Verses

आदिक्षेत्रमाहात्म्यम् Ādi Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

पारिजातवनामोदशीतमारुतसेविते ।

नन्दने तु शचीदेव्या विजहार शतक्रतुः ॥

2

सुधापरिमलोन्मादसंपन्नो देवनायकः ।

न सस्मार तदाऽऽयान्तं पितरं कश्यपं मुनिम् ॥

3

तं दृष्ट्वा कश्यपः क्रुद्धः प्रावोचत्पाकशासनम् ।

अदित्या देवमात्राऽपि सान्त्वितो मुनिपुङ्गवः ॥

4

कश्यप उवाच

जन्मना कर्मणा चैव विद्यया च धनेन च ।

बलेन यौवनेनैवं मदः सञ्जायते नृणाम् ॥

5

तं मदं वर्धयन्मूढः सुरापानेन वा स्त्रिया ।

कालक्षेपं करोत्येव व्यर्थं धर्मपराङ्मुखः ॥

6

पिता माता च लोकेऽस्मिन् प्रत्यक्षं दैवतं खलु ।

तयोः पूजनमात्रेण धर्मव्याधो दिवं ययौ ॥

7

देवोऽपि सन् बलाराते पितरं कश्यपं च माम् ।

अवजानासि मत्तस्त्वं स्थानाद्भ्रष्टो भविष्यसि ॥

8

श्रीसद्गुरुरुवाच

इत्युक्त्वा कश्यपः क्रुद्धो विरराम महामुनिः ।

शचीदेव्या साकमिन्द्रः प्रणम्य पितरं पुनः ॥

9

अदित्या चोदितः साधु सान्त्वयामास सादरम् ।

गणयन् स्वापराधं तं हृदये परमाकुलः ॥

10

इन्द्र उवाच

पिता हि परमं दैवं पिता हि परमो गुरुः ।

पिता हि परमो धर्मः पिता हि परमा गतिः ॥

11

कः पूजयेन्न पितरं जनकं रक्षकं प्रभुम् ।

यस्य प्रसादमात्रेण प्रसन्नाः सकलाः सुराः ॥

12

कृतज्ञः को न सेवेत मातरं पितरं नरः ।

याभ्यां जातमिदं चाङ्गं याभ्यां बाल्येऽपि पोषितम् ॥

13

पितृभक्त्यास्तु माहात्म्यं जानामि मुनिपुङ्गव ।

तथापि बालभावेन तूष्णीम् आसं क्षमस्व माम् ॥

14

कश्यप उवाच

धर्मं जानासि देवेन्द्र प्रहृष्टोऽस्मि ततस्त्वया ।

धर्मसारं प्रवक्ष्यामि सावधानं शृणु क्षणम् ॥

15

सर्वेषामपि जीवानां पिता माता गुरुर्हरिः ।

तमेवाश्रय गोविन्दं भुवनत्रयरक्षकम् ॥

16

स्त्रीसङ्गं मधुपानं च त्यक्त्वा ग्राम्यकथां तथा ।

सत्सङ्गे निवसन्नित्यं भगवद्भजनं कुरु ॥

17

आदिक्षेत्रं महापुण्यमस्ति ताम्रनदीतटे ।

तत्र तिन्त्रिणिरूपेण वर्तते पन्नगेश्वरः ॥

18

तस्य द्रुमस्य छायायामादिनाथो जगत्पतिः ।

विराजते श्रिया सार्धं शङ्खचक्रगदाधरः ॥

19

तं पूजय महाभाग स्थिरं स्थानमवाप्स्यसि ।

स्थानदाता हि सर्वेषां सुराणामपि केशवः ॥

20

श्रीसद्गुरुरुवाच

इत्युक्तः कश्यपेनाथ प्रसन्नात्मा शचीपतिः ।

आदिक्षेत्रमुपागत्य पूजयामास माधवम् ॥

21

भगवानादिनाथश्च प्रसन्नोऽभवदच्युतः ।

तुष्टाव तं सहस्राक्षः प्रेमगद्गदभाषणः ॥

22

इन्द्र उवाच

यन्नामकीर्तनविमुक्तसमस्तपापा ।

लब्ध्वा विरक्तिमिह भक्तिमथो विवेकम् ।

संसारिणोऽपि परमं पदमेव यान्ति ।

तस्मै नमो भुवनपावनवैभवाय ॥

23

यत्पादभक्तिविमुखा यतयो विरक्ताः

कर्मनिरता गृहिणो द्विजाश्च ।

अष्टाङ्गयोगनिरताश्च भवे पतन्ति

तस्मै नमोऽस्तु हरये मुनिदुर्लभाय ॥

24

यत्पादपद्मयुगलं सततं भजन्तो

ब्रह्मादयोऽपि भुवनं परिपालयन्ति ।

तेषां च दानवभयं हरति स्वयं य-

स्तस्मै नमोऽस्तु निरुपाधिकवैभवाय ॥

25

यत्पाणिपद्ममवलम्ब्य दृढं प्रपन्ना-

स्त्यक्ताऽन्यसाधनलवा भजनप्लवेन ।

संसारसिन्धुमचिरेण तरन्ति जीवाः

तस्मै नमोऽस्तु हरये श्रितवत्सलाय ॥

26

यं प्राप्य जन्ममरणार्तिविमोहमुक्ता

ज्ञात्वा स्वरूपममलं हृदये रमन्ते ।

त्यक्तान्यलाभविषया निजलाभपूर्णा-

स्तस्मै नमोऽस्तु सुहृदे हृदयस्थिताय ॥

27

श्रीसद्गुरुरुवाच

शचीपतिकृतस्तोत्रप्रसन्नवदनाम्बुजः ।

मधुरस्निग्धवाक्येन मन्दमूचेऽथ माधवः ॥

28

श्रीभगवानुवाच

सात्त्विकेष्वपि देवेश प्रमादो दृश्यते क्वचित् ।

क्वचित्क्वचित्तामसेषु दृश्यते चार्जवं तथा ॥

29

तस्मादहं लौकिकानां गुणदोषौ स्वभावजौ ।

अनालोक्य कृपामेव करोमि न हि संशयः ॥

30

मयि भक्तिर्ध्रुवं नृणां प्रवर्धयति सद्गुणान् ।

मयि भक्तिविहीनस्य वर्धन्ते दुर्गुणास्तथा ॥

31

पितृभक्त्या प्रसन्नोऽस्मि तव देवगणोत्तम ।

मत्प्रीत्यर्थं भजन्नित्यं पितरौ धर्ममाचर ॥

32

श्रीसद्गुरुरुवाच

एवमुक्तः शचीनाथो विष्णुना प्रभविष्णुना ।

बाढमित्याह सानन्दं बद्धाञ्जलिपुटो हरिः ॥

33

स्थानं प्राप्य स्थिरं दिव्यं स्वर्गमेव जगाम सः ।

भगवान् लोकरक्षार्थमादिक्षेत्रे विराजते ॥

34

कोऽन्यं देवमुपासीत तं विसृज्य कृपानिधिम् ।

त्यक्तवैकुण्ठवासो यस्ताम्रपर्णीतटं गतः ॥

35

आदिनाथस्य कृपया प्राप्तं स्थानं स्थिरं भवेत् ।

स्वर्गराज्यं स्थिरं प्राप यत्कारुण्यात्पुरन्दरः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे आदिक्षेत्रमाहात्म्यम् नाम अष्टादशोऽध्यायः ॥
Ch.17 Pañcama Bhāge Ch.19