Verses

निधिवनमाहात्म्यम् Nidhi Vana Māhātmyam

1

श्रीसद्गुरुरुवाच

कदाचिदलकापुर्यां कुबेरो यक्षपुङ्गवः ।

नवभिर्निधिभिः सेव्यो राजा वैश्रवणो बभौ ॥

2

देवाश्च सिद्धा गन्धर्वा यक्षा विद्याधरास्तथा ।

किन्नराश्चाप्सरसस्तं राजानं तं सिषेविरे ॥

3

सौगन्धिकवने रेमे सुन्दरीभिर्धनेश्वरः ।

वारुणीं मदिरां पीत्वा मदाकुलविलोचनः ॥

4

गत्वा कैलासशिखरं कृत्वा च शिवदर्शनम् ।

आययौ च तदा तत्र दुर्वासा भगवान्मुनिः ॥

5

नैव तं पूजयामास न च स्वागतमब्रवीत् ।

आत्मानं धनिकं मत्वा गर्वितो यक्षपुङ्गवः ॥

6

शशाप तं मुनिश्रेष्ठः कोपारुणविलोचनः ।

शिक्षार्थं तस्य यक्षस्य क्षमावानपि नान्यथा ॥

7

दुर्वासा उवाच

देवाधिदेवो भगवान् वासुदेवः श्रियः पतिः ।

ब्राह्मणान् सेवते नित्यं विनीतो वेदपारगान् ॥

8

यस्याः कटाक्षलेशेन दरिद्रो धनिको भवेत् ।

सा लक्ष्मीः सेवते नित्यं विष्णोश्चरणपङ्कजम् ॥

9

स्वे स्वेऽधिकारे निर्णीता यूयं लोकेश्वराः खलु ।

नियामको हि गोविन्दः सर्वेषां परमेश्वरः ॥

10

नापि पूर्वतपसा स्थानं प्राप्यापि दुर्भगाः ।

पुनः पतन्ति गर्वेण स्वर्गात् नहुषो यथा ॥

11

गर्वो हि परमो दोषो विनयः परमो गुणः ।

कृपणो यस्त्वसन्तुष्टो गुणाढ्यो ह्याढ्य उच्यते ॥

12

गुणहीनस्य निखिलं धनं नष्टं भवेद् ध्रुवम् ।

धनहीनोऽपि गुणवान् सुखं जीवति सर्वथा ॥

13

धनेन सर्वे दोषाश्च स्वयमायान्ति मानवम् ।

तस्माद्धनं परित्यज्य गुणान् संपादयेत् सुधीः ॥

14

यस्माद्धनेन मत्तस्त्वमवज्ञां कृतवानसि ।

तस्माद्दरिद्रो भूयास्त्वं विनयस्तु स्वयं यतः ॥

15

श्रीसद्गुरुरुवाच

एवं शप्तो यक्षराजो मुनिनैव यदृच्छया ।

बभूव विस्मितस्तत्र भयेन विहिताञ्जलिः ॥

16

न शशाक समाधातुं मुनिं परमकोपनम् ।

तं दोषमात्मनो मत्वा तस्थौ लज्जान्वितः प्रभुः ॥

17

तदाप्रभृति तं त्यक्त्वा कुबेरं निधयो नव ।

ताम्रपर्णीतटे विष्णुं भजन्ति स्म वनान्तरे ॥

18

कुबेरः कृपणो भूत्वा भुवने बहु दुःखितः ।

कैलासशिखरं गत्वा शङ्कराय न्यवेदयत् ॥

19

कुबेर उवाच

प्रसीद भगवन् शम्भो प्रसीद परमेश्वर ।

श्रीकण्ठ शिव लोकेश दारिद्र्यं मे विनाशय ॥

20

तव पूजाप्रभावेण लब्ध्वाऽहं परमं धनम् ।

देवैः संमानितो नित्यमवसं ह्यलकापुरे ॥

21

शापेन दुर्वाससोऽहमागतस्य यदृच्छया ।

संप्राप्य दुःखं दारिद्र्यं सीदामि वृषभध्वज ॥

22

धनहीनं जनं लोके पूजयन्ति न केचन ।

शुश्रूषते नैव भार्या न पुत्रः सेवते च तम् ॥

23

निन्दन्ति बान्धवाः सर्वे धनहीनं हसन्ति च ।

धनेन धर्माचरणं धनेन सुखजीवनम् ॥

24

धनेन बान्धवाः सर्वे धनेन परमं यशः ।

धनहीनस्य निखिलं जीवनं दुःखदं भवेत् ॥

25

प्रयत्नेन गृही नित्यं तस्मात्संपादयेद्धनम्

नवानां च निधीनां त्वं विनष्टानां महेश्वर ।

पुनर्लाभाय मे मार्गं वद त्वं कृपया शिव ॥

26

शिव उवाच

स्वागतं ते महाराज मा विषीद महामते ।

वचनं सावधानं मे शृणु त्वं यक्षनायक ॥

27

अर्थेन साधयेद्धर्मं काममर्थेन साधयेत् ।

तस्मादर्थत्वमर्थस्य ह्यन्यथाऽनर्थमेव तत् ॥

28

धर्माचारविहीनं तु लोभिनं कामिनं तथा ।

दुराचारं स्वयं त्यक्त्वा धनं गच्छत्युपेक्षया ॥

29

