Verses

श्रीवृषभाद्रिमाहात्म्यम् Śrī Vṛṣabhādri Māhātmyam

1

श्रीसद्गुरुरुवाच

तस्य राज्ञः प्रवयसः पुत्रभाग्यं न विद्यते ।

तस्मात् सुदुःखितो नित्यं चक्रे नानाविधं व्रतम् ॥

2

चिन्तयामास धर्मात्मा हृदये निर्मले स्वयम् ।

नूनं मत्पूर्वपापेन सर्वं भवति निष्फलम् ।

न्यूनातिरिक्तरहितमपि सम्यगनुष्ठितम् ॥

3

तस्मात्तत्परिहारं च करिष्यामि यथाविधि ।

इति निश्चित्य पप्रच्छ महर्षीन् मन्त्रवित्तमान् ॥

4

मुनय ऊचुः

मा विषीद महाराज भक्तिमानसि माधवे ।

तव नास्ति स्वल्पमपि पापं भाग्यवतां वर ॥

5

पुत्रभाग्यं लब्धुकामः पुराणं पुरुषोत्तमम् ।

पूजय त्वं भक्तिपूर्वं वृषभाद्रिनिकेतनम् ॥

6

श्रीसद्गुरुरुवाच

एवमुक्तो महाराजो मुनिभिस्तत्त्वदर्शिभिः ।

प्रार्थयामास पुत्रार्थं वृषाचलनिकेतनम् ॥

7

चकार पुत्रकामेष्टिं श्रद्धया मुनिभिः सह ।

सुप्रीतो भगवान् विष्णुर्यज्ञो यज्ञफलप्रदः ॥

8

योगमायां कृपासिन्धुः सर्वविद्यास्वरूपिणीम् ।

प्रेषयामास कृपया सन्तानार्थं महीपतेः ॥

9

सा देवी भगवन्माया सर्वलक्षणसंयुता ।

अवतीर्णा स्वयं लोके शुशुभे चन्द्रिका यथा ॥

10

मीनाक्षीत्येव विख्याता देवी सर्वमनोहरी ।

चकार बाललीलां च वर्धयन्ती सुखं पितुः ॥

11

कुलीना शीलसंपन्ना सर्वसद्गुणसंयुता ।

गाने नाट्ये च कुशला वीणावादनपण्डिता ॥

12

नानाकलारसज्ञा च दिव्यसौन्दर्यसंयुता ।

सखीजनसमेता च सततं केलितत्परा ॥

13

अश्वपृष्ठे गजस्कन्धे सारथ्येऽपि च सङ्गरे ।

सर्वासु राजविद्यासु कुशला कुलवर्धिनी ॥

14

ववृधे विष्णुमाया सा बाला मीनविलोचना ।

विलोक्य तां महाराजः सुप्रीतहृदयोऽभवत् ॥

15

तस्याः प्रभावं विज्ञाय मुनिभिः कीर्तितं नृपः ।

अभ्यषिञ्चत् निजे राज्ये राजराजेश्वरीमुमाम् ॥

16

शशास पाण्ड्यदेशं सा जगद्रक्षणदक्षिणा ।

शान्ताः सर्वे जनाश्चासन् स्वधर्मपरिपालकाः ॥

17

चक्रुरालोचनं सर्वे विवाहार्थं च बन्धवः ।

मीनाक्षी निश्चयं चक्रे कर्तुं दिग्विजयं भुवि ॥

18

येन दिग्विजये युद्धे भविष्यामि जिता भुवि ।

तमेव मम भर्तारं वृणोमि न हि संशयः ॥

19

इति निश्चित्य देवी सा प्रतस्थे सह सेनया ।

सर्वत्र विजयं प्राप्य प्रपेदे च हिमाचलम् ॥

20

अन्ते कैलासशिखरं प्राप दिग्विजयाय सा ।

हालास्यसुन्दरो देवश्चाययौ युद्धकौतुकात् ॥

21

लीलयैव रणं कृत्वा विजयं प्राप सुन्दरः ।

अवाङ्मुखी तु मीनाक्षी तस्थौ प्राञ्जलिरग्रतः ॥

22

मीनाक्ष्याः नीलकण्ठोऽपि प्रशशंस पराक्रमम् ।

मीनाक्षी प्रार्थयामास भक्तिपूर्वं महेश्वरम् ॥

23

मीनाक्ष्युवाच

नीलकण्ठ महादेव शिव हालास्यसुन्दर ।

मत्प्रतिज्ञां कृपासिन्धो सावधानं शृणु प्रभो ॥

24

येन दिग्विजये युद्धे भविष्यामि जिता भुवि ।

तमेव मम भर्तारं वृणोमि न हि संशयः ॥

25

इति प्रतिज्ञां कृत्वैव प्रतस्थे नगरादहम् ।

जितास्मि भवता देव प्रतिज्ञां परिपाहि मे ॥

26

सुन्दर उवाच

एवमस्तु महाभागे प्रतिज्ञां पालयामि ते ।

आगमिष्यामि मधुरां परिवारसमन्वितः ॥

27

मधुरां पूर्वमेव त्वं गच्छ मीनविलोचने ।

आवयोस्त्वं विवाहार्थं सन्नाहं कुरु सुन्दरि ॥

28

श्रीसद्गुरुरुवाच

इत्युक्त्वा संप्रहृष्टा सा सुन्दरध्यानतत्परा ।

मधुरापुरमागत्य स्वमात्रे तं न्यवेदयत् ॥

29

बान्धवाश्च जनाः सर्वे विवाहार्थं सकौतुकाः ।

चक्रिरे सर्वसन्नाहं पुरालङ्करणादिकम् ॥

30

शुभे मुहूर्ते श्रीकण्ठः कुम्भोदरसमन्वितः ।

वृषमारुह्य सानन्दं मधुरापुरमागतः ।

मीनाक्षीमुपयेमे च सुन्दरेशो यथाविधि ॥

31

तदा सर्वेश्वरो विष्णुर्वृषभाद्रिनिकेतनः ।

ददौ स्वभगिनीं प्रेम्णा स्वयमेव शिवाय सः ॥

32

सर्वसौन्दर्यसंयुक्तां साक्षाद्दत्तां च विष्णुना ।

संप्राप्य सर्वलोकेशः सुन्दरः सुमुखोऽभवत् ॥

33

यः पठेच्छ्रद्धया नित्यं शृणुयात्प्रेमपूर्वकम् ।

कल्याणचरितं पुण्यं मीनाक्षीसुन्दरेशयोः ॥

34

स प्राप्नोति हि कल्याणं सर्वदुःखविनाशनम् ।

सन्तानवृद्धिं सर्वत्र विजयं सर्वसंपदम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे श्रीवृषभाद्रिमाहात्म्यम् नाम चतुर्थोऽध्यायः ॥
Ch.03 Pañcama Bhāge Ch.05