नाकरं हरिः ।

वरुणायाप्रमेयाय वासुदेवो जगत्पतिः ॥

32

तदिदं बदरक्षेत्रं ताम्रपर्णीतटस्थितम् ।

भजन्ते ये नरास्तेषां न कदापि पराभवः ॥

33

विनष्टं लभते राज्यं धनं धान्यं तथा यशः ।

दर्शनादेव कृष्णस्य बदरक्षेत्रवासिनः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे श्रीबदरक्षेत्रमाहात्म्यम् नाम सप्तदशोऽध्यायः ॥
Ch.16 Pañcama Bhāge Ch.18