विद्या विनयसंपन्नं स्वधर्मनिरतं नरम् ।

उत्साहवन्तमुद्युक्तं स्वयं याति धनं महत् ॥

30

ताम्रपर्णीनदीतीरे वर्तते क्षेत्रमुत्तमम् ।

उपासते तत्र विष्णुं नवापि निधयो हरिम् ॥

31

तमेव विष्णुं जानीहि निक्षिप्तनिधिमुत्तमम् ।

तमेवाश्रित्य सहसा दरिद्रो धनिको भवेत् ॥

32

त्वं तत्र दृष्ट्वा गोविन्दमभ्यर्च्य विधिपूर्वकम् ।

प्राप्स्यसि त्वं धनं भूयो दारिद्र्यं ते विनङ्क्ष्यति ॥

33

श्रीसद्गुरुरुवाच

इत्युक्तः शम्भुना यक्षो गत्वा ताम्रवतीतटम् ।

गत्वा निधिवनं तत्र ददर्श हरिमीश्वरम् ॥

34

शयानं शेषपर्यङ्के शक्रनीलमणिप्रभम् ।

आजानुबाहुं गोविन्दं सर्वाभरणभूषितम् ॥

35

श्रीवत्सकौस्तुभधरं पीताम्बरधरं हरिम् ।

प्रसन्नं पुण्डरीकाक्षं मन्दस्मितमुखाम्बुजम् ॥

36

श्रिया भूम्या च सानन्दं संलालितपदाम्बुजम् ।

मूर्ध्निबद्धाञ्जलिपुटैः सेवितं सुरसत्तमैः ॥

37

पुराणपुरुषं दृष्ट्वा बाष्पस्निग्धविलोचनः ।

कुबेरः प्रार्थयामास विनीतो विहिताञ्जलिः ॥

38

कुबेर उवाच

ब्रह्मादिदेवनिकराः कृपया तवैव ।

स्थाने स्थितास्तव वहन्ति निदेशमीश ।

तैः पालितं जगदिदं सततं त्वदीयैः ।

ते चापि सन्ति सुखिनः कमलाकटाक्षात् ॥

39

वक्षःस्थले वसति सा कमला तवैव

नित्यं चलापि न चलत्यरविन्दनेत्र ।

तस्मात्तवैव कृपया कृपणाश्च लोके

आढ्या भवन्ति रमया किल वीक्षमाणाः ॥

40

यस्याः कटाक्षमवलम्ब्य धनं लभन्ते

शक्रादयः सुरगणा अपि सा तु लक्ष्मीः ।

त्वामेव नित्यमनघं भजते स्थिरैव

त्वत्तोऽपि कः प्रभुरिहास्ति महावदान्यः ॥

41

श्रीमन्तमार्तशरणं करुणाम्बुराशिम्

दातारमाश्रितसुरद्रुमममोघमीशम् ।

पार्श्वे स्थितं स्मितमुखं मृदुभाषिणं त्वां

त्यक्त्वा भजन्ति कवयो धनदुर्मदान्धान् ॥

42

त्वामेव शाश्वतधनं हृदि ये विदन्ति

नित्यं स्थितं शुभकरं भयशोकनाशम् ।

आढ्या हि ते तु विरमन्ति भजन्ति शान्तिम्

अन्ये भ्रमन्ति भुवने हि धनार्जनाय ॥

43

त्वन्माययाऽऽवृतमतिर्भुवने तथाऽहं

त्वामेव भृत्यसुलभं सुहृदं कृतज्ञम् ।

संप्राप्य चार्थमधिकं भगवन् विलज्जः

संप्रार्थये सपदि देहि तमेव देव ॥

44

जानासि मे हृदयमच्युत लोकनाथ

स्वामिन् मदीयमपराधमिमं क्षमस्व ।

अर्थार्थिभक्तचरमावधिदेशसंस्थं

चित्ते तव स्मर कृपाकर दीनमेनम् ॥

45

स्वाभाविकानवधिकामितवैभवस्य

ते सन्निधौ भगवतो जगदीश्वरस्य ।

वित्तेश्वरत्वमुपलभ्य च दीननाथ

दीनोऽस्म्यहं मयि सदा कुरु ते कटाक्षम् ॥

46

श्रीभगवानुवाच

अभयं यक्षराजेन्द्र गच्छ त्वमलकापुरीम् ।

नवापि निधयस्तत्र त्वां लभेरन् न संशयः ॥

47

वित्तेन यस्य चित्ते तु गर्वः सञ्जायते तदा ।

हरामि तस्य वित्तं च गर्वञ्च निधिनायक ॥

48

नवानां च निधीनां त्वमीश्वरोऽसि महामते ।

विनीतो विषयान् भुक्त्वा श्रद्धया धर्ममाचर ॥

49

श्रीसद्गुरुरुवाच

इत्युक्तो विष्णुना यक्षः पुनः प्राप्य पुरीं स्वकाम् ।

तमेव लेभिरे भूयः सहसा निधयो नव ॥

50

अस्मिन् क्षेत्रे रमानाथं ये पश्यन्ति कृपानिधिम् ।

तेषां न क्षीयते वित्तं क्षीयते ऋणमेव हि ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे निधिवनमाहात्म्यम् नाम षोडशोऽध्यायः ॥
Ch.15 Pañcama Bhāge Ch.17