Verses

वरगुणक्षेत्रमाहात्म्यम् Varaguṇa Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

पूर्वं धर्मपुरे राजा कावेरीतीरसंस्थिते ।

आसीद्विश्वसखो नाम विष्णुध्यानपरायणः ॥

2

सत्यसन्धो वदान्यश्च ब्रह्मण्यो धर्मरक्षकः ।

अवनी पालयामास सर्वसंमानितो नृपः ॥

3

सनत्कुमारो भगवानाजगाम यदृच्छया ।

आतिथ्येन विधानेन पूजयामास तं मुनिम् ॥

4

पप्रच्छ तं महात्मानं राजा विश्वसखो मुनिम् ।

प्रणम्य भार्यया साकं विनीतो विहिताञ्जलिः ॥

5

राजोवाच

स्वागतं ते मुनिश्रेष्ठ धन्योऽस्मि तव दर्शनात् ।

अद्य मे पितरस्तृप्ताः प्रसन्नाः कुलदेवताः ॥

6

बहूनां जन्मनामन्ते पूर्वपुण्यफलोदये ।

भगवत्कृपया नूनं लभ्यते साधुसङ्गमः ॥

7

पुण्यक्षेत्रकृतं दानं भवेच्छतगुणं खलु ।

तादृशं परमं क्षेत्रं वद मे मुनिपुङ्गव ॥

8

तत्र गत्वाऽप्यहं देव ब्राह्मणान् वेदपारगान् ।

अभ्यर्च्य वासुदेवस्य प्राप्तुमिच्छाम्यनुग्रहम् ॥

9

काले देशे च पात्रे च यत्किञ्चिद्दीयते नरैः ।

तदेव सफलं नूनं भवति प्रीतये हरेः ॥

10

सनत्कुमार उवाच

क्षेत्रं वरगुणं नाम श्रीवैकुण्ठसमीपतः ।

ताम्रपर्णी नदीतीरे वर्तते राजपुङ्गव ॥

11

नानावृक्षसमाकीर्णं नानापक्षिसमाकुलम् ।

नानातीर्थैः पवित्रं तन्नानामुनिसमर्चितम् ॥

12

नानामृगगणाकीर्णं नानाविधजनाश्रितम् ।

सलिलैर्मेदुरं रम्यं शाद्वलश्यामलं तथा ॥

13

किरातकोऽवसत्तत्र निर्घृणो मत्स्यजीवनः ।

मत्स्यान् जलाद्ग्रहीत्वैष क्रीणाति स्वार्थतत्परः ॥

14

स कदाचिन्नदीतीरे मत्स्यग्रहणलालसः ।

कृष्णसर्पेण दष्टोऽगान्मृतिं तस्मिन् वनान्तरे ॥

15

शरीरं तस्य कान्तारे पतितं गृध्रभोजनम् ।

अभूद्दिव्यविमानेन निन्युर्देवा दिवञ्च तम् ॥

16

एतदाश्चर्यमालोक्य मया प्रश्नः कृतो नृप ।

किमनेन कृतं पुण्यं नीयते किमयं दिवम् ॥

17

अनेन पुण्यतीर्थेऽस्मिन्नन्नदानं कृतं मुने ।

तस्मादयं नीयते हि स्वर्गमित्यूचुरेव ते ॥

18

अयं किरातः पापिष्ठः निर्घृणो मत्स्यजीवनः ।

अनेनास्मिन् वने किञ्चिदन्नदानं कृतं कथम् ॥

19

एवं पृष्टाः सुराः सर्वे दर्शयामासुरद्भुतम् ।

मृतं शरीरमशितं गृधैस्तत्र महीपते ॥

20

अनर्हाणां च गृध्राणां दत्तं चापि यदृच्छया ।

अमेध्यमात्मनः प्रेतं पुण्यक्षेत्रे दुरात्मना ॥

21

बभूव सहसा पुण्यं पुण्यलोकप्रदायकम् ।

दीयते यदि यत्किञ्चिद्बुद्धिपूर्वं च किं पुनः ॥

22

तस्मात्तस्मिन् क्षेत्रवर्ये प्रीतये वनमालिनः ।

देहि दानानि विप्रेभ्यो वेदविद्भ्यो महीपते ॥

23

तदेव सफलं दानं सत्पात्रे निहितं क्वचित् ।

सत्तीर्थे सर्वपापघ्नं सर्वपुण्यफलप्रदम् ॥

24

श्रीसद्गुरुरुवाच

इत्युक्तमुनिवर्येण राजा विश्वसखो महान् ।

गत्वा वरगुणाख्यं तत् क्षेत्रं बन्धुसमन्वितः ॥

25

ताम्रपर्णी नदीतोये स्नात्वा सन्ध्यामुपास्य च ।

अग्रहारं विनिर्माय ब्राह्मणेभ्यो ददौ तथा ॥

26

केदारं च गृहं वस्त्रं काञ्चनं च यदीप्सितम् ।

अन्नं बहुगुणं मेध्यं ब्राह्मणेभ्यो ददौ नृपः ॥

27

नृपस्य श्रद्धया भक्त्या सुप्रीतो भगवान् हरिः ।

दर्शनं च ददौ तस्मै श्रीधरो विजयासनः ॥

28

शङ्खचक्रगदाधारी वक्षः श्रीवत्सलाञ्छनः ।

कौस्तुभामुक्तकण्ठश्च कमलायतलोचनः ॥

29

तं दृष्ट्वा कमलाकान्तं तुष्टाव नृपसत्तमः ।

दामोदरं कृपासिन्धुं देवदेवं जनार्दनम् ॥

30

राजोवाच

नमः परस्मै पुरुषाय तुभ्यं ।

नारायणायामलपुण्यकीर्तये ।

यत्कीर्तनात् यच्छ्रवणात् पुनन्ति ।

पाषण्डिनः पापिजनाः परे च ॥

31

त्वयैव सृष्टं भुवनं हि सर्वं

त्वदीयमेतन्निखिलं त्वं चाहम् ।

दाता च दानं च तथा ग्रहीता

त्वमेव तत्पुण्यफलं तदेव ॥

32

अजानतामेवमनन्तधामन्नध्यात्मतत्त्वं निगमान्तसिद्धम् ।

व्यर्थं हि सर्वं विहितं च कर्म ।

काम्यं तथाऽनित्यफलप्रदत्वात् ॥

33

फलाभिलाषां च विहाय पुण्यं

त्वत्प्रीतये यत्क्रियते सुधीभिः ।

त्वदाज्ञया चित्तविशुद्धये तद्भवत्यनन्ताघनिवृत्तये च ॥

34

देवाश्च दैत्याश्च तथा मनुष्याः ।

विद्याधराः किन्नरराक्षसाद्याः ।

सर्वेऽपि कृत्वा किल काम्यकर्म

मुह्यन्ति संसारवने चरन्ति ॥

35

आब्रह्मकीटं निखिलं परात्मन्

कर्मार्जितं नश्वरमेव चित्रम् ।

तस्मादहं कर्मफलं विहाय

त्वत्प्रीतये पुण्यमिहाचरामि ॥

36

कायेन वाचा मनसेन्द्रियैर्वा

बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।

करोमि यद्यत् सकलं परस्मै

नारायणायेति समर्पयामि ॥

37

अहं कियान् पुण्यफलार्पणाय

निरस्तसाम्याधिकवैभवस्त्वम् ।

त्वमेव मां कर्म च कारयित्वा

प्रीतोऽसि मत्कर्मफलार्पणेन ॥

38

ज्ञानं तथैवं भवतैव दत्तं

जानामि तस्मान्मदवर्जितोऽहम् ।

प्रसन्नचित्तोऽस्मि रमासहाय

दासं त्वदीयं भर मां मुकुन्द ॥

39

न धर्मनिष्ठोऽस्मि न दाननिष्ठो

न सत्यनिष्ठोऽस्मि न योगनिष्ठः ।

अकिञ्चनोऽनन्यगतिर्मुरारे

त्वामेव देवं शरणं प्रपद्ये ॥

40

श्रीसद्गुरुरुवाच

एवं प्रपन्नं राजानं भगवान् विजयासनः ।

सुप्रीतो मधुरं प्राह ललितस्मितभाषणः ॥

41

श्रीभगवानुवाच

मत्प्रीतये त्वया राजन् यत्कृतं सुकृतं बहु ।

प्रसन्नोऽस्मि तथा तेन तस्मात्ते दृष्टिगोचरः ॥

42

अस्मिन् क्षेत्रे वसन्नित्यं धार्मिकाणां महात्मनाम् ।

फलं दास्यामि भक्तानाममोघं परमं पदम् ॥

43

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् सद्यो नृपाय विजयासनः ।

मन्दिरं प्रविवेशाथ पवित्रं राजनिर्मितम् ॥

44

क्षेत्रमेतन्महापुण्यं पाण्ड्यराजसमर्चितम् ।

दिव्यं वरगुणं नाम कामितार्थवरप्रदम् ॥

45

पाण्ड्यराजः पुरा कश्चिद्विजयासनसेवया ।

पुत्रं प्राप महावीरं नाम्ना वरगुणाभिधम् ॥

46

एवं वरगुणाख्येन पाण्ड्येनापि समर्चितः ।

सुप्रसन्नोऽभवद्देवो भगवान् विजयासनः ॥

47

अस्मिन् क्षेत्रे महाविष्णुं सेवते यः श्रियः पतिम् ।

सत्पुत्रं लभते नूनं पाण्ड्यराजो यथा पुरा ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे वरगुणक्षेत्रमाहात्म्यम् नाम द्वादशोऽध्यायः ॥
Ch.11 Pañcama Bhāge Ch.13